दंशितः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशितः, त्रि, (दंशो वर्म्म सञ्जातोऽस्य परिहित- त्वादिति । दंश + तारकादित्वात् इतच् ।) वर्म्मितः । (यथा, महाभारते । २ । २९ । २ । “महता बलचक्रेण परराष्ट्रावमर्द्दिना । हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान् ॥” दंश्यते इति । दन्श + णिच् + भावे क्तः ।) दष्टः । इति हेमचन्द्रः ॥ (भासमानः । यथा, महाभारते । ४ । ४० । २ । “वारणा यत्र सौवर्णाः पृष्ठे भासन्ति दंशिताः । सुपार्श्वं सुग्रहञ्चैव कस्यैतद्धनुरुत्तमम् ॥” “दंशिता भासमानाः ।” इति नीलकण्ठः ॥)

"https://sa.wiktionary.org/w/index.php?title=दंशितः&oldid=139305" इत्यस्माद् प्रतिप्राप्तम्