हिमालयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमालयः, पुं, (हिमस्य आलय इव शुक्लत्वात् ।) शुक्लखदिरः । इति शब्दचन्द्रिका ॥ (हिमा- नामालयः ।) स्वनामख्यातपर्व्वतः । तत्पर्य्यायः । नगपतिः २ मेनाधवः ३ उमागुरुः ४ । इति त्रिकाण्डशेषः ॥ हिमाद्रिः ५ नगाधिपः ६ । इति जटाधरः ॥ उदगद्रिः ७ अद्रिराट् ८ मेनकाप्राणेशः ९ हिमवान् १० हिमप्रस्थः ११ भवानीगुरुः १२ । इति हेमचन्द्रः ॥ (यथा, कुमारे । १ । १ । “अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्व्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥”) स तु लङ्काया उत्तरे वर्त्तते । भारतवर्षस्य सीमापर्व्वतोऽयम् । अस्य दीर्घे दशसहस्रयोज- नानि । प्रस्थे द्विसहस्रयोजनानि । यथा, -- “एवं दक्षिनेनेलावृतं निषधो हेमकूटो हिमा- लयः इति प्रागायता यथा नीलादयः । अयुत- योजनोत्सेधा हरिवर्षकिंपुरुषभारतानां यथा- संख्यम् ।” इति श्रीभागवते ५ स्कन्धे १६ अः ॥

"https://sa.wiktionary.org/w/index.php?title=हिमालयः&oldid=181399" इत्यस्माद् प्रतिप्राप्तम्