छर्द्दिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द्दिः, स्त्री, (छर्द्दयत्यनेनेति । छर्द्द वमने + इन् ।) वमिरोगः । वा~ति इति भाषा ॥ तत्- पर्य्यायः । प्रच्छर्द्दिका २ छर्द्दम् ३ वमथुः ४ वमनम् ५ वमिः ६ । इति हेमचन्द्रः । ३ । ३३ ॥ छर्द्दिका ७ छर्द्दीका ८ वान्तिः ९ उद्गारः १० । इति राजनिर्घण्टः ॥ उत्कासिका ११ छर्द्द- नम् १२ । इति शब्दरत्नावली ॥ तस्या निदा- नादि यथा, -- “दुष्टैर्दोषैः पृथक्सर्व्वैर्वीभत्सालोकनादिभिः । छर्द्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते ॥ अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरति । अकाले चातिमात्रैश्च तथा सात्म्यैश्च भोजनैः । श्रमाद्भयात्तथोद्वेगादजीर्णात् क्रिमिदोषतः । नार्य्याश्चापन्नसत्त्वायास्तथातिद्रुतमश्नतः ॥ वीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् । छादयन्नाननं वेगैरर्द्दयन्नङ्गभञ्जनैः ॥ निरुच्यते छर्द्दिरिति दोषो वक्त्रं प्रधावितः ॥” तस्याः पूर्ब्बरूपं यथा, -- “हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः । भृशं द्वेषोऽन्नपाने च वमीनां पूर्ब्बलक्षणम् ॥” वातजायास्तस्या रूपं यथा, -- “हृत्पार्श्वपीडामुखशोषशीर्ष- नाभ्यर्त्तिकासस्वरभेदतोदैः । उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम् ॥ कृच्छ्रेण चाल्पं महता च वेगे- नार्त्तोऽनिलाच्छर्द्दयतीह दुःखम् ॥” तस्याः पित्तजाया रूपं यथा, -- “मूर्च्छा पिपासा मुखशोषमूर्द्ध- ताल्वक्षिसन्तापतमोभ्रमार्त्तः । विधीयते मारुतजां विना तु संशोधनं वा कफपित्तहारि ॥” अत्र च्छर्द्दीशब्दः । “हन्यात् क्षीरोदकं पीतं छर्द्दिं पवनसम्भवाम् । मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः ॥ क्षीरोदकं नाशितस्य क्षीरस्योदकम् । गुडू चीत्रिफलानिम्बपटोलैः क्वथितं जलम् । पिबेत् मधुयुतं तेन छर्द्दिर्नश्यति पित्तजा ॥ हरीतकीनां चूर्णन्तु लिह्यान्माक्षिकसंयुतम् । अधोमार्गीकृते दोषे छर्द्दिः शीघ्रं निवर्त्तते ॥ विडङ्गत्रिफलाविश्वाचूर्णं मधुयुतं पिबेत् । विडङ्गप्लवशुण्ठीनां चूर्णं वा कफजां वमिम् ॥ प्लवं कैवर्त्तीमुस्तं गुडतजी इति लोके । पिष्ट्वा धात्रीफलं लाजान् शर्कराञ्च पलोन्मितान् । दत्त्वा मधुपलञ्चापि कुडवं सलिलस्य च ॥ वाससा गालितं पीतं हन्ति छर्द्दिं त्रिदोषजाम् । गुडू च्या रचितं हन्ति हिमं मधुसमन्वितम् ॥ दुर्निवारामपि छर्द्दिं त्रिदोषजनितां बलात् ॥ एलालवङ्गगजकेशरकोलमज्जा- लाजाप्रियङ्गुघनचन्दनपिप्पलीनाम् । चूर्णानि माक्षिकसितासहितादि लीढ्वा छर्द्दिं निहन्ति कफमारुतपित्तजाताम् ॥ इति एलादिचूर्णम् ॥ अश्वत्थवल्कलं शुष्कं दग्धं निर्व्वापितं जले । तज्जलं पानमात्रेण छर्द्दिं जयति दुर्ज्जयाम् ॥ यथा त्रिकटुधान्याकजीरकाणां रजो लिहन् । मधुना नाशयेच्छर्द्दिमरुचिञ्च त्रिदोषजाम् ॥ विल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रेण संयुतः । छर्द्दिं त्रिदोषजां हन्ति पर्पटः पित्तजां तथा ॥ आम्रास्थिविल्वनिर्यूहः पीतः समधुशर्करः । निहन्याच्छर्द्द्यतीसारं वैश्वानर इवाहुतिम् ॥ निर्यहः क्वाथः । जम्ब्वाम्रपल्लवशृतं लाजरजःसंयुतं शीतम् । शमयति मधुना युक्तं वमिमतिसारं तृषार्त्ति- मुग्राम् ॥ वीभत्सजां हृद्यतमैरिष्टैर्द्दौर्हृदजां फलैः । लङ्घनैरामजां छर्द्दिं जयेत् सात्म्यै रसात्मजाम् ॥ कृमिहृद्रोगवद्धन्याद्वमिं कृमिसमुद्भवाम् । तत्र तत्र यथा दोषं क्रियां कुर्य्याच्चिकित्सकः ॥ इति छर्द्द्यधिकारः ।” इति भावप्रकाशः ॥

छर्द्दिः, [स्] स्त्री, (छर्द्दयति छर्द्द्यते इति वा । छर्द्द वमने + “अर्चिशुचिहुसृपिच्छादिछर्द्दिभ्य इसिः ।” उणां । २ । १०८ । इति इसिः ।) वमिः । इत्युणादिकोषः ॥ (यथा, चरके चिकित्सास्थाने २३ अध्याये । “तदग्निवेशस्य वचो निशम्य प्रीतो भिषक्श्रेष्ठ इदं जगाद । छर्द्दींषि यानीह पुरोदितानि विस्तारतस्तानि निबोध सम्यक् ॥”)

"https://sa.wiktionary.org/w/index.php?title=छर्द्दिः&oldid=134964" इत्यस्माद् प्रतिप्राप्तम्