नवनीतम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनीतम्, क्ली, (नवं नीयतेऽनेनेति । नी + क्तः ।) गव्यविशेषः । माखन् इति ननी इति च भाषा । तत्पर्य्यायः । नवोद्धृतम् २ । इत्यमरः । २ । ९ । ५२ ॥ सरजम् ३ मन्थजम् ४ हैयङ्गवीनम् ५ । इति रत्नमाला ॥ दधिजम् ६ सारम् ७ हैयङ्ग- वीनकम् ८ । अस्य सामान्यगुणाः । शीतत्वम् । वर्णबलावहत्वम् । सुमधुरत्वम् । वृष्यत्वम् । संग्राहकत्वम् । कफरुचिकारकत्वम् । वातसर्व्वा- ङ्गशूलकाशश्रमनाशित्वम् । सुखकरत्वम् । कान्ति पुष्टिप्रदत्वम् । चक्षुष्यत्वम् । सर्व्वदोषापहर- त्वञ्च ॥ * ॥ नवोद्भवगव्यमाहिषनवनीतगुणाः । बालवृद्धानां प्रशस्तत्वम् । बलकारित्वम् । वात- बर्द्धनत्वञ्च ॥ * ॥ माहिषनवनीतगुणाः । कषा- यत्वम् । मधुरत्वम् । शीतत्वम् । वृष्यत्वम् । बल्यत्वम् । ग्राहित्वम् । पित्तघ्नत्वम् । तुन्दद- त्वञ्च ॥ * ॥ छागनवनीतगुणाः । क्षयकाश- नेत्रामयकफनाशित्वम् । बल्यत्वम् । दीपन- त्वञ्च ॥ * ॥ आविकनवनीतगुणाः । हिमत्वम् । लघुत्वम् । योनिशूले कफे वाते गुदशूले हित- त्वञ्च ॥ * ॥ ऐडकनवनीतगुणाः । क्लिष्टगन्ध- त्वम् । शीतलत्वम् । मेधानाशित्वम् । गुरुत्वम् । पुष्टिस्थौल्यकारित्वम् । मन्दाग्निदीपनत्वञ्च ॥ * ॥ हस्तिनीनवनीतगुणाः । कषायत्वम् । शीतलत्वम् । लघुत्वम् । तिक्तत्वम् । विष्टम्भित्वम् । जन्तुपित्त- कफकृमिनाशित्वञ्च ॥ * ॥ अश्वीनवनीतगुणाः । कषायत्वम् । कफवातनाशित्वम् । चक्षुष्यत्वम् । कटुत्वम् । उष्णत्वम् । ईषद्वातापहारकत्वञ्च ॥ गर्द्दभीनवनीतगुणाः । कषायत्वम् । कफवात- नाशित्वम् । बल्यत्वम् । दीपनत्वम् । पाके लघु- त्वम् । मूत्रदोषनाशित्वञ्च ॥ * ॥ औष्ट्रनवनीत- गुणाः । पाके शीतलत्वम् । व्रणक्रिमिकफास्र- वातनाशित्वफ्व ॥ * ॥ नारीनवनीतगुणाः । रुच्यत्वम् । पाके लघुत्वम् । चक्षुष्यत्वम् । दीप- नत्वम् । सर्व्वरोगविषनाशित्वश्च ॥ * ॥ अथ साधारणनवनीतगुणाः । “शीतं रुच्यनवोद्धृतं सुमधुरं वृष्यञ्च वातापहं कासघ्नं क्रिमिनाशनं कफहरं संग्राहि शूला- पहम् । बल्यं पुष्टिकरं तृषार्त्तिशमनं सन्तापविच्छेदनं चक्षुव्यं श्रमहारि तर्पणकरं दध्युद्भवं पित्तजित् ॥ एकाहाध्युषितं प्रोक्तमुत्तरोत्तरगन्धदम् । अरुच्यं सर्व्वरोगाढ्यं दधिजं तद्धितं स्मृतम् ॥” इति राजनिर्घण्टः ॥ अपि च । गव्यनतनीतगुणाः । “नवनीनं हितं गव्यं वृष्यं वर्णमलाग्निकृत् । संग्राहि वातपित्तासृक् क्षयार्शोऽर्द्दितकासहृत् ॥ तद्धितं बालके वृद्धे विशेषादमृतं शिशोः ॥” * ॥ माहिषनवनीतगुणाः । “नवनीतं महिष्यास्तु वातश्लेष्मकरं गुरु । दाहपित्तश्रमहरं मेदःशुक्रविवर्द्धनम् ॥” अथ पयसो नवनीतस्य गुणाः । “दुग्धोत्थं नवनीतन्तु चक्षुष्यं रक्तपित्तनुत् । वृष्यं बल्यमतिस्निग्धं मधुरं ग्राहि शीतलम् ॥” अथ सद्यःसमुद्धृतनवनीतगुणाः । “नवनीतञ्च सद्यस्कं स्वादु ग्राहि हिमं लघु । मेध्यं किञ्चित् कषायाम्लमीषत्तक्रांशसंक्रमात् ॥” अथ चिरन्तननवनीतगुणाः । “सक्षारकटुकाम्लत्वाच्छर्द्यर्शःकुष्टकारकम् । श्लेष्मलं गुरुमेदस्यं नवनीतं चिरन्तनम् ॥” इति भावप्रकाशः ॥ “नवनीतं नवं वृष्यं ग्राहि वर्णबलाग्निकृत् । चक्षुष्यं बृंहणं स्निग्धं ग्रहण्यर्शोविकारनुत् ॥ क्षीरोत्थितं हिमं ग्राहि रक्तपित्ताक्षिरोगनुत् ॥” इति राजवल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=नवनीतम्&oldid=143630" इत्यस्माद् प्रतिप्राप्तम्