नाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाशः, पुं, (नश + भावे घञ् ।) पलायनम् । निधनम् । (यथा, महाभारते । १ । १२० । १६ । “पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः । देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः ॥”) अनुपलम्भः । अदर्शनम् । इति मेदिनी । शे, ९ ॥ परिध्वस्तिः । इति हेमचन्द्रः । २ । २३८ ॥ जीवानां नाशहेतुर्यथा, -- “सङ्गात् संजायते कामः कामात् क्रोधोऽभि- जायते । क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः ॥ स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥” इति श्रीभगवद्गीता ॥ कुलनाशकारणं यथा, -- “अनृतात् पारदार्य्याच्च तथाभक्ष्यस्य भक्षणात् । अश्रौतधर्म्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥ अश्रोत्रिये वेददानात् वृषलेषु तथैव च । विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ नश्यतां पूर्ब्बरूपाणि यथा, -- अत्रिरुवाच । “नश्यतां पूर्ब्बरूपाणि जनानां कथयस्व मे । नगराणां तथा राज्ञां त्वं हि सर्व्वं वदिष्यसि ॥ गर्ग उवाच । पुरुषाचारनियमात् परित्यजति देवता । ततोऽपरागाद्देवानामुपसर्गः प्रवर्त्तते ॥ दिव्यान्तरीक्षे भौमञ्च त्रिविधं परिकीर्त्तितम् । ग्रहर्क्षवैकृतं दिव्यमन्तरीक्षं निबोध मे ॥ उल्कापातो दिशां दाहः परिवेशस्तथैव च । गन्धर्व्वनगरञ्चैव वृष्टिश्च विकृता च या । एवमादीनि लोकेऽस्मिन् नाकेशानां विनिर्द्दिशेत् ॥ चरः स्थिरस्तु भूमौ च भूकम्पश्चापि भूमिजः । जलाशयानां वैकृत्यं भौमं तदपि कीर्त्तितम् ॥” इति मात्स्ये २०३ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाश पुं।

मरणम्

समानार्थक:पञ्चता,कालधर्म,दिष्टान्त,प्रलय,अत्यय,अन्त,नाश,मृत्यु,मरण,निधन

2।8।116।2।2

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः। अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

नाश पुं।

अपचयः

समानार्थक:क्षय,क्षिया,अपचिति,क्षिति,नाश

3।3।219।2।1

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

पदार्थ-विभागः : , क्रिया

नाश पुं।

तिरोधानम्

समानार्थक:विनाश,अदर्शन,नाश

3।3।219।2।1

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाश¦ पु॰ नश--भावे घञ्।

१ ध्वंसे निधने

२ अदर्शने

३ पलायने

४ अनुपलम्भे च मेदि॰। ध्वं सश्च जन्याभावः इति नैया-यिकाः अतीतावस्थेति सांख्याः
“नाशः कारणलयः” सा॰ सू॰
“लीङ् श्लेषणे इत्यनुशासनात् लयः सूक्ष्मतयाकारणेष्वविभागः सएवातीतावस्थाख्यो नाश इत्युच्यते” प्र॰ व॰ भा॰। आत्यन्तिकनाशश्च कारणेन सह नाशः इतिभेदः
“विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते” संक्षेप॰
“अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः” वेदा॰ प॰
“स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति” गीता। [Page4050-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाश¦ m. (-शः)
1. Annihilation, loss, destrution, disappearance, ruin.
2. Death.
3. Flight, retreat.
4. Abandonment, desertion. (In Arith- metic.)
5. Elimination. E. णश् to cease to be, affix भावे घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाशः [nāśḥ], [नश्-भावे घञ्]

Disappearance; गता नाशं तारा उपकृतमसाधाविव जने Mk.5.25.

Frustration, destruction, ruin, loss; नेहाभिक्रमनाशो$स्ति Bg.2.4; R.8.88;12. 67: so वित्त˚, बिद्धि˚ &c.

Death.

Misfortune, calamity.

Abandonment, desertion.

Flight, retreat.

(In arith.) Elimination.

Want of apprehension, non-perception (अनुपलम्भ).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाश m. (1 नश्)attainment(See. दूण्).

नाश m. (2. नश्)the being lost , loss , disappearance , destruction , annihilation , ruin , death Br. Mn. MBh. etc. ( ifc. destroying , annihilating See. कर्म-नाशा, ग्रह-नात, दुः-स्वप्न.न्)

नाश m. flight , desertion W.

नाश m. ( arithm. ) elimination ib.

"https://sa.wiktionary.org/w/index.php?title=नाश&oldid=500625" इत्यस्माद् प्रतिप्राप्तम्