भस्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्म, [न्] क्ली, (बभस्तीति । भस् भर्त्सनदीप्त्योः + “सर्व्वधातुभ्यो मनिन् ।” उणा० ४ । १४४ । इति मनिन् ॥ दग्धकाष्ठादिविकारः ।) शिवाङ्ग- भूषणम् । छाइ इति भाषा । यथा, -- “अस्याङ्गभूषणं भस्म विभूतिर्भूतिरस्य तु ।” इति शब्दरत्नावली ॥ तद्भस्म कामदेवशरीरजम् । यथा, -- “प्रसीद सर्व्वभूतेश ! भक्त्या त्वत्प्रणता वयम् । इति स्म वदतां तेषाममराणां तदानलः । ललाटचक्षुः सम्भूतो भस्माकार्षीन्मनोभवम् ॥ दग्ध्वा कामं तदा वह्निर्ज्वालामालातिदीपितः । संस्तम्भितोऽथ विधिना हरं गन्तुं शशाक न ॥ महादेवोऽथ तद्भस्म मनोभवशरीरजम् । आदाय सर्व्वगात्रेषु भूतिलेपं तदाकरोत् ॥ लेपशेषाणि भस्मानि समादाय तदा हरः । सगणोऽन्तर्दधे कालीं विहाय विधिसम्मते ॥” इति कालिकापुराणे ४१ अध्यायः ॥ * ॥ भस्मम्रक्षणं सप्तविधास्नानान्तर्गताग्नेयस्नानम् । यथा, -- “आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ।” इति यामलः ॥ शिवपूजायां ललाटे तस्य धारणमावश्यकम् । यथा, -- “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥” इत्याह्रिकतत्त्वम् ॥ तेन कांस्यशुद्धिर्यथा, -- “अम्भसा हेमरूप्यायः कांस्यं शुध्यति भस्मना । अम्लैस्ताम्रञ्च रैत्यञ्च पुनःपाकेन मृण्मयम् ॥” इति शुद्धितत्त्वम् ॥ * ॥ अश्मरीविकारः । यथा, -- “शर्क्करासिकतामेहो भस्माख्योऽश्मरीवैकृतम् । अश्मर्य्याः शर्क्करा ज्ञेया तुल्यव्यञ्जनवेदना ॥” इति सुश्रुते निदानस्थाने अश्मरीनिदानम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्म in comp. for भस्मन्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--sacred ash supposed to be the वीर्य of शिव who is Bhasmasamcchannadeha; फलकम्:F1: Br. II. २७. १० and ९२, १०५-28; III. २८. १२.फलकम्:/F स्नानम् of, makes one pure: amulet for places of confinement. फलकम्:F2: Ib. II. २७. १०५-115.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHASMA : (Sacred ash). To know a story about the greatness of Bhasma see under the word Durjaya.


_______________________________
*4th word in left half of page 127 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भस्म&oldid=503208" इत्यस्माद् प्रतिप्राप्तम्