सङ्गम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गमः, पुं, क्ली, (सं + गम + “ग्रहवृदृनिश्चि- गमश्च ।” ३ । ३ । ५८ । इति अप् ।) सङ्गः । इत्यमरः ॥ (यथा, साहित्यदर्पणे । “सङ्गमविरहविकल्पे वरमिह विरहो न सङ्गमस्तस्याः । सङ्गमे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥”) नद्यादिमेलकः । इति पुंनपुंसकलिङ्गसंग्रह- टीकायां भरतः ॥ स्त्रीपुंसोर्म्मिथुनीभावः । स त्रिविधः । प्रथमः १ । मध्यमः २ । उत्तमः ३ । यथा, -- “त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् । अदेशकालभाषाभिर्निर्ज्जने च परस्त्रियाः । कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम् ॥ १ ॥ प्रेरणं गन्धमाल्यानां धूपभूषणवाससाम् । प्रलोभनञ्चान्नपानैर्म्मध्यमं साहसं स्मृतम् ॥ २ ॥ सहासनं विविक्तेषु परस्परसमाश्रयः । केशाकेशिग्रहश्चैव सम्यक्संग्रहणं स्मृतम् ॥” ३ ॥ इति मिताक्षराधृतव्यासवचनम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गम पुं।

सङ्गमम्

समानार्थक:मेलक,सङ्ग,सङ्गम

3।2।29।2।6

निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने। आदीनवास्रवौ क्लेशे मेलके सङ्गसङ्गमौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गम¦ पु॰ सम् + गम--घञ् ग वृद्धिः।

१ सङ्गतौ

२ स्त्रीपुं-सयोः संभोगे पु॰ न॰ अमरः।

३ नद्यादेर्नदादियोतस्यानेच
“गङ्गासागरसङ्गमः” इति पुराणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गम¦ m. (-मः)
1. Meeting, union, mixture, junction, the encounter of persons, the association of friends or lovers, the confluence of rivers, the fitness or adaptation of two things to each other, &c.
2. (In astronomy,) Planetary conjunction.
3. Touch, contact.
4. society, company.
5. Sexual intercourse.
6. Fitness, adaptation. E. सम् together, like, suitably, गम going: see also सङ्ग, सङ्गत, सङ्गति, &c.

"https://sa.wiktionary.org/w/index.php?title=सङ्गम&oldid=382926" इत्यस्माद् प्रतिप्राप्तम्