णह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णह, य ञ औ बन्धे । इति कविकल्पद्रुमः ॥ (दिवां-उभं-सकं-अनिट् ।) य ञ, नह्यति नह्यते । औ, अनद्ध । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णह¦ बन्धने दिवा॰ उभ॰ सक॰ अनिट्। नह्यति--ते प्रणह्य-ति--ते। अनात्सीत् अनद्ध ननाह नेहे। नद्ध्वा नद्धः नद्ध्री।
“यथा युगं वरत्रया नह्यन्ति” ऋ॰

१० ।

६० ।


“खर्जूरी-स्कन्धनद्धानाम्” रघुः।
“अमृतोत्पादने नद्धो भुज-गेनेव मन्दरः” रामा॰ सुन्द॰

२४ अ॰। अपि + धारणे वा आदेरल्लोपः। पिनह्यति अपिनह्यति।
“वितत्या शार्ङ्गं कवचं पिनह्य” भट्टिः।
“आमुच्यकम्बूपरिहाटके शुभे विमुच्य वेणीमपिनह्य कुण्डले” भा॰ वि॰

११ अ॰। विशेषेण बन्धने निबन्धने च।
“पिनद्धां धूमजालेन प्रभामिव विभावसोः” भा॰ व॰

६८ अ॰
“बहुध तु पिनद्धार्ङ्गैर्हिमवच्छिखरैरिव” भा॰ आ॰

१८

५ अ॰। अव + समन्ताद्बन्धने।
“चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरी-षयोः” मनुः। आ + सम्यग्बन्धने
“वरत्रायां दार्व्यानह्य मानः” ऋ॰

१० ।

१०

२ ।


“आनद्धावरणैः कामैः” भा॰ भी॰

११

९ अ॰।
“आनह्यतेयस्य विधूप्यते च पापच्यते क्लिद्यति चापि नासां” सुश्रु॰परि + आ + परितो बन्धे सक॰।
“सोमपर्य्याणहनेन पर्य्या-णह्यति” शत॰ व्रा॰

३ ।

३ ।

४ ।

६ उद् + उत्तोल्य बन्धने।
“अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्यमज्जानमुन्नह्यति”
“सास्रावमुन्नह्यति मांसपिण्डम्” सुश्रु॰ अतिवन्धने च।
“ते नेह शक्याः सहसा विजेतुंवीर्य्योन्नद्धाः कृतवैरास्त्वया ते” भा॰ भी॰

८१ अ॰। सम् + उद् + समुग्बन्धने।
“बल्मीकवत् सभन्नद्धमन्तः कुर्बन्तिविद्रधिम्” सुश्रु॰। पण्डित्याभिमाने गर्वे च
“अतस्त्रिषुसमुन्नद्धौ पण्डितम्मन्यगर्वितौ” अमरः। तत्र पाण्डित्यमाने
“अश्रुतश्च समुन्नद्धौ डरिद्रश्च महामनाः” भा॰ उ॰

३२ अ॰। गर्वे
“अर्थं महान्तमासाद्य विद्यामैश्वर्य्यमेव वा। विचरत्यसमुन्न्द्धो यः स पण्डित उच्यते” भा॰ उ॰

३२ अ॰। समुद्नवे च
“परोक्षेण समुन्नद्धप्रणयोतकण्ठ्यकातरः” भाग॰

१ ।

१५ ।

४ उप + उपरिबन्धने।
“विस्रावयेत् स्विन्नमतन्त्रितश्च शुद्धं व्रणंचाप्युपनाहयेत्तु” सुश्रु॰। उपानद् क्विपि पूर्वस्वरदीर्घः। नि + निवन्धने।
“इषधिः पृष्ठे निनद्धः” ऋ॰

६ ।

७५ ।

५ परि + परितो बन्धने।
“न तां बध्री परिणहेच्छतचर्माभहातनुम्” भा॰ आ॰

२९ अ॰। विस्तारे
“परिणाहो[Page3196-a+ 38] विशाकता” अमरः।
“कपाटवक्षाः परिनद्धकन्धरः” रघुः। क्विपि घञि परे वा दीर्थः परी(रि) णाहः। सम् + सम्यग्बन्धने कवचादिधाऋअणे च।
“श्लथद्दुकूलं कवरीं च विच्युतां संनह्यतीं वामकरेणवलगुना” भाग॰

८ ।

१२ ।

१६ ।
“कवचेन महार्हेण सम-नह्यद्वृहन्नलाम्” भा॰ वि॰

३७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णह¦ r. 4th cl. (औ) औनह (नह्यति नह्यते) To bind, to tie. With सम् pre- fixed, (सन्नाहति) To arm, to put on mail or military accoutrements. दिवा-उभ-सक-अनिट् |

"https://sa.wiktionary.org/w/index.php?title=णह&oldid=393320" इत्यस्माद् प्रतिप्राप्तम्