गण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गण, त् क संख्याने । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं-सेट् ।) मूर्द्धन्योपधः । गणयति । इति दुर्गादासः ॥
गणः, पुं, (गण्यते गणयति वा कर्म्मण्यप् । कर्त्तरि अच् वा ।) समूहः । (यथा, हितोपदेशे १ । ९३ । “न गणस्याग्रतो गच्छेत् सिद्धे कार्य्ये समं फलम् ॥”) प्रमथः । (यथा, मेघदूते । ३५ । “भर्त्तुः कण्ठच्छविरितिगणैः सादरं वीक्ष्यमाणः ॥”) रुद्रानुचरः । (यथा, गोः रामायणे । ५ । ८९ । ७ । “धनाध्यक्षसभां देवः प्राप्तो हि वृषभध्यजः । उमासहायो देवेशो गणैश्च बहुभिर्वृतः ॥”) सेनासंख्याविशेषः । तद्यथा । गजाः २७ रथाः २७ अश्वाः ८१ पदातिकाः १३५ समु- दायेन २७० । इत्यमरः । २ । ८ । ८१ ॥ (यथा, महाभारते । “त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः ॥”) संख्या । चोरनामगन्धद्रव्यम् । इति मेदिनी ॥ * ॥ गणेशः । यथा, महानिर्व्वाणतन्त्रे । “गाणपस्तु महेशानि ! गणदीक्षाप्रवर्त्तकः ॥” अश्विन्यादिजन्मनक्षत्रानुसारेण देवमानुष- राक्षसगण इति तु पारिभाषिकम् । यथा, -- “दे म रा म दे मा दे दे रा रा म म द रा द रा ॥ दे रा रा म म दे रा रा म म देति गणत्रयम् ॥” इति ज्योतिषरत्नमाला ॥ “पूर्ब्बोत्तरात्रयञ्चैव भरण्यार्द्रा च रोहिणी । इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः ॥ ज्येष्ठाशतभिषामूलधनिष्ठाश्लेषकृत्तिकाः । चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः ॥ अश्विनी रेवती पुष्यः स्वाती हस्तः पुनर्व्वसुः । अनुराधा मृगशिरः श्रवणं देवतारकाः ॥” इति निबन्धः ॥ (तस्य मिलनकथनं यथा, ज्योतिषे । “सजातौ परमा प्रीतिर्मध्यमा देवमानुषे । देवासुरे कनिष्ठा च मृत्युर्मानुषराक्षसे ॥”) धातुसमूहः । यथा, मनोरमा । “भ्वाद्यदादिजुहोत्यादिदिवादिः स्वादिरेव च । तुदारुधातनुक्र्यादिश्चुरादिश्च गणा दश ॥” (छन्दःशास्त्रोक्तपारिभाषिकाक्षरविशेषः । स तु म-न-भ-य-ज-र-स-त-ग-लसंज्ञः । इति छन्दो- मञ्जरी ॥ * ॥ महादेवः । यथा, महाभारते । १३ । १७ । ४० । “विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ॥” दैत्यविशेषः । स तुं अभिजिदिति नामान्तरस्य दैत्यस्य गुणवतो भार्य्यायां गुणवत्यां सम्भूतः । यथा, स्कन्दपुराणे गणेशखण्डे ३ अध्याये । “अथ सोऽप्यभिजित् पत्न्या समुद्रस्नानमाययौ । पर्व्वणि श्रद्धया युक्तश्चक्रे स्नानं तया सह ॥ तृषिता सा गुणवती पपौ चाञ्जलिना जलम् । यद्बीर्य्यं ब्रह्मणा त्यक्तं दैवात्तदुरे गतम् ॥” “भार्य्यागुणवती तस्य नवमासादनन्तरम् । पुत्त्रं प्रसूताह्नि शुंभे दिव्यरूपं गुणाद्भुतम् ॥ ज्योतिर्विद्भिरनुज्ञातो गण इत्यभिधां पिता । कृत्वाभ्युदयिकं चक्रे व्यत्यीते दशमेऽहनि ॥” स च महादेवमाराध्य वरं लब्ध्वा त्रैलोक्यं निर्जित्य च कपिलमुनेश्चिन्तामणिमपहृतवान् । कपिलमुनिस्तु अस्मादपराधात् जातमन्युर्गणेश- माराधयामास । अथ प्रसन्नेन गणपतिना तद्- गृहे अवतीर्य्य तं गणदैत्यं विनाशितवान् इत्येषा- कथा तत्रैवाध्याये विस्तरशो द्रष्टव्या ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गण पुं।
समूहः
समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि
2।5।40।1।5
समुदायः समुदयः समवायश्चयो गणः। स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम्.।
: रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः
पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः
गण पुं।
गणसेना
समानार्थक:गण
2।8।81।1।3
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः। अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि॥
पदार्थ-विभागः : नाम
गण पुं।
सङ्घातः
समानार्थक:गण
3।3।46।1।2
कणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः। पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च॥
पदार्थ-विभागः : समूहः
गण पुं।
शिवानुचरः
समानार्थक:प्रमथ,पारिषद,गण
3।3।46।1।2
कणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः। पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च॥
स्वामी : शिवः
सम्बन्धि1 : शिवः
: नन्दिः
पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गण¦ सख्याने अद॰ चु॰ उभ॰ सक॰ सेट्। गणयति ते अ-[Page2498-b+ 38] जीगणत् त अजगणत् त। गणयाम्--बभूव आस-चकार चक्रे। गणयितव्यः। गण्यः। गणयिता गणयन्। गणितम्। गणनम् गणना। गणायत्वा। विग-णय्य। गणः,
“गणयति विहितहुताशविकल्पम्” गीतगो॰
“तां भक्तिरेवागणयत् पुरस्तात्” रघुः।
“पदानि गणयन्गच्छ स्वानि नैषध! कानिचित्” भा॰ व॰
२६
१८ । नलं प्रतिकर्कोटकनागोक्तिः
“यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्रिर्यदि नायुषः स्यात्। पारेपरार्द्ध ग-णितं यदि स्यात् गणेयनिःशषगुणोऽपि स स्यात्” नैष॰।
“लीलाकमलपत्राणि गणयामास पार्वती” कुमा॰।
“अजी-गणद्दाशरथं न वाक्यम्” भट्टिः।
“वाणीं काणभुजीमजी-गणदवासासीच्च वैयासिकीस्” माघटी॰, मल्लिनाथः
“वृह-स्पतिश्च भगवानादित्येष्येव गण्यते” भा॰ आ॰
२६
०३ श्लो॰अव + अवज्ञायाम्।
“नार्थनूनैर्नावगणैरेकात्मभिरसाधनैः” भा॰ व॰
८२ अ॰। वि + विशेषेण संख्याने
“अदूरवर्त्तिनीं सिद्धिं राजन्! विग-णयात्मनः” रघुः।
गण¦ पु॰ गण--कर्मणि अच कर्त्तरि अच् वा।
१ समूहे।
“गणानां त्वां गणपतिम्” यजु॰
२३ ,
१९ ।
“गणपतिं गणानांसमूहानां पालकम्” येददी॰।
२ प्रमथे
“सकलहंसगणंशुचि मानसम् शिवमगात्मजया च कृतेर्ष्यया सकलहंसगणं शुचिमानसम्”
“गणानमेरुप्रसवावतंसाः” कुमा॰। सेनाविशेषाणां
३ सङ्ख्याविशेषे अमरः। स च अनीकि-नीशब्दे
१६
९ पृ॰ दर्शितेन
“त्रयोगुल्मा गणो नाम” इत्या-दिवाक्येन उक्तः तेन (रथाः
२७ गजाः
२७ । अश्वाः
८१ प-दातिकाः
१३
५ सर्वसमष्टिः
२७
० , इति संख्याविशेषः)।
४ चोरनामगन्धद्रव्ये मेदि॰। गणः प्रमथादिः वश्यत्वेनसत्त्वादिगुणगणः वश्यत्वेन वा गणः गणदैत्यः नाश्यत्वेनवाऽस्त्यस्य अच्।
५ गणेशे
“गणदीक्षाप्रवर्त्तकः” महानि॰। प्रमथाधिपत्वात् तस्य गणेशत्वम्। विवाहे वरकन्ययो-र्मेलनज्ञानोपयोगिनि
६ देवराक्षसमानुषसूचके ताराभेद-वर्गे उपयमशब्दे
१२
५० पृ॰ बिवृतिः।
“गणमैत्री भकूटं चनाडी चैते गुणाधिकाः” मुहूर्त्तचि॰।
“नो गणानांच दोषः” ज्यो॰ त॰।
७ ध्रुवादिसंज्ञके नक्षत्रविशेष-समूहे
“उग्रः पूर्वमघान्तका ध्रुवगणः इत्यादि” ज्यो॰ त॰। सम्भूय एकद्रव्यतापादनेन
८ बाणिज्यकारिणि-बणिक्समूहे च
“श्रेणिनैगमपाषण्डिगणानामप्ययं विधिः”
“गणद्रव्यं हरेद्यस्तु संविदं यश्च लङ्घयेत्” याज्ञव॰। [Page2499-a+ 38]
“भ्वाद्यदादी जुहोत्यादिर्दिवादिः स्वादिरेव च। तु-दादिश्च रुधादिश्च तनक्र्यादिचुरादयः” उक्तेषु शबादि-विकरणविशेषनिमित्तेषु दशसु
९ धातुसमुदायेषु तद्युक्त-त्वात्
१० गणपाठग्रन्थेऽपि। पाणिनिरचिते
११ स्वरादि-स्मरूपप्रतिपादकग्रन्थे
१२ देत्यभेदे स च दैत्यः अभिजिद-परनाम्नो गुणवतः गुणवत्यां जातः यथाह स्कन्दपु॰गणेशख॰
३ अ॰
“अथ सोप्यऽभिजित् पत्न्या समुद्रस्नान-माययौ। पर्वणि श्रद्धया युक्तश्चक्रे स्नानं तया सह। तृषिता सा गुणवती पपौ चाऽञ्जलिना जलम्। यद्वीर्य्यंब्रह्मणात्यक्तं दैवात्तदुदरे गतम्”।
“भार्य्या गुणवती तस्यनवमासादनन्तरम्। पुत्रं प्रासूताऽह्नि शुभे दिव्यरूपंगुणाद्भुतम्। ज्योतिर्विद्भिरनुज्ञातो गण इत्यभिधांपिता। कृत्वाभ्युदयिकं चक्रे व्यतीते दशमेऽहनि” स च महादेवमाराध्य लब्धवरस्त्रैलोक्यं निर्जित्यकपिलमुनेश्चिन्तामणिं हृतवान् तेन जातमन्युना तेनगणेशस्य सेवने कृते गणेशेन तद्गृहे अवतीर्य्य तं गण-दैत्यं नाशितवान् इत्येषा कथा तत्रैव विस्तीर्णा दिङ्मात्रमुच्यते यथा
“कथं नाशितवाञ्छम्भो! गणदैत्यं विना-यकः। तर्त्सवं कृपया देव! कथयस्व ममाग्रतः। शिव-उवाच। यथा नाशितवान् दैत्यं गणं दुष्टमतिं विभुः। तथाहं कथष्यामि तच्छृणुष्व षडानन”
६ अ॰ इत्युपक्रम्य(
“प्राप्तसंज्ञां परशुना हन्ति स्म नं रुषा विभुः। दृष्टवान् परशुं वीरमुख्यः सूर्यमिवाऽपरम्। सुतीक्ष्णंज्वालया व्याप्तं कालचक्रनिभं शुभम्। दहन्तं दश-दिग्भागान् प्रलयानलसन्निभम्। यदा तत्सादरं द्रष्टुमुपचक्राम दैत्यराट्। तदैवापातयच्छित्वा परशुस्तस्यमस्तकम्। सपर्वतवना पृथ्वी चात्नसत् सागरैः सह। अभिजित्प्रमुखाः सर्वे रुरुदुः पतिते गणे”
७ अ॰। शस् गणशस्, कृत्वस् गणकृत्वस् वीप्सार्थे कारकार्थ-वृत्तौ गणशब्दार्थे अव्य॰।
१३ स्वपक्षे
“सगणायमपरिवाराय सायुधाय सशक्तिकाय इन्द्राय नमः” इतिविधानपारिजा॰।
१४ वाक्ये निघण्टुः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गण¦ r. 10th cl. (गणयति) To count, to reckon up by: number, to calculate.
गण¦ m. (-णः)
1. A flock, a multitude, a troop, a tribe or class, &c.
2. A body of troops equal to three Gulmas or twenty-seven chariots and as many elephants, eighty-one horses, and 135 foot.
3. Troops of inferior deities considered as SIVA'S attendants, and under the especial superintendance of GANESHA.
4. A name of GANESHA.
5. A number (in arithmetic.)
6. A kind of perfume, commonly Chor. [Page228-b+ 60]
7. A sect in philosophy or religion.
8. A conjugation, a class or ridicals.
2. Series of asterisms which are classed under three heads human, infernal, and divine. E. गण् to count to reckon, affix अच्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणः [gaṇḥ], [गण् कर्मणि कर्तरि वा अच्]
A flock, multitude, group, troop, collection; गुणिगणगणना, भगणः
A series, a class.
A body of followers or attendants.
Particularly, a troop of demigods considered as Śiva's attendants and under the special superintendence of Gaṇeśa, a demigod of this troop; गणानां त्वा गणपतिं हवामहे कविं कवीनाम् &c.; गणा नमेरुप्रसवावतंसाः Ku.1.55,7.4,71; Me.35.57; Ki.5.13.
Any assemblage or society of men formed for the attainment of the same objects.
A company, association.
A tribe, class.
A series of lunar mansions classed under three heads (of god, men and demons).
A sect (in philosophy, religion).
A small body of troops (a sub-division of अक्षौहिणी), consisting of 27 chariots, as many elephants, 81 horses and 135 foot; Mb.1.2.21.
A number (in math.).
A foot (in prosody).
(In gram.) A series of roots or words belonging to the same rule and called after the first word of that series; e. g. भ्वादिगण i. e. the class of roots which begin with भू.
An epithet of Gaṇeśa. -Comp. -अग्रणी m. N. of Gaṇeśa. -अचलः N. of the mountain Kailāsa, as the residence of the Gaṇas of Śiva.
अधिपः, अधिपतिः N. of Śiva; Śi.9.27.
the chief of a troop of soldiers or of a class of disciples, of a body of men or animals. -अन्नम् a mess, food prepared for number of persons in common; Ms.4.29,219. -अभ्यन्तर a. one of a troop or number. (-रः) the leader or member of any religious association; Ms.3.154. -ईशः N. of Gaṇapati, Śiva's son (see गणपति below). ˚जननी an epithet of Pārvatī. ˚भूषणम् red-lead.
ईशानः, ईश्वरः an epithet of Gaṇeśa.
of Śiva. -उत्साहः the rhinoceros.
कारः a classifier.
an epithet of Bhīmasena. -कृत्वस् ind. for a whole series of times, for a number of times. -गतिः a particular high number. -चक्रकम् a dinner eaten in common by a party of virtuous men. -छन्दस् n. metre regulated and measured by feet. -तिथ a. forming a troop or collection.
दीक्षा initiation of a number or a class.
performance of rites for a number of persons.-दीक्षिन् a.
one who officiates for a number of persons or for various castes (as a priest).
one who has been initiated into the worship of Ganeśa. -देवताः (pl.) groups of deities who generally appear in classes of troops; Ak. thus classifies them: आदित्यविश्ववसव- स्तुषिता भास्वरानिलाः । महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥
द्रव्यम् public property, common stock; Y.2.187.
a variety of articles.
धरः the head of a class or number.
the teacher of a school.
नाथः, नाथकः an epithet of Śiva.
of Gaṇeśa.
the leader of the attendants of any god; Bhāg.5.17.13.
the head of an assemblage or corporation; Bṛi. S.15.4.-नायिका an epithet of Durgā. -पः,
पतिः N. of Śiva.
N. of Gaṇeśa. [He is the son of Śiva and Pārvatī, or of Pārvatī only; for according to one legend, he sprang from the scurf of her body. He is the god of wisdom and remover of obstacles; hence he is invoked and worshipped at the commencement of every important undertaking. He is usually represented in a sitting posture, short and fat, with a protuberant belly, and four hands; riding a mouse; and with the head of an elephant. This head has only one tusk, the other having been lost in a scuffle between him and Paraśurāma when he opposed the latter's entrance to Śiva's inner apartments; (whence he is called Ekadanta, Ekadaṁṣṭra &c.). There are several legends accounting for his elephant head. It is said that he wrote the Mahābhārata at the dictation of Vyāsa who secured his services as a scribe from the god Brahman].
also an epithet of Bṛihaspati and Indra.
the leader of a class or troop.-पर्वत see गणाचल. -पाठः a collection of gaṇas or series of words falling under the same grammatical rule.-पीठकम् the breast, bosom. -पुङ्गवः the head of a tribe or class. (pl.) N. of a country and its people; Bṛi. S.4.24. -पूर्वः the leader of a tribe or class; (ग्रामणी); Mb.13.23.2. ˚तापनी N. of a Upaniṣad. -भर्तृ m.
an epithet of Śiva; गणभर्तृरुक्षा Ki.5.42.
the leader of a class. -भोजनम् mess, eating in common. -यज्ञः a rite common to all. -रत्नमहोदधिः a collection of grammatical gaṇas by Vardhamāna.-राज्यम् N. of an empire in the Deccan; Bṛi. S.14. 14. -रात्रम् a series of nights. -वल्लभः a general of the army (सेनानायक); Rām.2.81.12. -वृत्तम् see गणच्छन्दस्.-हासः, -हासकः a species of perfume.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गण m. a flock , troop , multitude , number , tribe , series , class (of animate or inanimate beings) , body of followers or attendants RV. AV. etc.
गण m. troops or classes of inferior deities (especially certain troops of demi-gods considered as शिव's attendants and under the special superintendence of the god गणे-श; See. -देवता) Mn. Ya1jn5. Lalit. etc.
गण m. a single attendant of शिवVarBr2S. Katha1s. Ra1jat. iii , 270
गण m. N. of गणे-शW.
गण m. a company , any assemblage or association of men formed for the attainment of the same aims Mn. Ya1jn5. Hit.
गण m. the 9 assemblies of ऋषिs under the अर्हत्महा-वीरJain.
गण m. a sect in philosophy or religion W.
गण m. a small body of troops (= 3 गुल्मs or 27 chariots and as many elephants , 81 horses , and 135 foot) MBh. i , 291
गण m. a series or group of asterisms or lunar mansions classed under three heads (that of the gods , that of the men , and that of the राक्षसs) W.
गण m. (in arithm. ) a number L.
गण m. (in metre) a foot or four instants(See. -च्छन्दस्)
गण m. (in Gr. )a series of roots or words following the same rule and called after the first word of the series( e.g. अद्-आदि, the g. अद्etc. or the whole series of roots of the 2nd class ; गर्गा-दि, the g. गर्गetc. or the series of words commencing with गर्ग)
गण m. a particular group of सामन्s La1t2y. i , 6 , 5 VarYogay. viii , 7
गण m. a kind of perfume L.
गण m. = वाच्( i.e. " a series of verses ") Naigh. i , 11
गण m. N. of an author
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गण पु.
= चमसगण, (चमस के द्वारा सोमाहुति प्रदान करने वाले ऋत्विजों का नाम, आप.श्रौ.सू. 12.28.15 (भाष्य सम्प्रैषश्च उक्थशज सोमानाम् इति बहुवचनान्तः); (मन्त्रों का) समूह (उदाहरणार्थ मरुतों के लिए पुरोडाश की आहुतियों का साथ देने वाले सात मन्त्र), आप. श्रौ.सू. 17.16.16 (चयन); अन्य गण हैं ‘अरण्येऽनुवाक्य’ एवं ‘ग्रामेऽनुवाक्य’; -होम पु. प्रायश्चित्त के लिए संयुक्त हवियां, श्रौ.प.नि. 43.356.