नालिकेर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिकेरः, पुं, (नारिकेलः । रलयोरैक्यात् रस्य लः । लस्य रश्च ।) नारिकेलः । इत्यमरटीकायां रमानाथः ॥ (क्वचित् क्लीवेऽपि दृश्यते । यथास्य गुणाः । “नालिकेरं सुमधुरं गुरुस्निग्धञ्च शीतलम् । हृद्यं संबृंहणं वस्तिशोधनं रक्तपित्तनुत् ॥ विष्टम्भि पक्वं मतिमन्नपक्वं कफवातलम् । बृंहणं शीतलं वृष्यं नालिकेरफलं विदुः ॥” इति हारीते प्रथमे स्थाने दशमेऽध्याये ॥ अस्य तोयगुणा यथा, -- “नालिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु । तृष्णापित्तानिलहरं दीपनं वस्तिशोधनम् ॥” इति वाभटे सूत्रस्थाने पञ्चमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिकेर पुं।

नालिकेरः

समानार्थक:नालिकेर,लाङ्गली

2।4।168।2।3

तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः। तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिकेर¦ पु॰ नल--बा॰ इण् केन वायुना ईर्य्यते ईर--घञ्कर्म॰। नारिकेले तच्छब्दे दृश्यम्। तस्य खण्डपाकवि-धिगुणादि वैद्यके उक्तं यथा
“कुडवं नालिकेरस्य सूक्ष्मंदृषदि पेषितम्। शुद्धखण्डस्य कुडवं गव्यक्षीरे चतु-र्गुणे। आलोड्य नालिकेरस्य जले मृद्वग्निना पचेत्। धान्यकं पिप्पलीं शुण्ठीं चातुर्जातं सुचूर्णितम्। शाणप्रमाणं प्रत्येकं शीतीभूते क्षिप्रेद्बुधः। नालिकेरस्यखण्डोऽयं पुंस्त्वनिद्राबलप्रदः। अम्लपित्तं क्षयं कासंशूलं च परिणामजम्। नाशयेद्रक्तपित्तञ्च शुष्कंदावानलो यथा”। अत्र घृतपलेन कुष्माण्डवन्नालिकेरस्यभर्जनं विधेयमिति सम्प्रदायः। वृ॰ सं॰

१४ अ॰ कूर्मविभागेआग्नेय्यामुक्ते

२ देशभेदे
“वृषनालिकेरचर्मद्वीपेत्यादि” तद्वाक्यम्। पृषो॰ रस्य लः। नालिकेलोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिकेर¦ m. (-रः) The cocoanut. E. नल् to bind, affix इन, नालि a leaf, &c. क air, wind, and इर what goes; fluttering in the wind. see नारिकेल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिकेर [nālikēra] नालिकेलि [nālikēli] ली [lī], नालिकेलि ली See नारिकेर &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिकेर m. the cocoa-nut tree or the -ccocoa-nut Var. Sus3r. (also 606166 केलm. as v.l.) Ka1v. (also 606166 केरीf. Ba1lar. )

नालिकेर m. N. of a district to the south east of मध्य-देशVar.

"https://sa.wiktionary.org/w/index.php?title=नालिकेर&oldid=353702" इत्यस्माद् प्रतिप्राप्तम्