स्फटिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फटिकः, पुं, (स्फट शीर्णौ + बाहुलकात् इकन् ।) सूर्य्यकान्तमणिः । इति हलायुधः ॥ स्वनाम- ख्यातमणिः । फटिक् इति भाषा । तत्पर्य्यायः । स्फाटिकम् २ स्फाटकम् ३ । इति शब्दरत्ना- वली ॥ भासुरः ४ स्फाटिकोपलः ५ शालि- पिष्टम् ६ धौतशिलम् ७ । इति त्रिकाण्डशेषः ॥ सितोपलः ८ विमलमणिः ९ निर्म्मलोपलः १० स्वच्छः ११ स्वच्छमणिः १२ अमररत्नम् १३ निस्तुषरत्नम् १४ शिवप्रियः १५ । अस्य गुणादि यथा, -- “स्फटिकः समवीर्य्यश्च पित्तदाहार्त्तिदोषनुत् । तस्याक्षमालां जपता दत्ते कोटिगुणं फलम् ॥” तत्परीक्षा यथा, -- “यद्गङ्गातोयविन्दुच्छविविमलतमं निस्तुषं नेत्र- हृद्यं स्निग्धं शुद्धान्तरालं मधुरमतिहिमं पित्त- दाहास्रहारि । पाषाणे यन्निघृष्टं स्फुटितमपि निजां स्वच्छतां नैव जह्यात तज्जात्यं जातु लभ्यं शुभमुपचिनुते शैवरत्नञ्च रत्नम् ॥” बिन्दुस्थाने विद्युदिति च पाठः । इति राज- निर्घण्टः ॥ अपि च । “मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् । मणिरत्नं सरं शीतं कषायं स्वादुलेखनम् । चक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम् ॥” इति राजवल्लभः ॥ * ॥ तस्य उत्पत्तिपरीक्षे यथा, -- “कावेरबिन्ध्ययवनचीननेपालभूमिषु । लाङ्गली व्यकिरन्मेदो दानवस्य प्रयत्नतः ॥ आकाशशुद्धं तैलाख्यमुत्पन्नं स्फटिकं ततः । मृणालशङ्खधवलं किञ्चिद्वर्णान्तरान्वितम् ॥ न तत्तुल्यं हि रत्नानामथवा पापनाशनम् । संस्कृतं शिल्पिना सद्यो मूल्यं किञ्चिल्लभेत्ततः ॥” इति गारुडे पूर्ब्बविभागे । ७९ । १ -- ३ ॥ * ॥ तथा । “हिमालये सिंहले च बिन्ध्याटवितटे तथा । स्फटिकं जायते चैव नानारूपं समप्रभम् ॥ हिमाद्रौ चन्द्रसङ्काशं स्फटिकं तत् द्विधा भवेत् । सूर्य्यकान्तञ्च तत्रैकं चन्द्रकान्तं तथा परम् ॥ सूर्य्यांशुस्पर्शमात्रेण वह्निं वमति यत् क्षणात् । सूर्य्यकान्तं तदाख्यातं स्फटिकं रत्नवेदिभिः ॥ पूर्णेन्दुकरसंस्पर्शादमृतं स्रवति क्षणात् । चन्द्रकान्तं तदाख्यातं दुर्ल्लभं तत् कली युगे ॥ अशोकपल्लवच्छायं दाडिमीतीजसन्निभम् । बिन्ध्याटवितटे देशे जायते मन्दकान्तिकम् ॥ सिंहले जायते कृष्णमाकरे गन्धनीलके । पद्मरागभवे स्थाने विविधं स्फटिकं भवेत् ॥ अत्यन्तनिर्म्मलं स्वच्छं स्रवतीव जलं शुचि । ज्योतिर्ज्ज्वलनमाश्लिष्टं मुक्ताज्योतीरसं द्विज ॥ तदेव लोहिताकारं राजावर्त्तमुदाहृतम् । आनीलं तत्तु पाषाणं प्रोक्तं राजमयं शुभम् ॥ ब्रह्मसूत्रमयं यत्तु प्रोक्तं ब्रह्ममयं द्विज ॥” इति स्फटिकपरीक्षा । इति भोजराजकृतयुक्ति- कल्पतरुः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फटि(टी)क¦ पु॰ स्फटि(टीव)रेव कायति कै--क।

१ स्वनामख्याते मणौ हला॰ प्यार्थे क वा ह्रस्वः।

२ स्फट्यां भावप्र॰। स्वार्थेऽण्। स्फाटिकमप्यत्र न॰ शब्दर॰।
“स्फटकिः समवीर्य्यश्च पित्तदाहार्त्तिदोषणुत्। तस्माक्षमालां जपतां दत्ते कोटिगुणं फलम्”। तत्परीक्षायथा
“यद्गङ्गातोयविन्दुच्छविनिमलतमं निस्मुर्षं नेत्रहृद्य स्निग्धं शुद्धान्तरालं मधुरमतिहिमं पित्तदाहास्वहारि। पापाणे यन्निवृष्टं स्फुटितमपि निजां स्वच्छतां[Page5369-b+ 38] नैव जह्यात् तज्जात्यं जातु लभ्यं शुभमुपचिनौते शैवरत्नञ्च रत्नम्” राजनि॰।
“मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम्। मणिरत्न सरंशीतं कषायं स्वादु लेखनम्। चक्षुष्यं धारणात्तच्च वापा-लक्ष्मीविनाशनम्” राजवल्लभः। तस्य उत्पत्तकथादिकयथा
“कावेरीविन्ध्ययवनचीननेपालभूमिषु। लाङ्गलीव्यकिरन्मेदा दानवस्य प्रयत्नतः। आकाशशुद्धं तैलाख्यमुत्पन्न स्फटिकं ततः। मृप्प लशङ्कधवलं किञ्चिद्वर्णा-न्तरान्वितम्। न तत्तुल्यं हि रत्नानामथ वा पाप-नाशनम्। संस्कतं शिल्पिना नद्यो मूल्यं किञ्चिल्लभे-त्ततः” गारुडे

७९ अ॰। तथा
“हिमालये सिंहले चविन्ध्याटवितटे तथा। स्फटिकं जायते चैव नानारूपंसमप्रभम्। हिमाद्रौ चन्द्रसङ्काशं स्फटिकं तत् द्विधाभवेत्। सूर्य्यकान्तञ्च तत्रैकं चन्द्रकान्तं तथाऽपरम्। सूर्य्यांशुस्पर्शमात्रेण वह्निं वमति यत् क्षणात्। सूर्य्य-कान्तं तदाख्यातं स्फटिकं रत्नवेदिभिः। पूर्णेन्दुकर-संस्पर्शादमृत स्रवति क्षणात्। चन्द्रलान्तं तदास्त्रातंदुर्लभं तत् कलौ युगे। अशोकपल्लवच्छायं दाडिमी-वीजसन्निभम्। विन्ध्याटवीतटे देशे जायते पन्दकान्ति-कम्। सिंहले जायते लुष्णमाकरे गन्धनीलके। पद्म-रागभवस्थाने विविध स्फटिकं भवेत्। अत्यन्तनिर्मलंस्वच्छं सृवतीव जलं शुचि। ज्यातिर्ज्यलनमाश्लिष्टंमुक्ताज्योतीरसं द्विज!। तदेय लोहिताकारं राजावार्त्त-समद्भवम। आनीलंतत्तु पाषाणं प्रोक्तं राजमयं शुअभम्। ब्रह्मसूत्रमयं यत्तु प्रोक्तं ब्रह्ममयं द्विज!
“युक्तिकल्प॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फटिकः [sphaṭikḥ], 1 A crystal, quartz; अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयः सुखं प्रविशन्त्युपदेशगुणाः K.

का Sulphate of alumina or alum.

Camphor.-Comp. -अचलः the mount Meru. -अद्रिः the mount Kailāsa. ˚भिद् m. camphor. -अभ्रः camphor. -अश्मन्, -आत्मन, -मणि m., -शिला a crystal stone. -कुड्यम्, भित्तिः crystal wall. -प्रभ a. crystalline, transparent.-स्कम्भः a crystal column.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फटिक m. crystal , quartz S3vetUp. Ya1jn5. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=स्फटिक&oldid=505882" इत्यस्माद् प्रतिप्राप्तम्