रसना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसना, स्त्री, (रस + युच् । टाप् च ।) जिह्वा । इत्यमरः ॥ (यथा, भागवते । ९ । ४ । १९ । “घ्राणञ्च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसनां तदर्पिते ॥”) तस्याः शुभलक्षणं यथा, -- “तीक्ष्णा दंष्ट्राः समाः श्रेष्ठा जिह्वा रक्ता समा शुभा । श्लक्ष्णा दीर्घा च विज्ञेया तालुः श्वेतो धनक्षये ॥” इति गारुडे ६६ अध्यायः ॥ न्यायमते रसनेन्द्रियग्राह्यो रसो रसत्वादि- सहितः । यथा, -- “रसस्तु रसनाग्राह्यो मधुरादिरनेकधा । सहकारी रसज्ञाया नित्यतादि च पूर्ब्बवत् ॥ घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः । तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः ॥” इति भाषापरिच्छेदः ॥ “तथारस इति रसत्वादिसहित इत्यर्थः ।” इति सिद्धान्तमुक्तावली ॥ * ॥ रास्ना । इति मेदिनी ॥ (अस्याः पर्य्यायो यथा, -- “रास्ना युक्तरसा रस्या सुवहा रसना रसा । एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) गन्धभद्रा । इति शब्दचन्द्रिका ॥ काञ्ची । इति हेमचन्द्रः ॥ (यथा, रघौ । ७ । १० । “कस्याश्चिदासीद्रसना तदानीं अङ्गुष्ठमूलार्पितसूत्रशेषा ॥”) रज्जुः । इति संक्षिप्तसारोणादिवृत्तिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसना स्त्री।

जिह्वा

समानार्थक:रसज्ञा,रसना,जिह्वा

2।6।91।2।2

रदना दशना दन्ता रदास्तालु तु काकुदम्. रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसना¦ स्त्री रस्यतेऽनया रस--करणे ल्युट् अंजा॰ टाप्।

१ जिह्वायाम् अमरः।

२ रास्नायां मेदि॰।

३ काञ्च्यांहेमच॰।

३ रज्जौ च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसना [rasanā], See रशना. -Comp. -मलम् any impurity on the tongue. -मूलम् the root of the tongue. -रदः a bird.-लिह् m. a dog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसना f. See. below

रसना f. the tongue as organ of taste MaitrUp. MBh. etc.

रसना f. N. of two plants(= गन्ध-भद्राand रास्ना) Bhpr.

"https://sa.wiktionary.org/w/index.php?title=रसना&oldid=503779" इत्यस्माद् प्रतिप्राप्तम्