लवणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवणः, पुं, (लुनातीति । लू + ल्युः ।) सिन्धु- भेदः । (यथा, महाभारते । ६ । ५ । १५ । “लवणेन समुद्रेण समन्तात् परिबारितः ॥”) राक्षसविशेषः । रसविशेषः । इति मेदिनी । णे, ७४ ॥ (यथा, भागवते । ३ । ३१ । ७ । “कटुतीक्ष्णोष्णलवणक्षाराम्लादिभिरुल्वणैः । मातृभुक्तैरुपस्पृष्टः सर्व्वाङ्गोत्थितवेदनः ॥”) पृथिव्यग्निगुणबाहुल्याल्लवणः । इति चक्रपाणि- दत्तकृतद्रव्यगुणोपरि शिवदासीयटीका ॥ तत्- पर्य्यायः । पटुः २ । तस्य गुणाः । “लवणो रुचिकृद्रसोऽग्निदायी पचनः स्वादुकरश्च सारकश्च । रसितो नितरां जराञ्च पित्तं शितिमानञ्च ददात्रि कुष्ठकारी ॥” इति राजनिर्घण्टः ॥ अपि च । “लवणः क्लेदनस्तीक्ष्णः पाचनो दीपनः सरः । स्निग्धो रुचिकरः स्यन्दी दृष्टिशुक्रहरो लघुः ॥” अन्यच्च । “लवणः शोधनो रुच्यः पाचनः कफपित्तदः । पुंस्त्ववातहरः कायशैथिल्यमृदुताकरः । सोऽतियुक्तोऽक्षिपाकास्रपित्तकुष्ठक्षयापकृत् ॥” इति राजवल्लभः ॥ * ॥ (“लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत् ।” “लवणः स्तम्भसङ्घातबन्धविध्मापनोऽग्निकृत् ॥ स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेदभेदकृत् । सोऽतियुक्तोऽस्रवपनं खलतिं पलितं वलिम् ॥ तृट्कुष्ठविषवीसर्पान् जनयेत् क्षपयेद्बलम् ॥” इति वाग्भटे सूत्रस्थाने दशमेऽध्याये ॥ “लवणो रसः पाचनः क्लेदनः दीपनः च्यावनः छेदनः भेदनस्तीक्ष्णः सरो विकास्यधःस्रं स्यव- काशकरो वातहरः स्तम्भबन्धसङ्घातविधमनः सर्व्वरसप्रत्यनीकभूत आस्यं विस्रावयति कफं विस्यन्दयति मार्गान् शोधयति सर्व्वशरीरा- वयवान् मृदूकरोति रोचयत्याहारमाहार- योगी नात्यर्थगुरुः स्निग्ध उष्णश्च ।

लवणः, त्रि, (लवणेन संसृष्टः । लवण + ठक् । “लवणात् लुक् ।” ४ । ४ । २४ । इति ठको लुक् । यद्वा, लवणो रसोऽस्त्यस्मिन्निति । अर्श आद्यच् ।) लवणरसयुक्तः । इति मेदिनी । णे, ७५ ॥ (यथा, सुश्रुते । १ । २१ । “मधुरस्त्वविदग्धः स्याद्विदग्धो लवणः स्मृतः ॥”) लावण्ययुक्तश्च ॥

"https://sa.wiktionary.org/w/index.php?title=लवणः&oldid=503981" इत्यस्माद् प्रतिप्राप्तम्