वंश्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंश्यः, त्रि, (वंशे भवः । वंश + “दिगादिभ्यो यत् ।” ४ । ३ । ५४ । इति यत् ।) सद्वंशजातः । तत्प- र्य्यायः । कुल्यः २ बीज्यः ३ । इति त्रिकाण्ड- शेषः ॥ (यथा, मनुः । १ । ६१ । “स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ॥” वंशोत्पन्नमात्रे च । यथा, रघुः । १८ । ४९ । “वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥” गृहोर्द्ध्वकाष्ठविशेषः । पृष्ठावयवविशेषश्च । इति वंशशब्ददर्शनात् ॥ यथा, भागवते । ११ । ८ । ३३ । “यदस्थिभिर्निर्म्मितवंशवंश्य- स्थूणं त्वचा रोमनखैः पिनद्धम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=वंश्यः&oldid=163295" इत्यस्माद् प्रतिप्राप्तम्