ऊर्द्धगपुर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऊर्द्धगपुर¦ न॰ कर्म॰। अम्बरस्थपुरे खपुरे हरिश्चन्द्रपुरेत्रिका॰। हरिश्चन्द्रशब्दे तत्पुरस्योर्द्धत्वं वक्ष्यते।
२ त्रि-पुरासुरपुरे च तत्पुरस्याम्बरस्थत्वमुक्तम् हरिवं॰
३२
४ अ॰ यथा
“त्रिपुरं पुरुषव्याघ्र! वृहद्धातुसमीरितम्। विक्रामतिनभोमध्ये मेघवृन्दमिवोत्थितम्। प्राकारेण प्रवृद्धेन काञ्च-नेन विराजता। मणिभिश्च प्रकाशद्भिः सर्वरत्नैश्च तोरणैः। बभासे नभसो मध्ये श्रिया परमया ज्वलत्। गन्धर्बाणा-मिवोदग्रं कर्म्मणा साधितं पुरम्। वाजिनः पक्षसं-युक्ता वहन्ति बलदर्पिताः। पुरं प्रभाकरं श्रेष्ठ म-नोभिः कामचारिणः। धावन्तो हेषमाणाश्च विक्रमैःप्राणसंभृतैः। आह्वयन्त इवाकाशं खुरैः शष्पदलप्रभैः। वायुवेगसमैर्वेगैः कम्पयन्त इवाम्बरम्। सर्वतः समदृश्यन्तचक्षुर्भिर्विदितात्मभिः। ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्ध-किल्विषैः। गीतवादित्रबहुलं गन्धर्वनगरोपमम्। चि-त्रायुधसमाकीर्णैः प्रतप्तकनकप्रभैः। भवनैर्बहुवर्णैश्च पां-शुभिः समलङ्कृतैः। देवेन्द्रभवनाकारैः शुशुभे तन्महाद्युति। प्रासादाग्रैः प्रवृद्धैश्च कैलासशिखरप्रभैः। शुशुभे दैत्य-नगरं बहुसूर्य्यमिवाम्बरम्। चयाट्टालकसम्पन्नं तप्त-काञ्चनसप्रभम्। क्ष्वेडितोत्कुष्टबहुलं सिंहनादविना-दितम्। बभौ वल्गुजनाकीर्णं वनं चैत्ररथं यथा। समुद्धतपताकं तदसिभिश्च विराजितम्। रराज त्रिपुरंराजन्। महाविद्युदिवाम्बरे”।