घटोत्कचः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घटोत्कचः, पुं, (घट इव उद्गतःकचोऽस्य ।) राक्षसविशेषः । स तु हिडिम्बाराक्षसीगर्भे भीमसेनाज्जातः ॥ इति महाभारतम् ॥ (अस्य नामनिरुक्त्या सह जन्मादिविवरणं यथा, महा- भारते । १ । १५६ । २१--६३ । “तथेति तत् प्रतिश्रुत्य हिडिम्बा राक्षसी तदा । भीमसेनमुपादाय सोर्द्ध्वमाचक्रमे ततः ॥ शैलशृङ्गेषु रम्येषु देवतायतनेषु च । मृगपक्षिविधुष्टेषु रमणीयेषु सर्व्वदा ॥ कृत्वा च रूपं परमं सर्व्वाभरणभूषिता । सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥ तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु । सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥ नदीद्वीपप्रदेशेषु वैदूर्य्यसिकतासु च । सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥ काननेषु विचित्रेषु पुष्पितद्रुमवल्लिषु । हिमवद्गिरिकुञ्जेषु गुहासु विविधासु च ॥ प्रफुल्लशतपत्रेषु सरःस्वमलवारिषु । सागरस्य प्रदेशेषु मणिहेमचितेषु च ॥ पत्तनेषु च रम्येषु तथैवोपवनेषु च । देवारण्येषु पुण्येषु तथा पर्व्वतसानुषु ॥ गुह्यकानां निवासेषु तापसायतनेषु च । सर्व्वर्त्तुफलपुष्पेषु मानसेषु सरःसु च ॥ विभ्रती परमं रूपं रमयामास पाण्डवम् । रमयन्ती तथा भीमं तत्र तत्र मनोजवा ॥ प्रजज्ञे राक्षसीपुत्त्रं भीमसेनात् महाबलम् । विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् ॥ भीमनादं सुताम्रौष्ठं तीक्ष्णदंष्ट्रं महारवम् । महेष्वासं महावीर्य्यं महासत्त्वं महाभुजम् ॥ महाजवं महाकायं महामायमरिन्दमम् । दीर्घघोणं महोरस्कं विकटोद्बद्धपिण्डिकम् ॥ अमानुषं मानुषजं भीमवेगं महाबलम् । यः पिशाचानतीवान्यान् बभूवातीव राक्षसान् ॥ बालोऽपि यौवनं प्राप्तो मानुषेषु विशाम्पते ! । सर्व्वास्त्रेषु परं वीरः प्रकर्षमगमद् बली ॥ सद्यो हि गर्भान् राक्षस्यो लभन्ते प्रसवन्ति च । कामरूपधराश्चैव भवन्ति बहुरूपिकाः ॥ प्रणम्य विकचः पादावगृह्णात् स पितुस्तदा । मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥ घटो हास्योत्कच इति माता तं प्रत्यभाषत । अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह ॥” असौ हि कुरुक्षेत्रयुद्धे कर्णनिक्षिप्तैकपुरुष- घातिन्या वासवदत्तया शक्त्या आहतो मृतश्च । यथा, महाभारते । ७ । १७७ । ४८--६३ । स तद्रूपं भैरवं भीमकर्म्मा भीमं कृत्वा भैमसेनिः पपात । हतोऽप्येवं तव सैन्यैकदेश- मपोथयत् स्वेन देहेन राजन् ! ॥ ततो मिश्राः प्राणदन् सिंहनादै- र्भेर्य्यश्च शङ्खा मुरजाश्चानकाश्च । दग्धां मायां निहतं राक्षसञ्च दृष्ट्वा हृष्टाः प्राणदन् कौरवेयाः ॥ ततः कर्णः कुरुभिः पूज्यमानो यथा शक्रो वृत्रवधे मरुद्भिः । अन्वारूढस्तव पुत्त्रं रथस्थं हृष्टश्चापि प्राविशत् स्वं स्वसैन्यम् ॥”)
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घटोत्कचः [ghaṭōtkacḥ], N. of a son of Bhīma by a female demon named हिडिम्बा; Bhāg.9.22.3-31. He was a very powerful person and fought valiantly in the great war between the Pāṇḍavas and Kauravas on the side of the former, but was slain by Karṇa with the Śakti or missile he had received from Indra; cf. Mu.2.15. The derivation of the name is given in the आदिपर्व of महाभारत as follows: घटो हास्योत्कच इति माता तं प्रत्यभाषत । अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह ॥ Mb.1.155.38.