मकरध्वज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरध्वजः, पुं, (मकरेण चिह्नितो ध्वजो यस्य ।) कामदेवः । इत्यमरः । १ । १ । २७ ॥ (यथा, माधे । ३ । ६१ । “शरीरिणा जैत्रशरेण यत्र निशङ्कमूषे मकरध्वजेन ॥”) रससिन्दूरविशेषः । तस्य नामान्तरं चन्द्रो- दयः । तस्य करणप्रकारो यथा, -- “पलं मृदु स्वर्णदलं रसेन्द्रं पलाष्टकं षोडशगन्धकस्य । शोणैः सुकार्पासभवप्रसूनैः सर्व्वं विमर्द्द्याथ कुमारिकाद्भिः ॥ तत् काचकुम्भे निहितं सुगाढे मृत्कर्पटैस्तद्दिवसत्रयञ्च । पचेत् क्रमाग्नौ सिकताख्ययन्त्रे ततो रजः पल्लवरागरम्यम् ॥ निगृह्य चैतस्य पलं पलानि चत्वारि कर्पूररजस्तथैव । जातीफलं सोषणमिन्द्रपुष्पं कस्तूरिकाया इह शाण एकः ॥ चन्द्रोदयोऽयं कथितोऽस्य माषो भुक्तोऽहिबल्लीदलमध्यवर्त्ती ॥” अस्य गुणाः । “मदोन्मदानां प्रमदाशतानां गर्व्वाधिकत्वं श्लथयत्यकाण्डे । शृतं घनीभूतमतीव दुग्धं मृदूनि मांसानि समण्डकानि । मांसानि मिष्टानि भवन्ति पथ्य- मानन्ददायीन्यपराणि चात्र ॥” बलीपलितनाशनस्तनुभृतां वयस्तम्भनः समस्तगदखण्डनः प्रचुरयोगपञ्चाननः । गृहेषु रसराडयं भवति यस्य चन्द्रोदयः स पञ्चशरदर्पितो मृगदृशां भवेद्वल्लभः ॥” इन्द्रपुष्पं लवङ्गम् । उक्तपरिमाणलक्षणमुप- लक्षणम् । दाक्षिणात्याः शोणकार्पासपुष्पद्रव- मेव गृह्णन्ति । पाश्चात्याः निर्वृन्ततत्पुष्पेणैव यावदार्द्रत्वं मर्द्दयन्ति । उभयथैव निष्पत्तेरदोषः । तथैवेति सर्व्वत्रान्वयः । * । शास्त्रान्तराद्बिशेषो लिख्यते । “रतिकाले रतान्ते च पुनः सेव्यो रसोत्तमः । स्थावरं जङ्गमविषं जङ्गमं विषवारि वा । न विकाराय भवति साधकेन्द्रस्य वत्सरान् ॥ मृत्युञ्जयो यथाभ्यासात् मृत्युं जयति देहिनः । तथाय साधकेन्द्रस्य जरामरणनाशनः ॥” शास्त्रान्तरे मकरद्धजो नाम । इति चन्द्रोदयः । इति रसेन्द्रचिन्तामणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरध्वज पुं।

कामदेवः

समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु

1।1।26।2।3

शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥

जनक : विष्णुः

सम्बन्धि2 : कामबाणः

जन्य : अनिरुद्धः

सेवक : कामबाणः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरध्वज¦ पु॰ मकरो ध्वजोऽस्य। कामदेवे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरध्वज¦ m. (-जः)
1. KA4MA: see the two last.
2. A particular array of troops.
3. A particular medical preparation. E. मकर Makara, and ध्वज emblem. [Page540-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरध्वज/ मकर--ध्वज m. = -केतनMBh.

मकरध्वज/ मकर--ध्वज m. the sea Harav.

मकरध्वज/ मकर--ध्वज m. a partic. array of troops Ka1m.

मकरध्वज/ मकर--ध्वज m. a partic. medical preparation L.

मकरध्वज/ मकर--ध्वज m. N. of a prince Vcar.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is Madana, God of Love with the fish standard. Br. IV. ११. २८; १९. ६७; ३०. ५६; M. १५४. २४४; २६१. ५३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAKARADHVAJA I : A son of Hanūmān. He was born to a crocodile living in the ocean as the perspiration drops fell on her from Hanūmān. (Sārakāṇḍa, Ānanda Rāmāyaṇa).


_______________________________
*3rd word in left half of page 471 (+offset) in original book.

MAKARADHVAJA II : One of the sons of Dhṛtarāṣṭra. He was killed in the great battle by Bhīmasena. (Chap- ter 92, Droṇa Parva).


_______________________________
*4th word in left half of page 471 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मकरध्वज&oldid=434463" इत्यस्माद् प्रतिप्राप्तम्