तामस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तामसम्, त्रि, (तम एव । तमस् + स्वार्थे अण् ।) प्रकृतिगुणविशेषः । तद्धर्म्मा यथा, -- “त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ यातयामं गतरसं पूतिपर्य्युषितञ्च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ मूढग्राहेणात्मनो यत् पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञानं तत्तामसमुदाहृतम् ॥” इति श्रीभगवद्गीतायां १७ अध्यायः ॥ * ॥ किञ्च तत्रैव १८ अध्याये । “नियतस्य तु सन्न्यासः कर्म्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः ॥ यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहेतुकम् । अतत्त्वार्थवदल्पञ्च तत्तामसमुदाहृतम् ॥ अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म्म यत्तत्तामसमुच्यते ॥ अयुक्तः प्राकृतस्तब्धः शटो नैकृतिकोऽलसः । विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते ॥ अधर्म्मं धर्म्ममिति या मन्यते तमसावृता । सर्व्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ ! तामसी । यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्म्मेधा धृतिः सा तामसी मता ॥ यदग्रे चानुबन्धे च सुखमोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥”
तामसः, पुं, (तमस्तमोगुणः प्रघानत्वेनास्त्यस्येति । अण् ।) सर्पः । खलः । इति मेदिनी । से, २५ ॥ उलूकः । इति राजनिर्घण्टः ॥ चतुर्थमनुः । अस्मिन्मन्वन्तरे हरिनामा विष्णोरवतारः । त्रिशिखनामा इन्द्रः । वैधृतयो देवाः । ज्योति- र्घामादयः सप्तर्षयः । वृषख्यातिनरादयो मनु- सुताः । इति श्रीभागवतम् ॥ * ॥ तमोगुण- युक्ते, त्रि ॥ (यथा, मनुः । १२ । ३३ । “लोभः स्वप्नोऽधृतिः क्रौर्य्यं नास्तिक्यं भिन्न- वृत्तिता । याचिष्णुता प्रमादश्च तामसं गुणलक्षणम् ॥”) तामसमुनयो यथा । कणादः १ गौतमः २ शक्त्रिः ३ उपमन्युः ४ जैमिनिः ५ दुर्व्वासाः ६ मृकण्डुः ७ बृहस्पतिः ८ भार्गवः ९ जमदग्निः १० ॥ तामस- शास्त्राणि यथा । असुरमोहनार्थशिवकृत- शैवपाशुपतादि १ कणादकृतनग्ननीलपटादि २ ब्राह्मणरूपिभगवद्कृतबौद्धशास्त्रम् ३ जैमिनि- कृतनिरीश्वरसांख्यम् ४ ॥ तामसपुराणानि यथा । मात्स्यम् १ कौर्म्मम् २ लैङ्गम् ३ शैवम् ४ स्कान्दम् ५ आग्नेयम् ६ ॥ तामसस्मृतयो यथा । गौतमम् १ बार्हस्पत्यम् २ सामुद्रम् ३ यमम् ४ शाङ्ख्यम् ५ औशनसम् ६ ॥ * ॥ राजसतामस- कर्म्माणि यथा, -- “यत् शैवं दैवतं पैत्रमौपदैवं तथाध्वरम् । शाक्तं शैवं गाणपत्यं यागहोमादिकं तथा ॥ पौरोहित्यं याजनञ्च देवल्कं ग्रामयाजकम् । विष्णुसेवापराधञ्च तथा नामापराधकम् ॥ असत्प्रतिग्रहं देवि ! साङ्कल्पमाभिचारिकम् । पशुजीवादिहननं पातकञ्चोपपातकम् ॥ अतिपापं महापापमनुपातकमेव च । लोभं मोहमहङ्कारं कामं क्रोधं मदन्तथा ॥ एतद्यदपरं कर्म्म गर्हितञ्च वरानने ! । राजसं तामसं प्रोक्तं मया च मुनिभिः सदा ॥” इति पाद्मोत्तरखण्डम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तामस¦ त्रि॰ तमोऽस्त्यस्य तमः, प्रधानत्वेनास्त्यस्य वा अण्।
१ तमोगुणयुक्ते
२ तमःप्रधानगुणके स्त्रियां ङीप्।
३ सर्पेपुंस्त्री॰ जातित्वात् ङीष्।
४ खले त्रि॰ मेदि॰
५ उलूकेपुंस्त्री राजनि॰ स्त्रियां ङीष्।
६ चतुर्थे मनौ पु॰
“सत्यादेवगणाश्चैव तामसस्यान्तरे मनोः। पुत्रांश्चैव प्रवक्ष्यामितामसस्य मनोर्नृप!। द्युतिस्तपस्यः सुतपास्तपोमूलस्त-पोऽशनः। तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः। तामसस्य मनोरेते दश पुत्रा महाबलाः” हरिवं॰
७ अ॰।
“चतुर्थे उत्तमभ्राता मनुर्नाम्ना च तामसः। पृथुः भा-तिर्नवः केतुरित्याद्या दश तत्सुताः। सत्यका हरयोघीरा देवास्त्रिशिखईश्वरः। ज्योतिर्धामादयः सप्तऋषयस्तामसेऽन्तरे। देवा वैधृतयो नाम विधृतेस्तनयानृप!। नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा। भाग॰
८ ।
१ ।
२४ । भागवते अन्यथोक्तं कल्पभेदादविरुद्धम्। तमोऽधिकृत्य प्रवृत्तम् अण् तमसा कृता वा अण्।
७ तमोगुणाधिकारेण प्रवृत्ते शास्त्रे
८ तमसाकृते चस्त्रियां ङीप्। तामसशास्त्राणि च पद्मपुराणेपार्वतीं प्रतीश्वरवाक्येनोक्तानि यथा
“शृणु देवि! प्रवक्ष्यामि तामसानि यथाक्रमम्। येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि। प्रथमं हिमयैवोक्तं शैवं पाशुपताभिधम्। मच्छक्त्यावेशितैर्विप्रैःसंप्रोक्तानि ततःपरम्। कणादेन तु सम्प्रोक्तं शास्त्रंवैशेषिकं महत्। गौतमेन तथा न्यायं साङ्ख्यन्तु कपि-लेन वै। द्विजन्मना जैमिनिना पूर्वं वेदमपार्थतः। निरी-श्वरेण वादेन कृतं शास्त्र महत्तरम्। धिषणेन च संप्रोक्तंचार्वाकमतिगर्हितम्। दैत्यानां नाशनार्थाय विष्णुनाबुद्धरूपिणा। बौद्धशास्त्रमसत् प्रोक्तं नग्ननीलपटादि-कम्। मायावादमसच्छास्त्रं प्रच्छन्नं वौद्धमेव च। मयैवकथितं देवि! कलौ ब्राह्मणरूपिणा। अपार्थं श्रुति-वाक्यानां दर्शयल्लोकगर्हितम्। कर्मस्वरूपत्याज्यत्वमत्रच प्रतिपाद्यते। सर्वकर्मपरिभ्रंशान्नैष्क्रर्म्यं तत्र[Page3271-a+ 38] चोच्यते। परात्मजीवयोरैक्यं मयात्र प्रतिपाद्यते। ब्रह्म-णोऽस्य परं रूपं निर्गुणं दर्शितं मया। सर्वस्य जगतो-ऽप्यस्य नाशनार्थं कलौ युगे। वेदार्थवन्महाशास्त्रं माया-वादमवैदिकम्। मयैव कथितं देवि! जगतां नाशकारणात्”( कूर्मपुराणे केषाञ्चित्तन्त्राणां तामसत्वमुक्तं यथा
“यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानि च। श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां तु तामसी। करालभैरवञ्चापि यामलं वाममाश्रितम्। एवंविधानिचान्यानि मोहनार्थानि तानि तु। मया सृष्टानिचान्यानि मोहायैषां भवार्णवे”। तामस पुरणानि यथा।
“मात्स्यं कौर्म्मं तथा लैङ्गं शैवं स्कान्दं तथैव च। आग्नेयञ्च षडेतानि तामसानि निवोघत”। सात्त्विकपुराणानि यथा।
“वैष्णवं नारदीयञ्च तथा भागवतंशुभम्। गारुडञ्च तथा पाद्मं वाराह शुभदर्शने!। सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै”। राजसपुराणानि यथा
“व्रह्माण्डं व्रह्मवैवर्त्तं मार्कण्डेयंतथैव च। भविष्यं वामनं ब्राह्मं राजसानि शुभानने!” पद्म॰ उ॰ ख॰
४३ अ॰।
“सङ्कीर्णेषु सरस्वत्याः पितृणांव्यष्टिरुच्यते। अग्नेः शिवस्य माहात्म्यं तामसेषु दिवा-करे। राजसेषु च माहात्म्यमधिकं ब्रह्मणः स्मृतम्। यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा। तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते। सात्त्वि-केष्वधिकं तद्वद्विष्णोर्माहात्म्यमुत्तमम्। तथैव योगसं-सिद्धा गमिष्यन्ति परां गतिम्” मत्स्य पु॰। ( तामसमुनयः पद्मपु॰ उ॰ उक्ता यथा।
“कणादोगौतमः शक्तिरुपमन्युश्च जैमिनिः। दुर्वासाश्च मृकण्डुश्चभार्गवश्च वृहस्पतिः। जमदग्निश्च इत्येते मुनयस्तामसाःस्मृताः”। तामसस्मृतयस्तत्रैवोक्ता यथा
“वार्हस्पत्यागोतमी च सांवर्त्ती यमनिर्म्मिता। शाङ्खी चौशनसीचैव तामस्यः स्मृतयः स्मृताः”। तामसश्रद्धादिकं गीतायां
१७ अ॰ उक्तं यथा। त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकीराजसी चैव तामसी चेति तां शृणु। यजन्ते सा-त्विका देवान् यक्षरक्षांसि राजसाः। प्रेतान् भूतागणां-श्चान्ये यजन्ते तामसा जनाः”। तामसाहारादिक-मपि भा॰
१७ अ॰ उक्तं यथा
“यातयामं गतरसंपूति पर्य्युषितञ्च यत्। उच्छिष्टमपि चामेध्यं भोजनंतामसप्रियम्”
“विधिहीनमसृष्टान्नं मन्त्रहीनमद-[Page3271-b+ 38] क्षिणम्। श्रद्धाविरहितं यज्ञं तामसं परिचक्षते”।
“मूढग्राहेणात्मनो यत् पीडया क्रियते तपः। परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्”।
“अदेशकाले यद्दानमपात्रेभ्यश्च दीयते। असत्कृतमवज्ञानं तत्तामसमुदा-हृतम्”। किञ्च
“नियतस्य तु संन्यासः कर्म्मणो नोपप-द्यते। मीहात्तस्य परित्यागस्तामसः परिकीर्त्तितः”।
“यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहेतुकम्। अतत्त्वार्थ-वत्ल्पञ्च तत्तामसमुदाहृतम्। अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म यत्तत्तामस-मुच्यते”।
“अयुक्तः प्राकृतस्तब्धः शठो नैकृतिकोऽलसः। विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते। अधर्मंधर्ममिति या मन्यते तमसावृता। सर्वार्थान् विपरी-तांश्च बुद्धिः सा पार्थ! तामसी”।
“यथा स्वप्नं भयं शोकंविषादं मदमेव च। न विमुञ्चति दुर्म्भेधा धृतिः सातामसी मता”।
“यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रालस्यप्रमादीत्थं तत्तामसमुदाहृतम्”
१८ अ॰। राजसता-मसकर्म्माणि यथा
“यत् शैवं दैवतं पैत्रं वौपदेवं तथा-ध्वरम्। शाक्तं शैवं गाणपत्यं यागहोमादिकं तथा। पौरहित्यं याजनञ्च दैवल्यं ग्रामयाजनम्। विष्णुसेवा-पराधश्च तथा नामापराधकः। असत्प्रतिग्रहो देवि!सङ्कल्प आभिचारिकः। पशुजीवादिहननं पातकञ्चोप-पातकम्। अतिपापं महापापमनुपातकमेव च। लोभो मोहो ह्यहङ्कारः कामः क्रोधः मदस्तथा। एतद्यदपरं कर्म गर्हितञ्च वरानने!। राजसं तामसं प्रोक्तंमया च मुनिभिः सदा” पद्म॰ उ॰ ख॰। ( हारीतः
“तामसेन तु द्रव्येण ऋत्विग्भिस्तामसै-स्तथा। तामसं भावमास्थाय तामसो यज्ञ उच्यत। तामसेन तु यज्ञेन दानेन तपसा तथा। निरये जन्मचेदाहुर्वृद्धिं विद्याच्च तामसीम्”।
“तामसी वृद्धिम्लेच्छा-धिपत्य रूपा” इति रत्नाकरः। तमसो राहोरपत्यम्अण्।
९ राहुसुते तामसकीलः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तामस¦ mfn. (-सः-सी-सं)
1. Affected by or appertaining to the third qua- lity, that of darkness or vice: belonging to it as a Purana, a sys- tem of philosophy, a ceremonial rite, &c.
2. Dark, of or belong- ing to darkness. m. (-सः)
1. A snake.
2. An incendiary, a malignant and mischievous man, a villain.
3. An owl.
4. The fourth Menu. f. (-सी) A dark night.
2. A name of the goddess DURGA. n. (-सं) The quality of darkness. E. तमस् the quality of drakness, &c. affix अण् | तमः अस्ति अस्य |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तामस [tāmasa], a. (-सी f.) [तमो$स्त्यस्य अण्]
Dark, consisting of darkness; व्यतिकर इव भीमस्तामसो वैद्युतश्च Māl.9.52; U.5.12.
Affected by or relating to तमस् or the quality of darkness (the third of the three qualities of nature); ये चैव सात्त्विका भावा राजसास्तामसाश्च ये Bg.7.12;17.2; M.1.1; Ms.12.33-34.
Ignorant.
Vicious.
सः A malignant person, an incendiary, a villain.
A snake.
An owl.
N. of a son of Rāhu.
A kind of horse possessing the quality of तमस्; सात्त्विका राजसाश्चेति तामसाश्चेति ते हयाः Yuktikalpataru.
The 4th Manu; चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः Bhāg.8.1.27.-सम् Darkness.
सी Night, a dark night.
Sleep.
An epithet of Durgā. -Comp. -लीना (in Sāṅ. phil.) One of the forms of dissatisfaction.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तामस mf( ई)n. (fr. तमस्)dark L.
तामस mf( ई)n. appertaining to or affected by the quality तमस्(See. ) , ignorant , various Mn. xii Bhag. etc. ( सी तनू, " the form assumed by the deity for the destruction of the world " Page443,1 ; सी शक्ति, " the faculty of तमस्")
तामस mf( ई)n. relating to मनुतामसBhP. viii , 1 , 28
तामस m. a malignant person L.
तामस m. a snake L.
तामस m. an owl L.
तामस m. N. of a demon causing diseases Hariv. 9562
तामस m. of the 4th मनुMn. i , 62 Hariv. BhP. v , viii
तामस m. of an attendant of शिवL. Sch.
तामस m. of a man Pravar. i , 1 (J)
तामस n. " darkness "See. अन्ध-
तामस n. sleep L.
तामस n. दुर्गाL.
तामस n. N. of a river MBh. vi , 339.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a son of Priyavrata, and a Manvantara adhipati. फलकम्:F1: भा. V. 1. २८; Vi. III. 1. २४.फलकम्:/F The fourth Manu and brother of Uttama. He had पृथु and nine other sons. During this epoch the gods went by the name of Satyakas, Haris, etc. त्रिशिख was Indra. ज्योतिर्धामा and others were the seven sages. फलकम्:F2: भा. VIII. 1. २७-28.फलकम्:/F Brother of Raivata. फलकम्:F3: Ib. VIII. 5. 2.फलकम्:/F For different names of Gods, sages and Indra in this epoch; फलकम्:F4: Br. II. ३६. 3, ४२-50; M. 9. १५.फलकम्:/F represents उकार; फलकम्:F5: वा. २६. ३६; ६२. 3.फलकम्:/F twenty-seven गणस् of Gods mentioned in this epoch--सुपार, Haraya, etc. शिबि was Indra; Nara and ख्याति, his sons. फलकम्:F6: Vi. III. 1. 6, १६-19.फलकम्:/F
(II)--the quality of भूतादि swallowed by Mahat of which Buddhi is the गुण. वा. १०२. १९-20.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
TĀMASA : The fourth Manu. (See under Manvantara). Svāyambhuva Manu, son of Brahmā, was the first Manu. He had two sons of Purāṇic fame named Priyavrata and Uttānapāda. Of these Priyavrata married the beautiful and virtuous daughters of Viśvakarmā the Prajāpati. They were Surūpā and Barhiṣmatī. Of his first wife Surūpā, he got ten sons Agnīdhra and others. The youngest child was a daughter named Ūrjjasvatī. Of the sons, Kavi, Savana and Mahāvīra became detach- ed from worldly life and became learned in spiritual knowledge. Priyavrata got of his second wife Barhiṣmatī three sons named Uttama, Tāmasa and Raivata. They were very valiant and they gradually became chiefs of Manvantaras. (8th Skandha, Devī Bhāgavata).
_______________________________
*2nd word in left half of page 785 (+offset) in original book.