फलवान्
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फलवान्, [त्] त्रि, (फलमस्यास्तीति । फल + मतुप् । मस्य वः ।) फलयुक्तवृक्षः । तत्पर्य्यायः । फलिनः २ फली ३ । इत्यमरः ॥ फलितः ४ । इति राजनिर्घण्टः ॥ (यथा, मनुः । १ । ४७ । “अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥”)