पेयम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेयम्, क्ली, (पीयते यदिति । पा पाने + कर्म्मणि यत् । “ईद्यति ।” ६ । ४ । ६५ । इति आत ईत् ततो गुणः ।) जलम् । इति मेदिनी । ये, ३९ ॥ दुग्धम् । इति शब्दचन्द्रिका ॥ अष्टविधा- न्नान्तर्गतान्नविशेषः । यथा, -- “भोज्यं पेयं तथा चूष्यं लेह्यं खाद्यञ्च चर्वणम् । निष्पेयञ्चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम् ॥” इति राजनिर्धण्टः ॥ पातव्ये, त्रि । इति मेदिनी । ये, ३९ ॥ (यथा, महाभारते । १४ । ४४ । १० । “सर्व्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते । द्रवाणाञ्चैव सर्व्वेषां पेयानामाप उत्तमाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पेयम्&oldid=150173" इत्यस्माद् प्रतिप्राप्तम्