घनश्यामः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घनश्यामः, त्रि, (घनो मेघस्तद्वत् श्यामः श्याम- वर्णः ।) निविडकृष्णवर्णः । मेघतुल्यश्यामवर्णः । योगरूढिरयं शब्दः श्रीरामकृष्णयोर्बोधकः । इति केचित् तत्र पुं । यथा, महानाटके । “अये राम ! घनश्याम ! चुम्बामि मुखपङ्कजम् । यदि जीवामि शोकेन पुनर्द्रक्ष्यामि ते मुखम् ॥” “समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् । हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् ॥” इति श्रीभागवतम् ॥