दाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाम, [न्] क्ली स्त्री, (दीयते इति । दा दाने दो अवखण्डने वा + “सर्व्वधातुभ्यो मनिन् ।” उणां । ४ । १४५ । इति मनिन् ।) यत्रैकस्मिन् बहुप्रग्रहयुक्ते अनेकगावो बध्यन्ते तत् । दाङनि इति दो~का इति च भाषा । तत्पर्य्यायः । सन्दानम् २ । इत्यमरः । २ । ९ । ७३ ॥ रज्जुः । इति दामोदरदर्शनात् ॥ (यथा, भाग- वते । १ । ८ । ३१ । “गोप्याददे त्वयि कृतागसि दाम तावत् या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् । वक्त्रं निलीय भयभावनयास्थितस्य सा मां विमोहयति भीरपि यद्बिभेति ॥” माला । यथा, माघे । ४ । ५० । “क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य ॥” दातरि, त्रि । यथा, ऋग्वेदे । ६ । ४४ । २ । “यः शग्मस्तुविशग्म ते रायो दामा मतीनाम् ॥” “रायो धनस्य दामा दाता भवति ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाम¦ न॰ दो--खण्डने बा॰ करणे मन्।

१ पश्वादिबन्धनरज्ज्वो
“स्रगदाभैरिव चित्रिता” भा॰ भी॰

५७ अ॰।
“सन्तानमा-ल्यदामं च तैरेव कुसुमैः कृतम्” हरिवं॰

१४

५ अ॰। भावे मन्

२ सन्धाने। दम्यते अनुशिष्यते दम--कर्मणिघञ् बा॰ दीर्घः। लोके विश्वसंसारे दामोदरशब्दे दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दामम् [dāmam], (At the end of a compound) Wreath, garland.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाम in comp. for दामन्, p.475.

दाम n. ( ifc. , where also -क)wreath , garland MBh. Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Sukha God. Br. IV. 1. १८.

"https://sa.wiktionary.org/w/index.php?title=दाम&oldid=500204" इत्यस्माद् प्रतिप्राप्तम्