पितामहः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितामहः, पुं, (पितुः पितेति । “पितृव्यमातुल- मातामहपितामहाः ।” ४ । २ । ३६ । इत्यत्र “मातृपितृभ्यां पितरि डामहच् ।” इति वार्त्ति- कोक्त्या डामहच् । ब्रह्मणि तु पितुः पिता जनक- स्यापि जनकः । पितॄणां मरीच्यादीनां पितृ- गणानां पिता वा ।) ब्रह्मा । (यथा, महा- भारते । १ । १ । ३२ । “यस्मात् पितामहो यज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥” शिवः । यथा, महाभारते । १३ । १७ । १४१ । “सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ॥”) पितृपिता । इत्यमरः । २ । ६ । ३३ ॥ ठाकुरदादा इति भाषा ॥ अस्य पर्य्यायः । आर्य्यकः २ । इति शब्दमाला ॥ (यथा, मनौ । ३ । २२१ । “पिता यस्य तु वृत्तः स्याद् जीवेद्वापि पितामहः । पितुः स नाम संकीर्त्त्य कीर्त्तयेत् प्रपितामहम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितामहः [pitāmahḥ], (-ही f.)

A paternal grand-father.

An epithet of Brahman. -हाः (pl.) The Manes; सन्तापयति चैतस्य पूर्वप्रेतान् पितामहान् Mb.14.2.2.

"https://sa.wiktionary.org/w/index.php?title=पितामहः&oldid=300450" इत्यस्माद् प्रतिप्राप्तम्