ऊर्द्ध्वस्रोतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वस्रोतस्¦ पु॰ ऊर्द्ध्वम् ऊर्द्धगतं नाधोगामि स्रोतः रेतसःप्रवाहोऽस्य।

१ ऊर्द्धरेतसि योगिभेदे स हि उत्पतनहेतु-सत्वाधिक्येन रेतः प्रवाहमूर्द्धमानयतीति तस्य तथात्वम्सत्वबाहुल्ये एव यथोर्द्धस्रोतस्त्वं तथा सां॰ कौ॰ उक्तम्यथा
“केचित् खलु सत्वबहुलाः सत्त्वनिकाया यथो-र्द्धस्रोतस इति” ऊर्द्ध्वं स्रोत आहारसञ्चारोऽस्य

२ वनस्पत्यादिषु
“वनस्पत्योषधिलतात्वक्सारवीरुधोद्रुमाः। उत्स्रोतसस्तमःप्रायाः अन्तःस्पर्शाविशेषिणः” भाग॰

१ ,

८ ,

२० , तेषां तथात्वोक्तेः
“ऊर्द्धं स्रोत आहारसञ्चारो-येषाम्” श्रीधरः। मूले सिक्तजलादीनां मूलेनैवोर्द्धमाक-र्षणात् तेषामूर्द्धस्रोतस्त्वम्। [Page1393-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वस्रोतस्&oldid=246950" इत्यस्माद् प्रतिप्राप्तम्