उष्ट्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्री, स्त्री, (उष + ष्ट्रन् + ङीष् ।) मृत्तिकाभाण्डः । उष्ट्रस्त्री । इति हेमचन्द्रः ॥ तस्याः क्षीरगुणाः । कुष्ठशोथपित्तार्शःकफाटोपानाहोदरस्थजन्तुगुल्म- श्वासोल्लासनाशित्वम् । तद्दधिगुणाः । अर्शःकुष्ठ- कृमिशूलोदररोगनाशित्वम् । कटुत्वम् । स्वादु- त्वञ्च । तन्नवनीतगुणाः । विपाके शीतलत्वम् । लघुत्वम् । व्रणकृभिकफास्नवातविषनाशित्वञ्च । तद्घृतगुणाः । मधुरत्वम् । विपाके कटुत्वम् । शीतलत्वम् । कुष्ठकृमिविषवातकफगुल्मोदरना- शित्वञ्च । तन्मांसगुणाः ॥ शिशिरत्वम् । त्रिदोष- शमनत्वम् । लघुत्वम् । बलपुष्टिंप्रदत्वम् । रुचि- कारित्वम् । मधुरत्वम् । वीर्य्यवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ (अस्या दुग्धगुणा यथा, -- “ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु । शस्तं वातकफानाहक्रिमिशोथोदरार्शसाम्” ॥ इति वैद्यकचक्रपाणिकृतद्रव्यगुणे पानीयवर्गे । “औष्ट्रं दुग्धं लघु स्वादु लवणं दीपनन्तथा । क्रिमिकुष्ठकफानाहशोथोदरहरं सरम्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ “रूक्षं तथोष्णं लवणं कफस्य निवारणं वातविकारहारि । लघुप्रशस्तं कटुकं कृमीणां शोफार्शिनामौष्ट्रपयोऽनुकूलम्” ॥ इति हारीते प्रथमस्थानेऽष्टमेऽध्याये ॥ “रूक्षोष्णं क्षीरमुष्ट्रीणामीषत् सलवणं लघु । शस्तं वातकफानाहक्रिमिशोथोदरार्शसाम्” ॥ इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु । शोफगुल्मोदरार्शाघ्नं कृमि-कुष्ठ-विषापहम्” ॥ इति सुश्रुते सूत्रस्थाने ४५ अध्यायः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्री f. a she-camel Sus3r. Pan5cat. etc.

उष्ट्री f. an earthen vessel in the shape of a camel L.

उष्ट्री f. N. of a plant Nigh.

"https://sa.wiktionary.org/w/index.php?title=उष्ट्री&oldid=493604" इत्यस्माद् प्रतिप्राप्तम्