ईश्वरविभूति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईश्वरविभूति¦ स्त्री
६ त॰। ईश्वरस्य विभूतौ संसारमध्येस्थानविशेषु तदीयांशभेदे। येषु येषु च भावेषु तस्य चिन्त-नीयता तत् दर्शितं गीतायाम्।
“हन्त ते कथयिष्यामिदिव्या ह्यात्मविभूतयः। प्राधान्यतः कुरुश्रेष्ठ! नास्त्यन्तो-विस्तरस्य मे। अहमात्मा गुडाकेश! सर्व्वभूताशयस्थितः। अहमादिश्च मध्यञ्च भूतानामन्त एव च। आदित्याना-महं विष्णुर्ज्योतिषां रविरंशुमान्। मरीचिर्मरुतामस्मिलक्षत्राणामहं शशी। वेदानां सामवेदोऽस्मि देवाना-मस्मि वासवः। इन्द्रियाणां मनश्चात्मि भूतानामस्मिचेतना। रुद्राणां शङ्करश्चास्मि वित्तेशोयक्षरक्षसाम्। वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्। पुरोधसाञ्चमुख्यं मां विद्धि पार्थ! वृहस्पतिम्। सेनानीनामहं स्कन्दःसरसामस्मि सागरः। महर्षीणां भृगुरहं गिरामस्म्येक-मक्षरम्। यज्ञानां जपयज्ञोऽस्मि स्थावरणां हिमालयः। अश्वत्थः सर्ववृक्षाणां देवर्षीणाञ्च नारदः। गन्धर्व्वाणांचित्ररथः सिद्धानां कपिलोमुतिः। उच्चैःश्रवसमश्वानांविद्धि माममृतोद्भवम्। ऐरावतं गजेन्द्राणां नरा-णाञ्च नराधिपम्। आयुधानामहं वज्रं धेनूनामस्मिकामधुक्। प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः। अनन्तश्चास्मि नागानां वरुणोयादसामहम्। पितॄणा-[Page1048-b+ 38] णामर्य्य मा चास्मि यमः संयमतामहम्। प्रह्रादश्चास्मिदैत्यानां कालः कलयतामहम्। मृगाणाञ्च मृगेन्द्रोऽहंवैनतेयश्च पक्षिणाम्। पवनः पवतामस्मि रामः शस्त्र-भृतामहम्। झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी। सर्गाणामादिरन्तश्च मध्यञ्चैवाहमर्जुन!। अध्यात्मविद्याविद्यानां वादः प्रवदतामहम्। अक्षराणामकरोऽस्मिद्वन्द्वः सामासिकस्य च। अहममेवाक्षयः कालोधाताहंविश्वतोमुखः। मृत्युः सर्व्वहरश्चाहमुद्भवश्च भविष्यताम्। कीर्त्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा। वृहत्साम तथा साम्नां गायत्री च्छन्दसामहम्। मासा॰नां मार्गशीर्षोऽहमृतूनां कुसुमाकारः। द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्। जयोऽस्मि व्यवसायो-ऽस्मि सत्त्वं सत्त्वयतामहम्। वृष्णीनां वासुदेवोऽस्मिपाण्डवामां धनञ्जयः। मुनीनामप्यहं व्यासः कवीना-मुशना कविः। दण्डोदमयतामस्मि नीतिरस्मि जिगी-षताम्। मौनं चेवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्। यच्चापि सर्वभूतानां वीजं तदहमर्ज्जुन!। नतदस्ति विना यत् स्यान्मया भूतं चराचरम्। नान्ती-ऽस्ति मम दिव्यानां विभूतीनां परन्तप!। एष तूद्दे-शतः प्रोक्तोविभूतेर्विस्तरोमया। यद्यद्विभूतिमत् सत्त्वंश्रीमदूर्ज्जितमेव वा। तत्तदेववावगच्छ त्वं मम तेजोऽश-सम्भवम्। अथ वा बहुनोक्तेन किं ज्ञातेन धनञ्जय!। विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितोजगत्”।
८ नृपे च।