आकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकरः, पुं, (आकीर्य्यन्ते धातवोऽत्र । आङ् + कॄ + अप् । यद्वा आकुर्व्वन्ति संघीभूय कुर्व्वन्ति व्यव- हारमत्रेति वा । आ + कृ + घ ।) धातुरत्नादे- रुत्पत्तिस्थानं । तत्पर्य्यायः । खनिः २ इत्यमरः ॥ (“आकरे पद्मरागाणां जन्म काचमणेः कुतः” । इति हितोपदेशः । “शैलेन्द्रो हिमवान् नाम धातूनामाकरो महान्” इति रामायणम् ।) समूहः । (“शब्दाकरकरग्राममर्थमण्डलमण्डलम्” । इति कविकल्पद्रुमः ।) श्रेष्ठः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर पुं।

रत्नाद्युत्पत्तिस्थानम्

समानार्थक:खनि,आकर

2।3।7।1।2

खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः। उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर¦ पु॰ आकुर्व्वन्ति संघीभूय कुर्व्वन्ति व्यवहारमत्र आ +कृ--घः।

१ समूहे,
“शब्दाकरकरग्राममर्थमण्डलमण्डलम्” कविल्पद्रु॰
“बभूव वज्राकरभूषणायाः रघुः”।

२ श्रेष्ठे च। आकीर्य्यन्ते धातवोऽत्र कॄ--अप्।

३ रत्नाद्युत्पत्तिस्थाने
“आकरे पद्मरागाणां जन्म काचमणेः कुतः” हितो॰
“शुचीनाकरकर्म्मान्ते भीरूनन्तर्निवेशने”
“आयव्ययौ चनियतावाकारान् कोषमेव च”
“सर्व्वाकरष्वधीकारो महा-यन्त्रप्रवर्त्तनम्” मनुः।
“दिलीपसूनुर्भणिराकरोद्भवः” रघुः।

४ स्थानमात्रे च कमलाकरः पद्माकरैत्यादि।
“हरिदश्वः कमलाकरानिव” रघुः
“शैलोन्द्रोहिमवान्नामधातूनामाकरो महान्” रामा॰। आकरः स्यपरभूरि-कथानां प्रायशो हि सुहृदां सहवासः” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर¦ m. (-रः)
1. A mine.
2. A multitude.
3. Best, excellent. E. आङ् prefixed, कृ to make, &c. अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर [ākara], -See under आकृ.

आकरः [ākarḥ], [by पुंसि संज्ञायां घः प्रायेण P.III.3.118 आकुर्व- न्त्यस्मिन्; Kāśi.

A mine; मणिराकरोद्भवः R.3.18; आकरे पद्मरागाणां जन्म काचमणेः कुतः H. Pr.38; Ms.7.62; आकरे- ष्वधिकारिता Y.3.242; (fig.) a mine or rich source of anything (उत्पत्तिस्थानम्); मासो नु पुष्पाकरः V.1.1; अशेष- गुणाकरम् Bh.2.92; सौभाग्यपण्याकरः Mk.8.38; आकरः सर्व- शास्त्राणाम् Mu.7.7.

A collection, group; पद्माकरं दिनकरो विकचीकरोति Bh.2.73; कमलाकर Ku.2.29; स्नेहाकराणि Māl.9.47.

Best, excellent.

N. of a country.

N. of the Mahābhāṣya.

N. of a country (the modern Khandesh); Bṛi. S. a. Best, excellent. -Comp. -कर्म n. A mining operation; आकरकर्मान्तप्रवर्तनम् Kau. A.2. -ग्रन्थः A source-book. -जम् A jewel. -तीर्थम् Name of a Tīrtha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर/ आ-कर आकरिक, etc. See. आ-कॄ.

आकर/ आ-कर m. one who scatters i.e. distributes abundantly RV. iii , 51 , 3 ; v , 34 , 4 ; viii , 33 , 5

आकर/ आ-कर m. accumulation , plenty , multitude R. Sus3r. etc.

आकर/ आ-कर m. ( ifc. f( आ). MBh. iii , 1657 , 16215 )a mine Mn. Ya1jn5. etc.

आकर/ आ-कर m. a rich source of anything Sa1h.

आकर/ आ-कर m. place of origin , origin

आकर/ आ-कर m. N. of a country (the modern Khandesh) VarBr2S.

आकर/ आ-कर m. N. of wk. (quoted in कमलाकर's शूद्रधर्मतत्त्व)

आकर/ आ-कर mfn. best , excellent L.

"https://sa.wiktionary.org/w/index.php?title=आकर&oldid=490215" इत्यस्माद् प्रतिप्राप्तम्