अभिनिवेश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिनिवेशः, पुं, (अभि + नि + विश् + भावे घञ् ।) मनःसंयोगविशेषः । मनोनिवेशः । आवेशः । शास्त्रादौ प्रवेशः । तत्पर्य्यायः । निबन्धः २ । इति हेमचन्द्रः ॥ योगशास्त्रमते मरणजन्यभयजनका- विद्याविशेषः ॥ (आग्रहः । अवश्यमिदं कर्त्तव्य- मित्यादिरूपोऽध्यवसायः । दृढसङ्कल्पः । “इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशं” । इति रघुवंशे । “अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा” । इति कुमारसम्भवे । आसक्तिः । अनुरागः । अभिलाषः । “बलीयान् खलु मेऽभिनिवेशः” । इति शाकुन्तले ।)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिनिवेश¦ पु॰ अभितोनिवेशः घञ्। अवश्यमिदं कर्त्तव्य-मित्याग्रहसमन्विते मनःसंयोगभेदे योगशास्त्रप्रसिद्धे मरण-मीतिजनके अज्ञानविशेषे, अनित्यैरपि देहादिभिर्वियोगोमा भूदिति मरणनिवारणार्थे आग्रहे च। योगशास्त्रे हिअविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः दर्शिताःक्लिश्यन्ति कर्मतत्फलप्रवर्त्तकाः सन्तः पुरुषं दुःखा-कुर्व्वन्ति क्लेशाः पञ्च। उत्तरेषामविद्याप्रसवत्वमपितत्रोक्तम्!
“अविद्याक्षेत्रत्वमुत्तरेषामप्रसुत्या तनुवि-च्छिन्नोदाराणाम्” पा॰ सू॰ उत्तरेषामस्मितादीनामविद्याक्षेत्रंप्रसवभूमिः तेषाञ्च अप्रसुत्या विवेकख्यात्यभावेनादग्ध-तया शक्तिरूपेणावस्थानात् अतएव ते पुनरुद्भवन्ति ते चक्रियायोगिनां तनवः, विषयसङ्गिनां विच्छिन्ना उदाराश्चभवन्ति। यथा यत्र रागस्तत्र क्रोधो विच्छिन्नः सुरतांराग उदारः। एवं यत्र क्रोष उदारस्तत्र रागोविच्छिन्नएवं रागादयः विच्छिन्नोदाराभूत्वा पुरुषपशुं क्लेशयन्तिएवं च क्लेशा अविद्यामूलाः अविद्यायाः पुरुषविवेकख्यात्या-निवृत्तौ निवर्त्तन्ते। एवं सामान्यतः क्लेशानुक्त्वाऽभिनिवेशउक्तः
“स्वरसवाही विदुषोरूढोऽभिनिवेशः” इति। विदु-षोमूर्खस्य वा जन्तुमात्रस्य यो मरणत्रासः मोऽभिनिवेशःयथा मूर्खस्य अहं सदा भूयासं न मृषीयेति रूढः त्रासस्तयाविदुषोऽपि दृश्यते यतः स्वरसवाही सः, पूर्ब्बजन्मसु अस-कृन्मरणदुःखानुभवजन्यवासनासंघः स्वरसः तेन वहति प्रव-हतीति स्वरसवाही। ते चाविद्यादयः पञ्च क्रमेण तमो-मोहमहामहतामिस्रान्धतामिस्रसंज्ञाः। सांख्यकारिका-याम् पञ्च विपर्य्ययभेदानुपक्रम्य।
“भेदस्तमसोऽष्टविधो-[Page0293-a+ 38] मोहस्य च दशविधोमहामोहः। तामिस्रीऽष्टाद्शधातथा भवत्यन्धतामिस्रः”॥ अन्धतामिस्रः अभिनिवेश-स्त्रासः तथेत्यनेनाष्टादशधेत्यनुषज्यते। देवाः खल्वणि-मादिकमष्टविधमैश्वर्य्यमासाद्य दश शब्दादीन् भुञ्जानाःशब्दादयोभोग्यास्तदुपायाश्चाणिमादयोऽस्माकमसुरादिभिर्मास्म उपधानिषतेपि बिभ्यति। तदिदं भयमभिनिवेशो-ऽन्धतामिस्रोऽष्टादशविषयित्वात् अष्टादशधेति” सा॰ कौ॰।
२ आसक्तौ च
“अथानुरूपाभिनिवेशतोषिणा” कुमा॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिनिवेश¦ m. (-शः)
1. Intentness, application, perseverance, determina- tion to effect a purpose, or attain an object.
2. Tanacity.
3. Study.
4. Ignorant fear causing death. E. अभि and नि before विश to enter, घञ् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिनिवेशः [abhinivēśḥ], 1 (a) Devotion, attachment, intentness, being occupied with, adherence to close application, with loc. or in comp,; कतमस्मिंस्ते भावाभिनिवेशः V.3; अहो निरर्थकव्यापारेष्वभिनिवेशः K.12.146, Dk.81; Māl.7. (b) Firm attachment, love, fondness, affection; बलीयान् खलु मे$भिनिवेशः Ś.3; अनुरूपो$स्या ˚शः ibid., V.2; असत्यभूते वस्तुन्यभिनिवेशः Mit.
Earnest desire, ardent longing or expectation; wish, desire; Māl.5.27.
Resolution, determined resolve, determination of purpose, firmness of resolve, perseverance; जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् R.14.43; अनुरूप˚ शतोषिणा Ku.5.7; Śi.3.1. (b) Idea, thought; Ms.12.5; Y.3.155.
(In Yoga Phil.) A sort of ignorance causing fear of death; instinctive clinging to worldly life and bodily enjoyments and the fear that one might be cut off from all of them by death; अविद्या- स्मितारागद्वेषाभिनिवेशाः पञ्चक्लेशाः Yoga S.; cf. also Sāṅkhya K.15 and Malli. on Śi.4.55.
Pride; भयं द्वितीया- भिनिवेशतः स्यात् Bhāg.11.2.37.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिनिवेश/ अभि-निवेश m. application , intentness , study , affection , devotion (with loc. or ifc. )
अभिनिवेश/ अभि-निवेश m. determination (to effect a purpose or attain an object) , tenacity , adherence to( loc. ) Kum. v , 7 , etc.