ऐन्द्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रम्, क्ली, (इन्द्रो देवता यस्य । इन्द्र + अण् ।) ज्येष्ठा- नक्षत्रम् । इति जटाधरः ॥ मूलविशेषः । वन आदा इति भाषा । तत्पर्य्यायः । वनार्द्रका २ वनजा ३ अरण्यजार्द्रका ४ । अस्य गुणाः । कटु- त्वम् । अम्लत्वम् । रुचिबलाग्निकारित्वञ्च । इति राजनिर्घण्टः ॥ (इन्द्रस्य इदम् ।) इन्द्रसम्बन्धिनि त्रि । (यथा मनुः ५ । ९३ । “न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्रिणाम् । ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा” ॥ “ऐन्द्रंस्थानं राज्याभिषेकाख्यं आधिपत्यकारणम्” इति तट्टीकायां कुल्लूकभट्टः ॥ तथा रघुः २ । ५० । “महीतलस्पर्शनमात्रभिन्न- मृद्धं हि राज्यं पदमैन्द्रमाहुः” ॥ “ऐन्द्रमम्बु सुपात्रस्थमविपन्नं सदा पिबेत्” ॥ इति वाभटे सूत्रे । ५ अ ॥) (इन्द्रस्यापत्यं पुमान् ।) बालिवानरे (अर्ज्जुने जयन्ते च पुं ॥ जलविशेषः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्र¦ त्रि॰ इन्द्रोदेवताऽस्य अण्। इन्द्रदेवताके

१ हविरादौ
“ऐन्द्रं दधि ऐन्द्रं पयः” श्रुतिः।

२ ऋग्विशेषे स्त्री।
“ऐन्द्र्या गार्हपत्यमुपतिष्ठते” श्रुतिः। सा च ऋक्
“कदाचन स्तरीरसीत्यादि”।

३ तद्देवताके ज्येष्ठा-नक्षत्रे न॰
“ऐन्द्रे गुरुः शशी चैव प्राजापत्येरविस्तथा” प्रा॰ त॰ पुरा॰। तस्येदम् अण्।

४ इन्द्र-सम्बन्धिनि त्रि॰
“ऋद्धं हि राज्यं पदमैन्द्रमाहुः”
“ऐन्द्रं पदं भूमिगतोऽपि भुङ्क्ते” रघुः। ऐन्द्रं स्थान-मुपासीना ब्रह्मभूता हि ते सदा”
“ऐन्द्रस्थानमभिप्रेप्-सुर्य्यशश्चाक्षयमव्यवम्” मनुः।

५ तच्छक्तिरूपदेवीमूर्त्ति-भेदे स्त्री ङीप्।
“ऐन्द्रीतमसुरेश्वरम्” देवीमा॰ तन्त्रोक्तेभूतशुद्ध्यङ्के

६ धारणाभेदे
“ऐन्द्र्या धारणया देहंस्थिरीकृत्येति भूतशुद्धौ” रघु॰। तत्र भवः अण्।

७ अर्ज्जुने

८ वालिवासरे च पु॰ तयोस्तत उत्पत्तिमत्त्वात्। [Page1547-b+ 38] अपत्ये तु इञ्। ऐन्द्रिरित्येव

९ वनार्द्रके न॰ राजनि॰।
“ज्यैष्ठे मूले च नक्षत्रे चरेद्यदि वृहस्पतिः। ऐन्द्रः सं-वत्सरः स स्यात् सर्बमूताशिवप्रदः” विष्णुध॰ उक्तेद्वादशवर्षमध्ये

१० संवत्सरभेदे पु॰। तत्फलञ्च
“ज्यैष्ठेजातिकुलश्रेणी श्रेष्ठा नृपाः सर्वधर्म्मज्ञाः। पीड्यन्तेसर्वधान्यानि हित्वा कङ्कुशमीजानि” मल॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्र¦ mfn. (-न्द्रः-न्द्रा-न्द्रं) Sacred, or relating to the god INDRA. m. (-न्द्रः)
1. A name of the monkey king BALI.
2. A name of ARJUNA. f. (-न्द्री)
1. The wife of INDRA.
2. The goddess DURGA.
3. Misfortune, misery, (personified.)
4. The name of a plant, a kind of cucumber, (Cucumis madraspatanus.)
5. The constellation Jyesht'ha.
6. The east quarter, of which INDRA is regent. E. इन्द्र, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्र [aindra], a. (-न्द्री f.) [इन्द्र-अण्] Belonging or sacred to Indra; ऋद्धं हि राज्यं पदमैन्द्रमाहुः R.2.5;6.27.

न्द्रः N. of Arjuna and of Vāli (who are regarded as sons of इन्द्र).

N. of a Saṁvatsara.

The part of a sacrifice offered to Indra.

न्द्री N. of a Ṛik addressed to Indra; इत्यादिका काचिदैन्द्री समाम्नाता J. N. V.

The east, eastern direction (prescribed over by Indra); अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः Chandr.5.58; Ki.9. 18.

The eighteenth lunar mansion.

The eighth day in the second half of the months of मार्गशीर्ष and पौष.

Indra's energy (personified as his wife Śachī).

Misfortune, misery.

A kind of cucumber.

An epithet of Durgā.

Small cardamom; यष्टयाह्वमैन्द्रीनलि- नानि दूर्वा Charak.

न्द्रम् The eighteenth lunar mansion (ज्येष्ठा).

Wild ginger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्र mf( ई)n. (fr. इन्द्र) , belonging to or sacred to इन्द्र, coming or proceeding from इन्द्र, similar to इन्द्रAV. TS. VS. S3Br. Mn. etc.

ऐन्द्र m. ( scil. भाग)that part of a sacrifice which is offered to इन्द्रR.

ऐन्द्र m. ( scil. दिश्) इन्द्र's quarter , the east VarBr2S.

ऐन्द्र m. ( scil. तिथि)the eighth day in the second half of the month मार्गशीर्ष

ऐन्द्र m. ( scil. शक्ति) इन्द्र's energy (personified as his wife and sometimes identified with दुर्गा) Ma1rkP. Devi1bhP. etc.

ऐन्द्र m. N. of the lunar mansion ज्येष्ठाL.

ऐन्द्र m. a species of cucumber Bhpr. Car.

ऐन्द्र m. Cardamom L.

ऐन्द्र m. misfortune L.

ऐन्द्र n. the lunar mansion ज्येष्ठाVarBr2S.

ऐन्द्र n. N. of several सामन्s

ऐन्द्र n. of a country in भारतवर्षVP.

ऐन्द्र n. wild ginger L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a division of the day; फलकम्:F1: वा. ६६. ४१.फलकम्:/F the direction. फलकम्:F2: वा. १११. ४०.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aindra : adj.: See Jyeṣṭhā.


_______________________________
*3rd word in left half of page p234_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aindra : adj.: See Jyeṣṭhā.


_______________________________
*3rd word in left half of page p234_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्र&oldid=494096" इत्यस्माद् प्रतिप्राप्तम्