हिमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमः, पुं, (हन + मक् हन्तेर्हि च ।) चन्दनवृक्षः । इति हेमचन्द्रः । चन्द्रः । इति शब्दचन्द्रिका ॥ कर्पूरः । इति राजनिर्घण्टः ॥ हेमन्तर्त्तुः । स तु अग्रहायणपौषमासात्मकः । यथा, -- “हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु स्तनतपनवनाम्भोहर्म्यगोक्षीरपानैः । सुखमनुभव राजंस्तद्द्विषो यान्तु नाशं दिवसकमललज्जाशर्व्वरीरेणुपङ्काः ॥” इति ऋतुसंहारः ॥ हिमालयपर्व्वतः । इति हिमजादिशब्ददर्श- नात् ॥

"https://sa.wiktionary.org/w/index.php?title=हिमः&oldid=506394" इत्यस्माद् प्रतिप्राप्तम्