दग्धः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धः, त्रि, (दह्यते स्म इति । दह + क्तः ।) भस्मीकृतः । पोडा इति भाषा । तत्पर्य्यायः । प्रुष्टः २ प्लुष्टः ३ उषितः ४ । इत्यमरः । ३ । १ । ९९ ॥ (यथा, मनुः । ८ । १८९ । “चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा । न दद्यात् यदि तस्मात् स न संहरति किञ्चन ॥”) “पत्राणामामिषं पर्णम् । गोर्वर्ज्यमामिषं क्षीरं फले जम्बीरमामिषम् । आमिषं रक्तशाकञ्च सर्व्वञ्च दग्धमामिषम् ॥” इति कर्म्मलोचनम् ॥ (म्लानम् । यथा, अमरुशतके । २४ । “रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते ॥” चन्द्राश्रितराशिभूलकपारिभाषिकगृहम् । यथा, ज्योतिषतत्त्वे । “मृगसिंहौ तृतीयायां प्रथमायां तुलामृगौ । पञ्चम्यां बुधराशी द्वौ सप्तम्यां चापयन्त्रभे ॥ नवम्यां सिंहकोटाख्यावेकादश्यां गुरोर्गृहे । वृषमीनौ त्रयोदश्यां दग्धसंज्ञास्त्वमी गृहाः । दग्धसद्यनि यत् कर्म्म कृतं सर्व्वं विनश्यति ॥”)

"https://sa.wiktionary.org/w/index.php?title=दग्धः&oldid=139363" इत्यस्माद् प्रतिप्राप्तम्