विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थ, थकारः । स व्यञ्जनसप्तदशवर्णः । तवर्ग- द्वितीयवर्णश्च । अस्योच्चारणस्थानं दन्तः । इति व्याकरणम् ॥ (यथा, शिक्षायाम् । १७ । “स्युर्मूर्द्धन्या ऋटुरसा दन्त्या ऌतुलसाः स्मृताः ॥”) अस्य स्वरूपं यथा, -- “थकारं चञ्चलापाङ्गि ! कुण्डली मोक्षरूपिणी । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ॥ पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा । अरुणादित्यसङ्काशं थकारं प्रणमाम्यहम् ॥” इति कामधेनुतन्त्रम् ॥ (वङ्गीयवर्णमालायाम्) अस्य लेखनप्रकारो यथा, -- “कुञ्चिता कुण्डली भूत्वा वामाद्दक्षिणतस्ततः । वामतः कुञ्चिता भूत्वा दक्षाधोदक्षतो गता ॥ ऊर्द्ध्व ऋज्वायता रेखा सुरा गङ्गादयः क्रमात् । वाणी भवानी लक्ष्मीश्च ध्यानमस्य प्रचक्षते ॥” अस्य ध्यानादि यथा, -- “नीलवर्णां त्रिनयनां षड्भुजां वरदां पराम् । पीतवस्त्रपरीधानां सदा सिद्धिप्रदायिनीम् ॥ एवं ध्यात्वा थकारन्तु तन्मन्त्रं दशधा जपेत् । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥ तरुणादित्यसङ्काशं थकारं प्रणमाम्यहम् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा, -- “थः स्थिरामी महाग्रन्थिर्ग्रन्थिग्राहो भयानकः । शिली शिरसिजो दण्डी भद्रकाली शिलोच्चयः ॥ कृष्णो बुद्धिर्व्विकर्म्मा च दक्षनाशाधिपोऽमरः । वरदा भोगदा केशो वामजानुरसोऽनलः ॥ लोलौजज्जयिनी गुह्यः शरच्चन्द्रविदारकः ॥” इति नानातन्त्रशास्त्रम् ॥

थम्, क्ली, रक्षणम् । मङ्गलम् । साध्वसम् । इति मेदिनी । थे, १ ॥

थः, पुं, (थुड संवृतौ + डः ।) पर्व्वतः । भय- रक्षकः । इति मेदिनी । थे, १ ॥ व्याधिभेदः । भयचिह्नम् । भक्षणम् । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ थुड--थुर्व वा ड।

१ पर्वते

२ भयत्रायके त्रि॰

३ मङ्गले

४ भये रक्षणे न॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थ¦ The seventeenth consonant of the Deva Nagri alphabet, and second of the dental class; the aspirate of the preceding letter, and express- ed by T'h.

थ¦ n. (थं)
1. Auspiciousness.
2. Fear, terror,
3. Preserving, preservation. m. (थः)
1. A mountain.
2. Eating.
3. A disease. E. स्था to stand, affix ड। [Page328-b+ 55]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थः [thḥ], 1 A mountain.

A protector.

A sign of danger.

A kind of disease.

Eating.

थम् Protection, preservation.

Terror, fear.

Auspiciousness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थ aspirate of the preceding letter.

थ m. a mountain L.

थ m. a protector L.

थ m. a sign of danger L.

थ m. N. of a disease L.

थ m. eating L.

थ n. preservation L.

थ n. fear L.

थ n. an auspicious prayer L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


THA ( : Ta) This letter means taking food. (Chapter 348, Agni Purāṇa).


_______________________________
*5th word in left half of page 788 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=थ&oldid=507753" इत्यस्माद् प्रतिप्राप्तम्