दर्शनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शनम्, क्ली, (दृश्यतेऽनेनेति । दृश् + करणे ल्युट् ।) नयनम् । स्वप्नः । बुद्धिः । धर्म्मः । उपलब्धिः । दर्पणः । (दृश्यते यथार्थतत्त्वमनेनेति ।) शास्त्रम् । इति मेदिनी । ने, ७३ ॥ शास्त्रन्तु षड्विधम् । वैशेषिकन्यायमीमांसासाङ्ख्यपात- ञ्जलवेदान्तरूपम् । एतानि तत्त्वज्ञानार्थं वेदान् विचार्य्य कणादगोतमजैमिनिकपिलपतञ्जलि- वेदव्यासाख्यैर्मुनिषट्कैः कृतानि ॥ इज्या । इत्य- जयः ॥ वर्णः । दति त्रिकाण्डशेषः ॥ चाक्षुष- ज्ञानम् । देखा इति भाषा । तत्पर्य्यायः । निर्व्वर्णनम् २ निध्यानम् ३ आलोकनम् ४ ईक्ष- णम् ५ । इत्यमरः । ३ । २ । ३१ ॥ निभा- लनम् ६ । इति जटाधरः ॥ * ॥ (यथा, भाग- वते । १ । ६ । ३४ । पौषे मासि शुक्लरात्रौ यत्र तत्र स्थले नरः । पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मखण्डनम् ॥ सप्तजन्म भवेत्तस्य पुत्त्रः पौत्त्रो धनेश्वरः ॥ उपोष्यैकादशीं स्नात्वा प्रभाते द्बादशीदिने । दृष्ट्वा काश्यामन्नपूर्णां करोति जन्मखण्डनम् ॥ दत्त्वा विष्णुपदे पिण्डं विष्णुं यश्च प्रपूजयेत् । पितॄणां स्वात्मनश्चैव करोति जन्मखण्डनम् ॥ प्रयागे मुण्डनं कृत्वा यश्च पितॄन् प्रतर्पयेत् । उपोष्य नैमिषारण्ये करोति जन्मखण्डनम् ॥ उपोष्य पुष्करे स्नात्वा किंवा वदरिकाश्रमे । संपूज्य दृष्ट्वा मामेव करोति जन्मखण्डनम् ॥ सिद्धां कृत्वा च वदरीं भुङ्क्ते वदरिकाश्रमे । दृष्ट्वा मत्प्रतिमां नन्द ! करोति जन्मखण्डनम् ॥ दोलायमानं गोविन्दं दृष्ट्वा वृन्दावने च माम् । दृष्ट्वा संपूज्य नत्वा च करोति जन्मखण्डनम् ॥ भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम् । संपूज्य नत्वा भक्तश्च करोति जन्मखण्डनम् ॥ रथस्थञ्च जगन्नाथं यो द्रक्ष्यति कलौ नरः । संपूज्ज भक्त्या नत्वा च करोति जन्मखण्डनम् ॥ उत्तरायणसंक्रान्त्यां प्रयागे स्नानमाचरेत् । संपूज्य नत्वा मामेव करोति जन्मखण्डनम् ॥ कार्त्तिकीपूर्णिमायाञ्च दृष्ट्वा मत्प्रतिमां शुभाम् । उपोष्य पूजां कृत्वा च करोति जन्मखण्डनम् ॥ चन्द्रभागासमीपे च माघ्याञ्च मां नयेत् शनैः । राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम् ॥ रामेश्वरं सेतुवन्धे आषाढीपूर्णिमादिने ॥ उपोष्य दृष्ट्वा संपूज्य करोति जन्मनः क्षयम् ॥ दीननाथं दिनकरं लोलार्के चोत्तरायणे । उपोष्य दृष्ट्वा संपूज्य करोति जन्मनः क्षयम् ॥ कृषिकोष्ठे सुवसने कलविङ्के सुगह्वरे । विस्यन्दके राजकोष्ठे नन्दके पुष्पभद्रके ॥ पार्व्वतीप्रतिमां दृष्ट्वा कार्त्तिकेयं गणेश्वरम् । नन्दिनं शङ्करं दृष्ट्वा करोति जन्मनः क्षयम् ॥ त्रिकूटे मणिभद्रे च पश्चिमोदधिसन्निधौ । समुपोष्य दधि प्राश्य मां दृष्ट्वा मुक्तिमाप्नुयात् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

"https://sa.wiktionary.org/w/index.php?title=दर्शनम्&oldid=139757" इत्यस्माद् प्रतिप्राप्तम्