अलसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलसः, त्रि, (न लसति व्याप्रियते, लस + अच् ।) आलस्ययुक्तः । आल्स्या इति भाषा । तत्पर्य्यायः । मन्दः २ तुन्दपरिमृजः ३ आलस्यः ४ शीतकः ५ अनुष्णः ६ । इत्यमरः ॥ शीतलः ७ कुण्ठः ८ मुख- निरीक्षकः ९ । इति शब्दरत्नावली ॥ (क्रिया- मन्दः । क्रियाजडः । अवश्यकर्त्तव्येषु अप्रवृत्ति- शीलः । “अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीनं । प्रमदेव वृद्धपतिं नेच्छत्युपगृहीतुं लक्ष्मीः” । इति हितोपदेशे ।)

अलसः, पुं, (लस + अच्, ततो नञ्समासः ।) वृक्ष- विशेषः । पादरोगभेदः । इति मेदिनी ॥ पा~कुइ इति भाषा । तस्य निदानरूपे । “क्लिन्नाङ्गल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ । दुष्टकर्द्दमसंस्पर्शादलसं तं विभावयेत्” ॥ अलसं कादई इति लोके । अथ तस्य चिकित्सा । “पादौ सित्कारनालेन लेपनं त्वलसे हितं । पटोलकुनटीनिम्बरोचनामरिचैस्तिलैः ॥ क्षुद्रास्वरससिद्धेन कटुतैलेन लेपयेत् । ततः कासीसकुनटीतिलचूर्णैर्व्विचूर्णयेत्” ॥ अवधूलयेत् । “करञ्जवीजं रजनी कासीसं पद्मकं मधु । रोचना हरितालञ्च लेपोऽयमलसे हितः” ॥ इति भावप्रकाशः ॥ (“टुष्टकर्द्दमसंस्पर्शाः कण्डू- क्लेदान्वितान्तराः । अङ्गुल्योऽलसमित्याहुः” ॥ इति वाभटः ॥)

"https://sa.wiktionary.org/w/index.php?title=अलसः&oldid=488771" इत्यस्माद् प्रतिप्राप्तम्