गोधूम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधूमः, पुं, (गुध्यते वेष्ट्यते त्वगादिभिः । गुध + “गुधेरूमः ।” उणां । ५ । २ । इति ऊमः ।) नागरङ्गः । ओषधीविशेषः । ब्रीहिभेदः । इति मेदिनी ॥ मे । ४३ । गम गोम् इति च भाषा ॥ शेषस्य पर्य्यायः । बहुदुग्धः २ अपूपः ३ स्नेच्छ- भोजनः ४ यवनः ५ निस्तुषक्षीरः ६ रसालः ७ सुमनाः ८ । (यथा, मनुः । ५ । २५ । “यवगोधूमजं सर्व्वं पयसश्चैव विक्रियाः ॥”) अस्य गुणाः । स्निग्धत्वम् । मधुरत्वम् । वात- पित्तदाहनाशित्वम् । गुरुत्वम् । श्लेष्ममदबल- रुचिवीर्य्यकारित्वञ्च । इति राजनिर्घण्टः ॥ बृंहणत्वम् । जीवनहितत्वम् । शीतत्वम् । भग्न- सन्घानस्थैर्य्यकारित्वम् । सारकत्वञ्च । इति राजवल्लभः ॥ (अथ गोधूमस्य नामानि लक्षणं गुणाश्च । “गोधूमः सुमनोऽपि स्यात् त्रिविधः स च कीर्त्तितः । महागोधूम इत्याख्यः पश्चाद्देशात् समागतः ॥ महागोधूमः वड गोधूमा इति लोके । मधुली तु ततः किञ्चिदल्पा सा मध्यदेशजा । निःशूको दीर्घगोधूमः क्वचिन्नन्दीमुखाभिधः ॥ गोधूमो मधुरः शीतो वातपित्तहरो गुरुः । कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत् सरः ॥ जीवनो बृंहणो वर्ण्यो व्रर्ण्यो रुच्यः स्थिरत्वकृत् । कफप्रदो नवीनो न तु पुराणः । पुराणयवगोधूमः क्षौद्रजाङ्गलशूलभागिति । वाग्भटेन वसन्ते गृहीतत्वात् । मधुली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः । शुक्रला बृंहणी पथ्या तद्बन्नन्दीमुखः स्मृतः ॥”) इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधूम पुं।

गोधुमः

समानार्थक:गोधूम,सुमन

2।9।18।1।2

सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ। स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः॥

वैशिष्ट्य : गोधुमधान्योद्भवक्षेत्रम्

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधूम¦ त्रि॰ गुध--ऊम।

१ नागरङ्गे

२ व्रीहिभेदे च (गोहुम)च मेदिनिः तद्भेदादि भावप्र॰ उक्तं यथा
“गोधूमः सुम-नोऽपि स्यात् त्रिविधः स च कीर्त्तितः। महागोधूमइत्याख्यः पश्चाद्देशात् समागतः। मधूली तु ततः कि-ञ्चिदल्पा सा मध्यदेशजा। निःशूको दीर्घगोधूमः क्व-चिन्नन्दोमुखाभिधः। गोधूमो मधुरः शीतो वातपित्त-हरो गुरुः। कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत्-सरः। जीवनो वृंहणो वर्ण्योरुच्यो वीर्यस्थिरत्वकृत्। कफप्रदः नवीनो न च पुराणः पुराणयवगोघूमक्षौद्रजाङ्गलशूल्यभुगिति” वाग्भटेन वसन्ते गृहीत-त्वात्। मधूली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः। शुक्रला वृंहणी पथ्या तद्वन्नन्दीमुखा स्मृता” तस्यकृतान्नशब्दे

२१

८१ पृ॰ पाकविशेषो दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधूम¦ m. (-मः) Wheat: see the next. E. गुध्-वाº उम |

गोधूम¦ m. (-मः)
1. Wheat.
2. The orange.
3. The name of a drug. E. गुध् to surround, and ऊम Unadi aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधूम/ गो--धूम m. ( गुध्Un2. )" earth-smoke " , wheat (generally pl. ) VS. TBr. i S3Br. v (sg.) , xii , xiv S3a1n3khS3r. Mn. etc.

गोधूम/ गो--धूम m. the orange tree L.

गोधूम/ गो--धूम m. N. of a medicinal plant L.

गोधूम/ गो-धूम etc. See. गो, p. 365 , col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--fit for श्राद्ध. Vi. I. 6. २१, २४; II. १५. ३०; VI. 1. ३८; III. १६. 6.

"https://sa.wiktionary.org/w/index.php?title=गोधूम&oldid=499372" इत्यस्माद् प्रतिप्राप्तम्