भूकम्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूकम्पः, पुं, (भुवः पृथिव्याः कम्पः ।) भूमि- कम्पनम् । स च अद्भुतविशेषः । यथा, अद्भुतसागरे । “मेषे वृश्चिकभे गजः प्रचलति व्यासादिभिः कथ्यते चापे मीनकुलीरभे च वृषभे सत्यं चलेत् कच्छपः । यूके कुम्भधरे मृगेन्द्रमिथुने कन्यामृगे पन्नग- स्तेषामेकतमो यदि प्रचलति क्षौणी तदा कम्पते ॥ “कच्छपे मरणं ज्ञेयं मरणञ्चापि पन्नगे । सर्व्वत्र सुखदञ्चैव पृथिव्यां चलिते गजे ॥ प्रथितनरेश्वरमरणं व्यसनान्याग्नेयमारुतयोः । क्षुद्भयमतिवृष्टिभिरुपपीड्यन्ते जनाश्चापि ॥ त्रिचतुर्थपञ्चमदिने मासे पक्षे त्रिपक्षके । भवति यदा भूकम्पः प्रधाननृपनाशनं कुरुते ॥” स च भूमिजोत्पातविशेषः । यथा, -- “चरस्थिरभवं भौमं भूकम्पमपि भूमिजम् । जलाशयानां वैकृत्यं भौमन्तदपि कीर्त्तितम् ॥ भौमं जाप्यफलं ज्ञेयं चिरेण परिपच्यते ।” इति ज्योतिस्तत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूकम्प¦ पु॰

६ त॰। लोकानामनिष्टादिसूचके अद्भुतरूपेपृथिव्याः स्वयंचलने। तस्य शुभाशुमसूचकता अद्भुत-सागरे उक्ता यथा
“मेषे वृश्चिकभे गजःप्रचलति व्यासादिभिः कथ्यते चापे मीनकुलीरभ चवृषभे सत्यं चलेत् कच्छपः। यूके कुम्भधरे मृगेन्द्रमिथुनेकन्यामृगे पन्नगस्तेषामेकतमो यदि प्रचलति क्षौणीतदा कम्पते। कच्छपे मरणं ज्ञेयं मरणञ्चापि पन्नगे। सर्वत्र सुखदञ्चैव पृथिव्यां चलिते गजे। प्रथितनरेश्वरमरणं व्यसनान्याग्नेयमारुतयोः। क्षुद्भयमतिवृष्टि-भिरुपपीड्यन्ते जनाश्चापि। त्रिचतुर्थपञ्चदिने मासेपक्षे त्रिपक्षके। भवति यदा भूकम्पः प्रधाननृपनाशनंकुरुते”। स च भूमिजोत्पातविशेषः यथा
“चर-स्थिरभवं भौमं भूकम्पमपि भूमिजम्। जलाशयानांवैकृत्यं भौमन्तदपि कीर्तयेत्। भौमं चाप्यं फलं ज्ञेयचिरेण परिपच्यते” ज्यो॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूकम्प¦ m. (-म्पः) An earthquake. E. भू the earth, and कम्प a trembling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूकम्प/ भू--कम्प m. an earthquake AdbhBr. Ya1jn5. Var.

भूकम्प/ भू--कम्प m. N. of a man Va1s. , Introd.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHŪKAMPA : (Earthquake). The cause of earth- quake according to ancient belief is given below:-- The earth is being supported and held in its position by an elephant called Virūpākṣa. When he feels the burden too heavy he shakes his head and earth tremors follow. (Vālmīki Rāmāyaṇa, Bālakāṇḍa, 40th Sarga).


_______________________________
*1st word in left half of page 142 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भूकम्प&oldid=503252" इत्यस्माद् प्रतिप्राप्तम्