दक्षिणापथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणापथ¦ पु॰ दक्षिणा (आजन्तः) पन्थाः अच् समा॰। देशभेदे तद्देशवर्ण्णनं भा॰ व॰

६१ अ॰ यथा(
“एते गच्छन्ति बहवः पन्थानो दक्षिणापथम्। अव-न्तीमृक्षवन्तञ्च समतिक्रम्य पर्वतम्। एष विन्ध्यो महा-शैलः पयोष्णी च समुद्रगा। आश्रमाश्च महर्षीणांबहुमूलफलान्विताः। एष पन्था विदर्भाणाममी ग-च्छन्ति कोशलाम्। अतः परञ्च देशोऽयं दक्षिणे दक्षि-णापथः”।
“दक्षिणापथजन्मानः सर्वे नरवरा-न्ध्रकाः। गुहाः पुलिन्दाः शवराश्चुचुका मद्रकैः सह” भा॰ शा॰

२०

७ अ॰।
“युयुधे पाण्ड्यराजेन दिवसंनकुलानुजः। तं जित्वा स महाबाहुः प्रययौ दक्षिणा-पथम्” भा॰ स॰

३० अ॰।
“तथापरे जनपदा दक्षिणा-पथवासिनः। पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैवच। सेतुका मुख्यकाश्चैव कुपथाचारवासिकाः। नवराष्ट्रामाहिषकाः कलिङ्गाश्चैव सर्वशः। कालेराश्च सहैषी-कैराटव्याः शवरास्तथा। पुलिन्दा विन्ध्यमूषिका वैदर्भा-दण्डकैः सह। कुलीयाश्च सिरालाश्च रूपसास्तापसैःसह। तथा तैत्तिरकाश्चैव सर्वे कारस्करास्तथा। नासि-काद्याश्च ये चान्ये ये चैवान्तरनर्मदाः। भानुकच्छाःसमाहेयाः सह सारस्वतैस्तथा। कच्छीयाश्च सुराष्ट्राश्चआनर्त्ताश्चार्बुदैः सह” मत्स्यपु॰।

२ दक्षिणास्थितमार्ग-मात्रे पु॰।
“कृष्णाजिनानि धुन्वन्तः स्वयमेव दक्षिणापथंयान्ति” आश्व॰ श्रौ॰

५ ।

१३ ।

१२ । दक्षिणापथोऽस्त्यस्यस्वामित्वेन आवासत्वेन सम्बद्धत्वेन वा ठन्। दक्षिणा-पथिक तद्देशनृपे तत्र वासिनि तत्सम्बद्धे च।
“एतेचान्ये च बहवो दक्षिणपथिकान् पथः” हरिवं॰

११

० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणापथ¦ n. (-थं)
1. The south.
2. Southern road or course.
3. Deccan. E. दक्षिण, and पथ for पथिन् path.

दक्षिणापथ¦ m. (-थः) The south, the southern direction or quarter. E. दक्षिणा, and पथ for पथिन् path.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणापथ पु.
(दक्षिणायाः पन्थाः) वह मार्ग जिससे गायें गुजरेंगी अर्थात् सदस् के पश्चिम; आगनीध्र-मण्डप के दक्षिण, ‘दक्षिणापथेन यात्वाऽपरेण चात्वालं स्थापयति’, का.श्रौ.सू. 15.6.16; यज्ञीय उपहार का मार्ग, मा.श्रौ.सू. 2.4.5.15; 7.2.1.48. द 249

"https://sa.wiktionary.org/w/index.php?title=दक्षिणापथ&oldid=478617" इत्यस्माद् प्रतिप्राप्तम्