उच्चैःश्रवाः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैःश्रवाः [स्] पुं, (उच्चैः श्रवो यशो यस्य । यद्वा उच्चैः श्रवसी यस्य । यद्वा उच्चैः शृणीतीति उच्चैः + श्रु + असुन् ।) इन्द्रधोटकः । इत्यमरः ॥ स तु श्वेतवर्णः समुद्रमन्थनोत्थितः । इति श्रीभागवतम् ॥ (“उच्चैःरुच्चैःश्रवास्तेन हयरत्नमहारि च” ॥ इति कुमारे । २ । ४७ ॥)

"https://sa.wiktionary.org/w/index.php?title=उच्चैःश्रवाः&oldid=117344" इत्यस्माद् प्रतिप्राप्तम्