उज्ज्वल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्ज्वलम्, त्रि, (उच्चैर्ज्वलति प्रकाशते इति । उत् + ज्वल् + अच् ।) दीप्तम् । विशदम् । विकाशितम् । इति मेदिनी ॥ (यथा, साहित्यदर्पणे । ३ परि- च्छेदः । “अस्माकं सखि ! वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं” । “विचित्रोज्ज्वलवेशा तु बलन्नूपुरनिःस्वना” ॥)

उज्ज्वलम्, क्ली, (उत् + ज्वल + अच् ।) स्वर्णम् । इति राजनिर्घण्टः ॥

उज्ज्वलः, पुं, (उत् + ज्वल + अच् ।) शृङ्गाररसः । इत्यमरः ॥ (यथा, नैषधे १ । १ । “स राशिरासीन्महसां महोज्ज्वलः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्ज्वल पुं।

शृङ्गाररसः

समानार्थक:शृङ्गार,शुचि,उज्ज्वल

1।7।17।2।5

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्ज्वल¦ त्रि॰ उद् + ज्वल--अच्।

१ दीप्ते,

२ विशदे,

३ विकाशिनिच।

४ शृङ्गाररसे पु॰।
“स राशिरासीन्महसां महो-ज्ज्वलः
“शृङ्गारभङ्ग्या महाकाव्येचारुणि नैषधीयचरितेसर्गोनिसर्गीज्ज्वलः” नैष॰।
“स्वातन्त्र्यमुज्ज्वलमवाव करेणुराजः” अविरतमुद्धतिमुज्ज्वलां दधानैः” माघः।
“अस्माकं सखि! वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलम्” सा॰ द॰
“विचित्रोज्ज्वलवेशा तु वलन्नुपूरनिस्वनाः” सा॰द॰
“सुमुखाः पल्वलोज्ज्वलाः” सुश्रु॰। अस्य च रसान्तरत्वंगोस्वामिग्रन्थे स्थितम्।

५ स्वर्णेन॰ राजनि॰ धातुमध्येतस्याद्दीप्तोत्वात्तथात्वम्। तस्य भावः ष्यञ् औज्ज्वल्य त्व। उज्ज्वलत्व तद्भावे न॰। तल्। उज्ज्वलता स्त्री तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्ज्वल¦ mfn. (-लः-ला-लं)
1. Luminous, splendid, light.
2. Lovely, beauti- ful.
3. Clean, clear.
4. Blown, expanded.
5. Burning, blazing. m. (-लः) Love, passion. n. (-लं) Gold. E. उत् much, ज्वल to shine, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्ज्वल [ujjvala], a.

Bright, shining, luminous, splendid; उज्ज्वलकपोलं मुखम् Śi.9.48,47;

Burning.

Clean, clear, white; उज्ज्वलकाञ्चनकान्तिः Śi.6.5.

Lovely, beautiful; सर्गो निसर्गोज्ज्वलः N.3.136.

Mixed with, seasoned; हिङ्गूज्ज्वला जीरकभद्रमुस्ता Mk.8.13.

Blown, expanded.

Unrestrained, full; स्वातन्त्र्यमुज्ज्वलमवाप Śi.5.48. -लः Love, passion.

ला Splendour, brightness.

Clearness.

A form of the Jagatī metre.-लम् Gold. -Comp. -अक्षी N. of a bird (Mar. साळुंखी).-दत्तः N. of the author of a commentary on the Uṇādi Sūtras.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्ज्वल/ उज्-ज्वल mfn. blazing up , luminous , splendid , light

उज्ज्वल/ उज्-ज्वल mfn. burning

उज्ज्वल/ उज्-ज्वल mfn. clean , clear

उज्ज्वल/ उज्-ज्वल mfn. lovely , beautiful Sus3r. MBh. Katha1s. Sa1h. etc.

उज्ज्वल/ उज्-ज्वल mfn. glorious

उज्ज्वल/ उज्-ज्वल mfn. full-blown L.

उज्ज्वल/ उज्-ज्वल mfn. expanded

उज्ज्वल/ उज्-ज्वल m. love , passion L.

उज्ज्वल/ उज्-ज्वल n. gold L.

उज्ज्वल/ उज्-ज्वल n. a form of the जगतीmetre.

"https://sa.wiktionary.org/w/index.php?title=उज्ज्वल&oldid=492197" इत्यस्माद् प्रतिप्राप्तम्