जीर्णोद्धार
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जीर्णोद्धारः, पुं, (जीर्णानां भग्नमन्दिरादीनां उद्धारः संस्कारः ।) भग्नमन्दिरादेः संस्कारः । यथा, विष्णुधर्म्मोत्तरतृतीयकाण्डे । “यस्य राज्ञस्तु विषये देववेश्म विशीर्य्यते । तस्य सीदति तद्राज्यं देववेश्म यथा तथा ॥ कृत्वा शीर्णस्य संस्कारं तथा देवेशवेश्मनि । द्बिगुणं फलमाप्नोति नात्र कार्य्या विचारणा ॥” विष्णुरहस्ये । “पतितस्य च यः कर्त्ता पतमानस्य रक्षिता । विष्णोरायतनस्येह स नरो विष्णुलोकभाक् ॥” अग्निपुराणे । “पतितं पतमानन्तु तथार्द्धस्फुटितं नरः । समुद्धृत्य हरेर्धाम द्बिगुणं फलमाप्नुयात् ॥” देवीपुराणे । “मूलाच्छतगुणं पुण्यं प्राप्नुयाज्जीर्णकारकः । तस्मात् सर्व्वप्रयत्नेन जीर्णस्योद्धारमाचरेत् ॥” हयशीर्षपञ्चरात्रे । “वापीकूपतडागानां सुरधाम्नां तथानघ ! । प्रतिमानां सभानाञ्च संस्कर्त्ता यो नरो भुवि ॥ पुण्यं शतगुणं तस्य भवेन्मूलान्न संशयः । प्रतिष्ठाया विधिः कार्य्यस्तथा मन्दिरनिर्म्मिते ॥ प्रायः श्रीहयशीर्षोक्तेरनुसारेण वैष्णवैः । देवालयप्रतिष्ठा च ख्याता तल्लिखनेन किम् ॥ श्रीमूर्त्तिस्थापनेनैव संपूर्णा सा विशेषतः । देवगृहं देवतायाः प्रतिष्ठाविधिना सदा ॥ संस्कार्य्यं मनुजानान्तु समुदायोक्तकर्म्मणा ॥” इति श्रीहरिभक्तिविलासे २० विलासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जीर्णोद्धार¦ पु॰ जीर्णस्य पूर्वप्रतिष्ठापितलिङ्गादेरुद्धारः।
१ पूर्वप्रतिष्ठापितलिङ्गादेः भग्नतादौ स्वस्थानादुद्धारेतद्विधानम् अग्निपु॰
६७ अ॰ उक्तं यथा। (
“भगवान् उवाच। जीर्णोद्धारबिधिं वक्ष्ये भूषितांस्नपयेद् गुरुः। अचलां बिन्यसेद् गेहे अतिजीर्णां परि-त्यजेत्। व्यङ्गां भग्नां च शैलाढ्यां न्यसेदन्यां च पूर्व-वत्। संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः। सहस्रं नरसिहेन हुत्वा तामुद्धरेद् गुरुः। दारबीं दाहये-द्वह्नौ शैलजां प्रक्षिपेज्जले। धातुजां रत्नजां वापि अगतधेवा जलेऽम्बुधौ। यानमारोप्य जीर्णाङ्गं छाद्य वस्त्रा-दिना नयेत्। वादित्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत्। यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेत् पुनः। कूप-वापीतडागादेर्जीर्णोद्धारे महाफलम्” नि॰ सि॰ विशेषो यथा(
“अथ जीर्णोद्धारः स च लिङ्गादौ दग्धे भग्ने चलितेवा कार्य्यः। अयं चानादिसिद्धप्रतिष्ठितलिङ्गादौ भङ्गा-दिदुष्टेऽपि न कार्यः। तत्र तु महाभिषेकं कुर्य्यादितित्रिविक्रमः। कर्त्ताऽमुकदेवस्य जीर्णोद्धारं करिष्ये इत्युक्त्वापुण्याहं वाचयित्वा आचार्य्यमृत्विजश्च वृत्वा लिङ्गेओं व्यापकेश्वरहृदयाय नमः ओं व्यापकेश्वरशिरसेस्वाहेत्येवं षडङ्गं कृत्वाऽघोरमन्त्रं शतं जप्त्वाऽग्निंप्रतिष्ठाप्याधोरेण घृतसर्षपैः सहस्रं हुत्वा इन्द्रादिभ्योनाम्ना वलिं दत्त्वा जीर्णदेवं प्रणवेन संपूज्य ब्रह्मादि-मण्डलदेवतानां होमं पूर्वोक्तं कृत्वा देवं प्रार्थयेत।
“जीर्णभग्नमिदं चैव सर्वदोषावहं नृणाम्। अस्योद्धारेकृते शान्तिः शास्त्रेऽस्मिन् कथिता त्वया। जीर्णोद्धार-विधानञ्च नृपराष्ट्रहितावहम्। तदधस्तिष्ठतां देव! प्रह-रामि तवाज्ञयेति”। ततः क्षीराज्यमधुदूर्वाभिः समिद्भिश्चा-ष्टोत्तरसहस्रं शतं वा देवमन्त्रेण हुत्वाऽङ्गानां दशांशेनलिङ्गचालनार्थं सहस्रं शतं वा पायसेन हुत्वा लिङ्गंप्रार्थयेत।
“लिङ्गरूपं समातत्य येनेदं समधिष्ठितम्। यायास्त्वं संमितं स्थानं सन्त्यज्यैव शिवाज्ञया। अत्रस्थाने च या विद्या सर्वविद्यैश्वरैर्युता। शिवेन सहसंतिष्ठेति” मन्त्रितजलेनाभिषिच्य विसर्जयेत्। ततोऽस्त्र-मन्त्रितेन स्वनित्रेण खात्वा लिङ्गमानीय नद्यादौ वाम-देवेन लिङ्गं प्रणवेन मूर्त्तिं क्षिपेत्। दारुजन्तु मधुना-ऽभ्यज्याधोरेण दहेत्। हेमरत्नादिमयन्तु दग्धं चलितं[Page3125-a+ 38] वा पुनस्तत्रैव स्थापयेत। ततः शान्त्यै अघोरेण तिलैःसहस्रं हुत्वा प्रार्थयेत।
“भगंवान् भूतभव्येश! लोक-नाथ! जगत्पते!। जीर्णलिङ्गसमुद्धारः कृतस्तवाज्ञयामया। अग्निना दारुजं दग्धं क्षिप्तं शैलादिकं जले। प्रायश्चित्ताय देवेश! अघोरास्त्रेण तर्पितम्। ज्ञान-तोऽज्ञानतो वापि यथोक्तं न कृतं यदि। तत्सर्वंपूर्णमेवास्तु त्वत्प्रसादान्महेश्वरेति”। ततो यजमानःपार्थयेत।
“गोविप्रशिल्पिभूतानामाचार्य्यस्य च यज्वनः। शान्तिर्भवतु देवेश! अच्छिद्रं जायतामिदम्”। मूर्त्तौतु विशेषः।
“त्वत्प्रसादेन निर्विध्नं देहं निर्माप-यत्यसौ। वासं कुरु सुरश्रेष्ठ! तावत्त्वं चाल्पके गृहे। वसन् क्लेशं सहित्वेह मुर्त्तिं वै तव पूर्बवत्। यावत्कारयेत् भक्तः कुरु तस्य च वाञ्छितमिति”। ततो नवांमूर्त्तिं लिङ्गं वा कृत्वोक्तविधिना स्थाषयेत्। भग्नमन्दिरादेः
२ संस्कारे च स च विष्णुधर्मोत्तरे तृतीय-काण्डे उक्तो यथा
“यस्य राज्ञस्तु विषये देववेश्म विशी-र्य्यते। तस्य सीदति तद्राज्यं देववेश्म यथा तथा। कृत्वा जीर्णस्य संस्कारं तथा देवेशवेश्मनि। द्विगुणंफलमाप्नोति नात्रं कार्थ्या विचारणा”। विष्णुरहस्ये
“पतितस्य च यः कर्त्ता पतमानस्य रक्षिता। विष्णोरा-यतनस्येह स नरो विष्णुलोकभाक्” अग्निपुराणे
“पतितं पतमानन्तु तदार्द्धस्फुटितं नरः। समुद्धृत्यहरेर्धाम द्विगुणं फलमाप्नुयात्” देवीपुराणे
“मूला-च्छतगुणं पुण्यं प्राप्नुयाज्जोर्णकारकः। तस्मात् सर्व-प्रयत्नेन जीर्णस्योद्धारमाचरेत्”। हयशीर्षपञ्चरात्रे
“वापीकूपतडागानां सुरधाम्नां तथानघ!। प्रतिमानांसमानाञ्च संस्कर्त्ता यो नरो भुवि। पुण्यं शतगुणंतस्य भवेन्मूलान्न संशयः। प्रतिष्ठाया विधिः कार्य्य-स्तथा मन्दिरनिर्मिते। प्रायः श्रीहयशीर्षोक्तेरनुसारेणवैष्णवैः। देवालयप्रतिष्ठा च ख्याता तल्लिखनेन किम्। श्रीमूर्त्तिस्थापनेनैवं संपूर्णा सा विशेषतः। देवगृहंदेवतायाः प्रतिष्ठाविधिना सदा। संस्काय्यं मनुजा-नान्तु समुदायोऽस्य कर्म्मणा” हरिभक्ति॰
२० विलासः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जीर्णोद्धार¦ m. (-रः) Repairing, renewal, repairs. E. जीर्ण and उद्धार lifting up.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जीर्णोद्धार/ जीर्णो m. repairing what is ruined (in a building) Hcat. i , 3 , 893
जीर्णोद्धार/ जीर्णो m. Devi1P. Sin6ha7s. Introd. 29/30
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
JĪRṆODDHĀRA : Erection and consecration of images fixed in temples which have fallen into dilapidation, is called Jīrṇoddhāra. Mention is made in Agni Purāṇa, Chapter 67, about the principles of Jīrṇoddhāra, as follows:
The priest should adorn the image with ornaments and perform ‘Stavana’. If the idol is very badly ruined by age it must be abandoned. Broken image and that with any part of the body severed or disfigured should also be abandoned, even if it is made of stone or any other material. When the image is renovated the priest should make burnt offerings thousand times with Narasiṁhamantra (spell or incantation). If the ruined image is made of wood it should be burned. If it is made of stone it should be placed at the bottom of deep water, either in the sea or anywhere else. If it is made of metals or jewels, it must be put into water. The ruined image should be placed in a carriage and covered with a cloth. With instrumental music and so forth the image should be taken to water in a pro- cession and then submerged in water. After this the priest must be given a gift. Only after this should the new image be erected and consecrated. On a good day in an auspicious moment a new image of the same material and measurement as of the old image should be erected and consecrated by the priest.
_______________________________
*1st word in left half of page 358 (+offset) in original book.