सामग्री पर जाएँ

चेतना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतना, स्त्री, (चेतयतेऽनया इति । चित् संज्ञाने “न्यासश्रन्थेति ।” युच् टाप् च ।) बुद्धिः । इत्य- मरः । १ । ५ । १ ॥ (यथा, भागवते । ४ । २१ । ३४ । “प्रधानकालाशयधर्म्मसंग्रहे शरीर एष प्रतिपद्य चेतनाम् ॥” “एष विभुः परमान्दोऽपि शरीरे विषवकारां बुद्धिं प्राप्य क्रियाफलत्वेन प्रतीयते ।” इति टीकाकृच्चूर्णिः ॥) सा गर्भस्थबालकस्य सप्तभि- मासैर्भवति । इति सुखबोधः ॥ (ज्ञानात्मिका मनोवृत्तिः । यथा, भगवद्गीतायाम् । १३ । ६ । “इच्छाद्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ॥” तस्यामभिव्यक्तेन्द्रियवृत्तिः तप्त इव लौहपिण्डे- ऽग्निरात्मचैतन्याभासरसविद्धा चेतना इति शाङ्करभाष्यम् । ज्ञानात्मिका मनोवृत्तिरिति श्रीधरस्वामी ॥ स्वरूपज्ञानव्यञ्जिकायां प्रमाणा- साधारणकारणिकायां चित्तवृत्तौ ज्ञाना- ख्यायां भगवतो विभूताविति शब्दार्थचिन्ता- मणिः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतना स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

1।5।1।2।7

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतना¦ स्त्री चु॰ चित--युच्।

१ बुद्धौ

२ ज्ञाने

३ चैतन्ये चितिखरूपज्ञानव्यञ्जिकायां प्रमाणासाधारणकारणिकायां

४ चित्तवृत्तौ
“चेतनानामधिष्ठानं मनोदेहश्च सेन्द्रियः। केशलोमनखाग्रान्तमूलद्रव्यगुणैर्विना” शब्दार्थचि॰ धृत-वाक्ये केशादिव्यतिरिक्तस्यैव देहस्य चेतनाव्यञ्जकत्व-मुक्तम्। गर्भस्थस्य सप्तमे मासि चैतन्ययोगः यथाहयाज्ञ॰
“मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुसिरायुतः। सप्तमे, चाष्टमे चैव त्वङ्मांसस्मृतिमानपि” असौपूर्व्वोक्तो गर्भः सप्तमे मासि मनसा चेतनया च युक्तः” मिता॰।
“निमेषश्चेतना यत्न आदानं पाञ्चभौतिकम्” याज्ञ॰
“षष्ठस्तु चेतना धातुर्मन इत्यभिधीयते” भा॰ व॰

२०

९ अ॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतना f. consciousness , understanding , sense , intelligence Ya1jn5. iii , 175 MBh. etc. (often ifc. [ f( आ). ] Mn. ix , 67 MBh. etc. )(See. अ-, निश्-, पुरु-चेत्, वि-, स-, सु-).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--released by Indra in the sacrifice. वा. ६५. ८१.

"https://sa.wiktionary.org/w/index.php?title=चेतना&oldid=499590" इत्यस्माद् प्रतिप्राप्तम्