हंसक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकः, पुं, (हंस इव कायति मधुरध्वनित्वात् । कैशब्दे + कः ।) पादकटकः । यथा, -- “पादाङ्कदं तुलाकोटिर्मञ्जीरो नूपूरोऽस्त्रियाम् । हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका ॥” इत्यमरः । २ । ६ । १०९ ॥ “षट् नूपुरे । केचित्तु पादाङ्गदादिचतुष्कं चरण- भूषणे नूपुर इति ख्याते । हंसकादिद्वयं रवशून्ये हंसाकृतिचरणभूषणे इत्याहुः । हंस इव कायति मधुरध्वनित्वात् हंसकः । कै शब्दे डः । हंसाकृतित्वात् हंस इव हंसकः इति वा । इवार्थेविकारसंघ इत्यादिना कः ।” इति भरतः ॥ (हंस इवेति । इवे प्रतिकृताविति कन् । स्वार्थे कन् वा) राजहंसः । इति शब्दचन्द्रिका ॥ (यथा, माघे । ७ । २३ । “सरित इव सविभ्रमप्रवात- प्रणदितहंसकभूषणा विरेजुः ॥” तालप्रभेदः । यथा, -- “लघुर्गुरुर्लघुर्यत्र स तालो हंसकः स्मृतः ॥” इति सङ्गीतदामोदरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसक पुं।

मणियुक्तनूपुरः

समानार्थक:हंसक,पादकटक

2।6।110।1।1

हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका। त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसक¦ पु॰ हंस इव कायति कै--क।

१ पादकटके नूपूरादौ[Page5396-a+ 38] अमरः। संज्ञायां कन्।

२ राजहंसे शब्दच॰। स्वार्थे क।

३ हंसशब्दार्थे
“लघुर्गुरुर्लघुर्यत्र स तालो हंसकः स्मृतः” संगातदा॰ उक्ते

४ तालभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसक¦ m. (-कः)
1. An ornament for the feet, described as being made like a goose's foot.
2. The flamingo. E. कन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकः [haṃsakḥ], 1 A goose, flamingo.

An ornament for the ankles (नूपुर or पादकटक); सरित इव सविभ्रमप्रपातप्रणदित- हंसकभूषणा विरेजुः Śi.7.23 (where the word is used in the first sense also); Dk.2.5; पादलग्नेनेव कलहंसयुगेन हंसक- युगलेन परिष्कृताभ्यां पादकमलाभ्यां ...... Cholachampū p.6.

A particular beating of time in music; L. D. B. See हंस above for other senses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसक m. a goose , gander , swan , flamingo (also " a little or poor goose etc. ") Ka1v. BhP.

हंसक m. (in music) a kind of measure Sam2gi1t.

हंसक m. N. of a son of ब्रह्म-दत्तHariv.

हंसक mn. an ornament for the feet or ankles (said to be formed like a goose's foot) S3is3. vii , 23

"https://sa.wiktionary.org/w/index.php?title=हंसक&oldid=505981" इत्यस्माद् प्रतिप्राप्तम्