स्वीकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वीकारः, पुं, (अस्वस्य स्वस्य कारः करणम् । स्व + कृ + घञ् । अभूततद्भावे च्वीः) अङ्गी- कारः । यथा, -- “सम्बिदागूः प्रतिज्ञा च सन्धावाचश्च सङ्गरः । अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ संश्रवोङ्कारनियमोररीकाराश्रवा अपि ॥” इति जटाधरः ॥ प्रतिज्ञानम् । इति शब्दरत्नावली ॥ अस्वं स्वं कुर्व्वन् व्यापारः । यथा । न च स्वीकारात् स्वत्वं स्वीकत्तुरेव दातृत्वापत्तेः । किञ्च । मनसा पात्र- मुद्दिश्य इत्यादि शास्त्रे स्वीकारात् प्रागेव दान- पदं दृष्टम् । ननु ग्रहणं स्वीकारोऽभूततद्भावे च्विप्रत्ययात् अस्वं स्वं कुर्व्वन् व्यापारः भवति कथं ततः प्रागेव स्वत्वम् । उच्यते उतपन्नमपि स्वत्वं सम्प्रदानव्यापारेण ममेदमिति ज्ञानेन व्यवहारार्हं क्रियत इति स्वीकारशब्दार्थः । इति दायभागः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वीकार¦ पु॰ अखस्य स्वस्य कारः करणं स्व + च्वि + कृ--घञ्। अङ्गीकारे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वीकार¦ n. (-रं)
1. Promise.
2. Assent, agreement. E. स्व own, कार making, च्वि augment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वीकार/ स्वी--कार m. making one's own , appropriation , claiming , claim BhP. Siddh.

स्वीकार/ स्वी--कार m. reception Katha1s.

स्वीकार/ स्वी--कार m. assent , agreement , consent , promise Sarvad.

"https://sa.wiktionary.org/w/index.php?title=स्वीकार&oldid=264741" इत्यस्माद् प्रतिप्राप्तम्