अकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरण¦ न॰ कृ--भावे ल्युट् अर्थाभावे न॰ त॰। करणा-भावे निवृत्तौ
“अकरणे प्रत्यवायानुबन्धित्वं नित्यत्वमिति” मीमांसकादयः।
“अकरणात् मन्दकरणं श्रेय” इति स्मार्त्ताःअकरणञ्च न्यायादिमते करणाभावः, मीमांसकवेदान्तिमतेनिवृत्तिः। अत एव अष्टस्यां मांसं नाश्नीयादित्यादौसर्वत्र निषेधसमभिव्याहृतक्रियाविषयकनिवृत्तावेव विध्यर्था-न्वयः इत्युक्तं मीमांसकैः। शङ्कराचार्य्येण च
“नासतो विद्यते भावोनाभावो विद्यते सत” इति गीताश्लोकभाष्ये महता प्रबन्धेन सत्पदार्थादभावोत्पत्तिनिरस्यता निषेधस्य निवृत्तिरूपत्वमुररीकृतम्। निवृत्तिश्चप्रवृत्तिविरोधी भावरूपोधर्मविशेषः। नास्ति करणं देहे-न्द्रियादिकमस्य। सर्व्वकरणशून्ये परात्मनि पु॰।
“अपाणिपादोजवनोग्रहीतेत्यादि” श्रुतौ तस्य सर्वकरण-शून्यत्वमुक्तम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरणम् [akaraṇam], [कृ-भावे ल्युट् न. त.] Not doing, absence of action; अकरणान्मन्दकरणं श्रेयः. -ण a. [न. ब.]

Not artificial, natural.

Devoid of all organs, (epithet of the Supreme Spirit).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरण/ अ-करण n. absence of action.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरण वि.
(अविद्यमाने करणे प्रयोगः यस्य) (वेदमन्त्र) जो किसी विशेष कृत्य के अनुष्ठान के समय प्रयोग में नहीं लाया जाता, आप.श्रौ.सू. 4.1.3 (धू. ये दूरस्थाः क्रियायास्ते अकरणाः)।

"https://sa.wiktionary.org/w/index.php?title=अकरण&oldid=483662" इत्यस्माद् प्रतिप्राप्तम्