ऊतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊतिः, स्त्री, (अव् + क्तिन् । ज्वरत्त्वरेत्यूट् । ६ । ४ । २० ।) रक्षणम् । (वे + क्तिन् ।) स्यूतिः । इति मेदिनी ॥ वोना सेलाइ इति भाषा । क्षारणम् । इति शब्दरत्नावली ॥ जवनम् । इत्यमरटीकायां स्वामी ॥ लीला । इति श्रीभागवतम् ॥ (कर्त्तरि क्तिचि । रक्षाकर्त्त्री । यथा, ऋग्वेदे । ४ । ४ । २ ॥ “उरुष्यन्तम् माध्वी दस्ना न ऊतीः” । कर्म्मणि क्तिन् । पुराणस्य दशविधलक्षणमध्ये कर्म्मवासना- रूपो लक्षणभेदः । यथा, भागवते । २ । २० -- १४ । श्रीशुक उवाच । “अत्र सर्गो विसर्गश्च स्थानं पोषणभूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्यात् विषर्गः पौरुषः स्मृतः ॥ स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः । मन्वन्तराणि सद्धर्म्म ऊतयः कर्म्मवासनाः” ॥ “कर्म्मवासना ऊतयः” । इति चूर्णिकाटीका ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊतिः [ūtiḥ], f. [अव्-क्तिन् P.III.3.97]

Weaving, sewing (fr. वे).

Protection; मघवञ्छग्धि तव तन्न ऊतिभिः Mahānār. Up.2.4.

Enjoyment.

Sport, play अवैति जन्तुः कुमनीष ऊतीः Bhāg.1.3.37;8.5.44.

Favour, kindness.

Aid, assistance, help.

The money given to a tailor for sewing.

Wish, desire; मन्वन्तराणि सद्धर्मऊतयः कर्मवासनाः Bhāg.2.1.4.

Red texture; tissue; अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः Bhāg 2.1.1.

"https://sa.wiktionary.org/w/index.php?title=ऊतिः&oldid=246332" इत्यस्माद् प्रतिप्राप्तम्