ऋक्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षः, पुं, (ऋक्ष् + अच् ।) पर्ब्बतविशेषः ॥ (अयं हि कुलाचलानामेकः । यथा, सिद्धान्तशिरोमणौ ॥ “माहेन्द्रशुक्तिमलयर्क्षकपारिपात्राः सह्यः सविन्ध्य इह सप्त कुलाचलाख्याः” ॥) भल्लूकः । (यथा मनुः । १२ । ६७ । “वृको मृगेभं व्याघ्रोऽश्वं फलमूलन्तु मर्कटः । स्त्रीमृक्षस्तोककोवारि यानान्युष्ट्रः पशूनजः” ॥) शोणाकवृक्षः । इति मेदिनी ॥ श्योनाकप्रभेदः । इति राजनिर्घण्टः ॥ (स्वनामख्यातोऽजमीढपुत्त्रः । यथा, हरिवंशे पुरुवंशानुकीर्त्तने । ३२ । ८७ । “धूमिन्या स तया देव्या त्वजमीढः समेयिवान् । ऋक्षं स जनयामास धूमवर्णं सुदर्शनम्” ॥ स्वनामख्यातो विदूरथस्य पुत्त्रः । यथा, तत्रैव ३२ । १०४ । “विदूरथस्य दायद ऋक्ष एव महारथः” ॥ तथा स्वनामख्यातोऽरिहस्य पुत्त्रः । यथा, महा- भारते १ । पुरुवंशानुकीर्त्तने । ९५ । २४ । “अरिहः खल्वाङ्गेयीमुपयेमे सुदेवां नाम तस्यां पुत्त्रमजीजनदृक्षम्” ॥ एतेन पुरुवंशे त्रयएव ऋक्षनामानो राजानः सम्भूताः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षः [ṛkṣḥ], [ऋष्-स किच्च Uṇ.3.66]

A bear; स्त्रीं (हृत्वा) ऋक्षः (भवति) Ms.12.67.

A species of ape; A. Rām.7.3.6.

A kind of deer; प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपधर्षितः । रोहिद्भूतां सो$न्वधावदृक्षरूपी हतत्रपः ॥ Bhāg.3.31. 36.

N. of a mountain.

N. of a plant (भल्लक Mar. दिंडा)

क्षः, क्षमः A star, constellation, lunar mansion; पश्चिमां तु समासीनः सम्यगृक्षविभावनात् Ms.2.11;3.9;6.1.

A sign of the zodiac.

A star under which a man happens to be born. -क्षाः (m. pl.) The seven stars called Pleiades; afterwards the seven Ṛiṣis; दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः (प्रययौ) R.12.25. -क्षा The north. -क्षी A female bear. [cf. Gr. arkos, L.ursus]. -Comp. -इष्टिः Offering to the stars (ग्रहमख); ऋक्षेष्टपाग्रयणं चैव चातुर्मास्यानि चाहरेत् Ms.6.1. -गन्धा the plant Argyreia Argentea (जांगली, महाश्वेता, क्षीरविदारी).-गन्धिका the plant Batatas Paniculata. -चक्रम् the circle of stars. -जिह्वम् A kind of leprosy. -नाथः, -ईशः 'lord of stars' the moon. -नायकः A kind of round building. (Agnipurāṇa ch. 14; V.19.2). -नेमिः N. of Viṣṇu. -प्रियः An ox.

राज्, जः the moon.

Jāmbuvat, the king of bears. -विडम्बिन् m. A fraudulent astrologer. -हरीश्वरः the lord of bears and apes; an epithet of Sugrīva; दुर्जातबन्धुरयमृक्षहरीश्वरो मे R.13.72.

"https://sa.wiktionary.org/w/index.php?title=ऋक्षः&oldid=493739" इत्यस्माद् प्रतिप्राप्तम्