सेव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेव, ञ ङ ऋ सेवने । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-आत्म०-च-सक०-सेट् ।) ञ, सेवति सेवते । ङ, सेवते । ऋ, असिसेवत् । सेवनं आराधनं उपभोगः आश्रयणञ्च । विष्णुं सेवते । सुखं सेवते । तीर्थं सेवते साधुः । अन्ये त्वस्मात् परस्मैपदममन्यमानाः । नीचं समृद्धमपि सेवति नीच एव । स्वाधीने विभवेऽप्यहो नरपतिं सेवन्ति किं मानिनः ॥ इत्यादौ गणकृतानित्य- त्वमाहुः । इति दुर्गादासः ॥

सेवम्, क्ली, (सेव्यते यदिति । सेव + घञ् ।) सेवि- फलम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो गुणाश्च यथा -- “मुष्टिप्रमाणं वदरं सेवं सिवितिकाफलम् । सेवं समीरपित्तघ्नं वृंहणं कफकृद्गुरुः । रसे पाके च मधुरं शिशिरं रुचिशुक्रकृत् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेव¦ न॰ सेव--कर्मणि घञर्थे क। सेविफले (सेओ) राजनि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेव [sēva], See सेवन, सेवि (2).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेव n. (either fr. सेव्or सिव्) g. पचा-दि= सेवि1 , an apple L.

"https://sa.wiktionary.org/w/index.php?title=सेव&oldid=505782" इत्यस्माद् प्रतिप्राप्तम्