एकपिङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपिङ्गः, पुं, (एकं पिङ्गं पिङ्गलवर्णं नेत्रं यस्य ।) कुवेरः । इत्यमरः ॥ (कुवेरस्य पिङ्गनेत्रकथा उक्ता काशीखण्डे । यथा, -- “प्रसार्य्य नयने पूर्ब्बमुमामेव व्यलोकयत् । शम्भोः समीपे का योषिदेषा सर्व्वाङ्गसुन्दरी ॥ अनया किं तपस्तप्तं ममापि तपसोऽधिकम् । अहो रूपमहो प्रेम सौभाग्यश्रीरहो भृशम् । क्रूरदृग्वीक्षते यावत् पुनः पुनरिदं वदन् । तावत् प्रस्फोटितं नेत्रं वामं वामविलोकनात् ॥ अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः । असकृद्दक्षिणेनाक्ष्णा पुनर्मामेष पश्यति ॥ असूयमानो मे रूपं प्रेमसौभाग्यसम्पदः । इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ॥ उमे ! त्वदीयपुत्रोऽयं न च क्रूरेण चक्षुषा । संपश्यते तपोलक्ष्मीं तव किन्त्वधिवर्णयन् ॥ इति देवीं समाभाष्य तमीशः पुनरब्रवीत् । वरं ददामि ते वत्स ! तपसानेन तोषितः ॥ निधीनामधिनाथस्त्वं गुह्यकानां भवेश्वरः । यक्षाणां किन्नराणाञ्च राजा राज्ञाञ्च सुव्रत ! ॥ पतिः पुण्यजनानाञ्च सर्व्वेषां धनदो भव । मया सख्यञ्च ते नित्यं वत्स्यामि च तवान्तिके ॥ अलकां निकषामित्र ! तव प्रीतिं विवर्द्धयन् । आगच्छ पादयोरस्याः पत ते जननी त्वियम् ॥ इति दत्त्वा वरान् देवः पुनराह शिवः शिवाम् । प्रसादं कुरु देवेशि ! तपस्विन्यङ्गजे तव । देव्युवाच । वत्स ! ते निर्म्मला भक्तिर्भवे भवतु सर्व्वदा । भवैकपिङ्गो नेत्रेण वामेन स्फुटितेन च ॥ देवदत्तास्तु ये तुभ्यं वराः सन्तु तथैव ते । कुवेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपिङ्ग पुं।

कुबेरः

समानार्थक:कुबेर,त्र्यम्बकसख,यक्षराज्,गुह्यकेश्वर,मनुष्यधर्मन्,धनद,राजराज,धनाधिप,किन्नरेश,वैश्रवण,पौलस्त्य,नरवाहन,यक्ष,एकपिङ्ग,ऐलविल,श्रीद,पुण्य,जनेश्वर,एककुण्डल

1।1।69।2।2

किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः। यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः॥

सम्बन्धि2 : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,सामान्यनिधिः

जन्य : नलकूबरः

सेवक : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,किन्नरः

 : किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपिङ्ग¦ पु॰ एकं पिङ्गं नेत्रमस्य। कुवेरे। तस्य क्रूरदृ-ष्ट्या पार्व्वतीदर्शने वामनेत्रस्य स्फुटने शिववाक्येन प्रस-न्नायास्तस्या वरेण पिङ्गलं वामनेत्रं जातमिति तस्यतथात्वम् तत्कथा काशी॰ यथा(
“प्रसार्य्य नयने पूर्ब्बमुमामेव व्यलोकयत्। शम्भोःसमीपे का योषिदेषा सर्वाङ्गसुन्दरी। अनया किं तपस्तप्तं?ममापि तपषोऽधिकम्। अहो रूपमहो प्रेम सौभाग्यश्रीरहो भृशम्। क्रूरदृग्वीक्षते यावत् पुनः पुनरिदंवदन्। तावत् प्रस्फोटितं नेत्रं वामं वामविलोकनात्। अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः। असकृद्वीक्ष्य मांवक्ति न्यक्कुर्व्वन्मे तपःप्रभाम्। असकृद्दक्षिणेनाक्ष्णा पुन-र्मामेष पश्यति। असूयमानो मे रूपं प्रेमसौभाग्यसम्पदः। इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः। उमे!त्वदीयपुत्रोऽयं न च क्रूरेण चक्षुषा। संपश्यते तपो-लक्ष्म्यां तव किन्त्वधिवर्णयन्। इति देवीं समाभाष्य-तमीशः पुनरब्रवीत्। वरं ददामि ते वत्स! तपसाऽनेनतोषितः। निधीनामधिनाथस्त्वं गुह्यकानां भवेश्वरः। यक्षाणां किन्नराणाञ्च राजा राज्ञाञ्च सुव्रत!। पतिः-पुण्यजनानाञ्च सर्वेषां धनदोभव। मया सख्यञ्च ते नित्यंवत्स्यामि च तवान्तिके। अलकां निकषा मित्र! तव प्रीतिंविवर्द्धयन्। आगच्छ पादयोरस्याः पत ते जननी त्वियम्। इति दत्त्वा वरान् देवः पुनराह शिवः शिवाम्। प्रसादंकुरु देवेशि! तपस्विन्यङ्गजे तव। देव्युवाच। वत्स! तेनिर्म्मला भक्तिर्भवे भवतु सर्व्वदा। भवैकपिङ्गोनेत्रेणवामेन स्फुटितेन च। देवदत्तास्तु ये तुभ्यं वरास्सन्तु तथैवते। कुवेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत!” एकपि-[Page1476-a+ 38] ङ्गलोऽप्यत्र। एकपिङ्गलवर्णनेत्रयुक्तत्वात्तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपिङ्ग¦ m. (-ङ्गः) A name of KUVERA. E. एक one, and पिङ्ग tawny: hav- ing a yellow mark in the place of one of his eyes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपिङ्ग/ एक--पिङ्ग m. " having a yellow mark (in the place of one eye) " , N. of कुवेरR. Das3. etc.

"https://sa.wiktionary.org/w/index.php?title=एकपिङ्ग&oldid=493925" इत्यस्माद् प्रतिप्राप्तम्