सामग्री पर जाएँ

कुण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डम्, क्ली, (कुणतीति । “ञमन्तात् डः” । उणां १ । ११३ । इति डः ।) मानभेदः । (कुण्ड्यते रक्ष्यते जलं यत्र । कुडि + अधिकरणे अप् ।) देवजलाशयः । इति मेदिनी ॥ जलाधारविशेषः । चौवाच्चा इति भाषा ॥ तज्जलगुणाः । अग्निकफकारित्वम् । रूक्षत्वम् । मधुरत्वम् । लघुत्वञ्च । इति राजनिर्घण्टः ॥ कफा- जनकत्वम् । इति राजवल्लभः ॥ * ॥ (पात्रविशेषः । यथा, रघौ १ । ८४ । “भुवं कोष्णेण कुण्डोध्नी मेध्येनावभृतादपि” ॥) न्यसेत् परिधिमन्यश्चेदुदगग्रः स पूर्ब्बतः” ॥

कुण्डम्, क्ली स्त्री, (कुण्ड्यते रक्ष्यते मक्ष्यादि अस्मिन् । कुडि रक्षणे + अच् ।) स्थाली । इत्यमरभरतौ ।

कुण्डः, पुं, (कुण्ड्यते दह्यते कुलं अनेन । कुडि-दाहे + करणे-घञ् ।) अमृते भर्त्तरि जारजः । जीवति भर्त्तरि उपपतिजातः । इत्यमरः । २ । ६ । ३६ ॥ स्वामी वा~चिया थाकिते उपपतिजात विजन्म सन्तान इति भाषा ॥ (यथा मनुः ३ । १७४ । “पत्यौ जीवति कुण्डः स्यान्मृते भर्त्तरि गोलकः” ॥ सर्पविशेषः । यथा महाभारते । १ । १२३ । ६८ । “कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ड पुं।

जीवति_पत्यौ_जारजातः_पुत्रः

समानार्थक:कुण्ड

2।6।36।1।1

अमृते जारजः कुण्डो मृते भर्तरि गोलकः। भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

कुण्ड नपुं।

स्थाली

समानार्थक:पिठर,स्थाली,उखा,कुण्ड

2।9।31।2।4

अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका। पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ड¦ न॰ कुण्ड्यते रक्ष्यते जलं वह्निर्वाऽत्र कुडि--रक्षणे आधा-रे--अच्णिलोपः। जलाधारे वृत्ताकारे

१ पात्रभेदे(कुण्डा)
“भुवं कोष्णेन कुण्डोध्नी” रघुः
“अत्सरुका कुण्डप्रतिरूपाश्चमसाः” कात्या॰ श्रौ॰

२४ ,

४ ,

४ ,
“अत्सरुकाः अवृ-न्तकाः कुण्डप्रतिरूपा वृत्ताकाराः” कर्कः।

२ देवादिखात-जलाशये अगस्त्यकुण्डं सप्तर्षिकुण्डं सोमकुण्डम्

३ कमु-ण्डलौ स्त्री गौरा॰ ङीष्मेदि॰। होमार्थमग्न्याधारे

४ स्था-नभेदे। तल्लक्षणादिकं हेमा॰ दा॰ ख॰ दर्शितं तथा।
“भविष्यत्पुराणे
“वेदिपादान्तरंत्यक्त्वा कुण्डानि नव पञ्च[Page2077-a+ 38] वा। वेदास्राण्येव तानि स्युर्व्वर्त्तुलान्यथ वा क्वचित्। वेदास्राणि, चतुरस्राणि। आम्नायरहस्ये
“कुण्डानिचतुरस्राणि वृत्तनालाकृतीनि वा। नव पञ्चाथ वा चैकंकर्त्तव्यं लक्षणान्वितम्। नवकुण्डविधाने तु दिक्षु कुण्डा-ष्ठके स्थिते। नवमं कारयेत् कुण्डं पूर्वेशानदिगन्तरे। विधाने पञ्च कुण्डानामीशाने पञ्चमं भवेत्”। ज्ञानरत्ना-वल्याम्
“दिक्षु वेदास्रवृत्तानि पञ्चमं त्वीशगोचरे”। ना-रदीयेऽपि
“यत्रोपदिश्यते कुण्डचतुष्कन्तत्र कर्म्मणि। वेदास्रमर्द्धचन्द्रञ्च वृत्तं पद्मनिभं तथा। कुर्यात् कुण्डानिचत्वारि प्राच्यादिषु विचक्षणः। कुण्डवेद्यन्तरञ्चैवसपादकरसम्मितम्। पीठबद्धन्तु यत्कुण्डं सुप्रमाणंसुगर्त्तकम्”। बह्वृचपरिशिष्टे
“भुक्तौ मुक्तौ तथा पुष्टौजीर्ण्णोद्धारे विशेषतः। सदा होमे तथा शान्तौ वृत्तंवरुणदिग्गतम्”। कामिके तु तत्तद्दिक्षु तत्तत्फलार्थंकुण्डोक्तिर्यथा ऐन्द्य्रां--स्तम्भे चतुष्कोणमग्नौ भागेभगाकृति। चन्द्रार्द्धं मारणे याम्ये, नैरृते हि त्रिकोणकम्। वारुण्यां शान्तिके वृत्तं, षडस्र्युच्चाटनेऽनिले। उदीव्यांपौष्टिके पद्मं रौद्र्यामष्टास्रमुक्तिदम्”। सर्वेषु चैतेषुहोमानुसारेण हस्तादिमानं क्षेत्रफलमुपकल्पनीयम्। तदुक्तं भविष्यपुराणे
“मुष्टिमानं शतार्द्धे तु शते चारत्नि-मात्रिकम्। सहस्रे त्वथ होतव्ये कुर्यात्कुण्डं करात्मकम्। द्विहस्तमयुते तच्च लक्षहोमे चतुःकरम्। अष्टहस्तात्मकंकुण्डं कोटिहोमेषु नाघिकम्”। मुष्टिमानमिति, बद्धमु-ष्टिहस्तमात्रमित्यर्थः। इदानीं चतुरस्रादिकुण्डानामुद्धा-रक्रमोऽभिधीयते। चतुरस्रं तावदाह विश्वकर्म्मा
“कृत्वाप्राक् सूत्रमर्द्धाङ्कं दक्षिणोत्तरमत्स्ययोः। न्यस्य सूत्रं ततःकोणैरङ्कितैश्चतुरस्रकम्”। पूर्व्वङ्केनाप्युपायेन प्राचींनिश्चित्य प्राक्पश्चिमायातां रेखामालिख्य तामर्द्धभागेलाञ्छयित्वा दक्षिणोत्तरदिशोर्स्मत्स्यद्वयं कुर्य्यात् सूत्रोपरिसूत्रान्तरनिपातनात् स्वस्तिकमध्याकृतिः शिल्पशास्त्रेषुमत्स्य इत्युच्यते। मत्स्यद्वयनिष्पत्तिश्चात्रैवं कार्य्या। पूर्वो-क्तरेखापरिमितस्य सूत्रस्यादिं तस्याएव रेखाया मूलेनिधाय तत्सूत्रान्तरं परिभ्राम्य वृत्तं रचयेत् तस्या एव-रेखाया अपरप्रान्ते तस्यैव सूत्रस्यादिं निधाय तत्सूत्रान्तं परिभ्राम्य द्वितीयान्तं कुर्य्यात् एवं वृत्तद्वये कृते द-क्षिणोत्तरदिशोर्मत्स्यद्वयं निष्पद्यते अथ मत्स्यद्वये पूर्वोक्त-रेखालाञ्छने चैकं सूत्रं निष्पात्य दक्षिणोत्तरायतां रेखांलिखेत्। एवं दिक्ष साधितासु विदिक्साधनार्थं कोणान्[Page2077-b+ 38] लाञ्छयेत्। तत्रायं प्रकारः--पूर्वनिष्पन्नरेस्वाप्रान्तच-तुष्टयस्य प्रत्येकं पार्श्वद्वये चिकीर्षितपरिमाणस्यार्द्धमर्द्धंनिधाय तत्सन्धौ कोणलाञ्छनानि कुर्य्यात् ततः कोणला-ञ्छनेषु सूत्रचतुष्टयनिपातनात् पूर्वदिश्युदङ्मुखयोनिकंचतुरस्रं कुण्डं कुर्य्यात्। योन्याकारादीनामुद्धारश्चतु-रस्रप्रकृतिकस्तु कामिकशास्त्रात्
“पञ्चमांशं पुरोन्यस्यमध्ये वेदांशमानतः। भ्रमादश्वत्थपत्रामं कुण्डमाग्नेय-मुच्यते”। क्षेत्रस्य पञ्चमभागं पुरःप्राच्यां दिशि विन्यस्यमध्ये कोणसूत्रस्येति शेषः। वेदांशः, तुरीयांशः। भ्रमात्, सूत्रान्तपरिभ्रमणेन अश्वत्थपत्राकारं कुण्डमाग्ने-यदिशि कुर्य्यादिति। तत्रायं निर्म्माणप्रकारः पूर्वोक्त-न्यायेन समचतुरस्रीकृतस्य क्षेत्रस्य पश्चिमरेखामध्यात्पूर्वरेखामध्यभेदिनीं क्षेत्रसूत्रपञ्चमांशाधिकां गर्भरेखा-मालिख्य नैरृत्यदेशे कोणसूत्रन्तुरीयांशे लाञ्छयित्वातल्लाञ्छनोपरि विन्यस्तादेः सूत्रस्य पूर्वोक्तगर्भरेखामूलवि-न्यस्तं प्रान्तं परिभ्राम्य बहिर्वृत्तार्द्धं निष्पाद्य वायव्यको-णेऽप्येवमेव वृत्तार्द्धं रचयेत्। ततो गर्भरेखाप्रान्तात्वृत्तद्वयप्रान्तस्पर्शि सूत्रद्वयं निपात्य पिष्पलपत्राकार-माग्नेयदिश्युदङ्मुखयोनिकं योनिकुण्डं विदध्यात्।
“चतुरस्रे ग्रहैर्भक्ते त्यक्त्वाद्यन्तौ तदं शकौ। मध्यसप्तांश-माने तु कुण्डं खण्डेन्दुवत् क्रमात्”। चतुरस्रे क्षेत्रेग्रहैर्नवभिर्विभक्ते आद्यन्तौ त्यक्त्वा अवशिष्टसप्तमांशमा-नेन सूत्रभ्रामणात् खण्डेन्दुसदृशं कुण्डं कुर्य्यात्। अत्रैवंकृतिः--चतुरस्रं क्षेत्रं नवधा विभज्य तत्र प्रयमोऽन्ति-मश्चेति भागद्वयं परिमृज्य अवशिष्टसप्तभागादिमरेखाग-र्भदेशे सूत्रादिं निधाय तस्यैव भागसप्तकस्यान्तिमरेखाग-र्भदेशे सूत्रान्तं निवेश्य तत्सूत्रपरिभ्रामणेन प्रथमरेखातुल्यंविश्रान्तप्रान्तवृत्तार्द्धं विरचयेत्। अथ प्रथमरेखाप्रान्तद्वय-मपि वृत्तार्द्धे संयोज्य दक्षिणदिगवस्थितमुत्तराशाभिमुखयोनिकं कुण्डं चन्द्रखण्डं विदध्यात्।
“त्रिभागवृद्धितो म-त्स्यैस्त्रिभिर्नैशाचरं भवेत्”। स्थानत्रये तृतीयांशत्रयंवृद्ध्या मत्स्यत्रयेण नैशाचरं नैरृत्यदिक्सम्बन्धि कुण्डंकुर्य्यात्। इहायं सम्प्रदायः। पूर्ववत्समचतुरस्रं क्षेत्रंनिर्म्माय तत्तिरश्चीनपश्चिमरेखामध्यात् तिर्य्यगवस्थितपूर्व-रेखामध्यभेदिनीं क्षेत्रसूत्रतृतीयभागाधिकां गर्भरेखामा-लिख्य पूर्वोक्तपश्चिमरेखाप्रान्तद्वयमपि क्षेत्रसूत्रवषीयभा-गाधिकं कुर्य्यात् ततो गर्भरेखाप्रान्तात् पूर्वोक्तपश्चिमरे-खाप्रान्तद्वयमपि क्षेत्रसूत्र तृतीयभागाधिकं कुर्य्यात्। [Page2078-a+ 38] ततो गर्भरेखाप्रान्तात् पूर्वोक्तपश्चिमरेखाप्रान्तद्वयस्पर्शिसू-त्रद्वयं निपात्य नैरृत्यदिशि पूर्वाभिमुखयोनिकं त्रिकोणंकुण्डमुत्पादयेत्। एवञ्च विधीयमाने स्यानत्रये तृतीयां-शत्रयवृद्धिस्तत्रैव मत्स्यत्रयमपि निष्पद्यत इति।
“कर्म्मा-र्द्धाष्टांशसंन्यासाद्वृत्तं कुण्डमिहोदितम्। कर्म्मसूत्रार्द्धस्ययोऽष्टमांशस्तस्य संन्यासात् सम्यक् न्यासात् वृत्तं कुण्डंस्यादिति। अत्रैवं रचनाप्रकारः चतुरस्रे क्षेत्रेकोणात् कोणान्तरगामिनः सूत्रस्यार्द्धं कोणार्द्धशब्दवाच्य-मष्टधा विभज्य यावानष्टमो भागस्तावन्तं भागं चतु-र्द्दिक्षु बहिर्विन्यसेत्। ततः क्षेत्रगर्भदेशे सूत्रादिंनिधाय वहिःस्थिताष्टमभागविन्यस्तं तस्यैव सूत्रस्य प्रान्तंसर्वतः परिभ्राम्य पश्चिमदिशि पूर्वाभिमुखयोनिकं वृत्तकुण्डंकुर्य्यात्।
“षड्भागवृद्धितो मत्स्यैश्चतुर्भिः स्यात् षडस्रकम्” क्षेत्रपार्श्वयोः प्रत्येकं षष्ठभागवृद्धं कृत्वा अवशिष्टदिशो-र्मत्म्यचष्टयमुत्पाद्य सूत्रषड्कुपातात् षडस्रकुण्डनिष्पत्ति-रिति। अत्रैवं सम्प्रदायः--समचतुरस्रं क्षेत्रं षोढाविभज्य यावान् षष्ठोभागस्तावता मानेन क्षेत्रस्य दक्षि-णोत्तरपार्श्वे समन्ताद्वर्द्धयित्वा तदेव क्षेत्रमायतचतुरस्रंसम्पादयेत्। अथानन्तरोक्तपार्श्वद्वयरेखास्पर्शिनीं दक्षि-णोत्तरायतां गर्भरेखां रचयेत्। ततः क्षेत्रमध्यादुत्तर-पांर्श्वरेखामध्याच्च पूर्वोक्तगर्मरेखार्द्धपरिमितमेकैकं सूत्रंनिपात्य पूर्वोशानदिशोरन्तराले मत्स्यमुत्पाद्य तेनैव प्रका-रेण पश्चिमवायव्ययोरन्तराले मत्स्यं कुर्य्यात्। अथ भूयोऽ-पि क्षेत्रमध्याद्दक्षिणपार्श्वरेखामध्याच्च प्रागुक्तगर्भरेखा-प्रान्तद्वयात् लाञ्छनचतुष्टयस्पर्शिसूत्रचतुष्टयं निपा-तयेत्। एवं लाञ्छनानन्तरालस्थितसूत्रद्वयेन सह सूत्र-षट्कयोगाद्वायव्यदिशि प्राङ्मुखयोनिकं षट्कोणकुण्डं कु-र्य्यात्।
“चतुरस्राष्टभागेन कर्णिका स्याद्विभागशः। तद्ब-हिस्त्येकभागेन केसराणि प्रकल्पयेत्। तृतीये दलमध्यानितुरीये दलकोटयः। भ्रामणात् पद्मदलं स्याद्दलाग्रं दर्श-येद्बहिः”। चतुरस्रस्य अष्टधा विभक्तस्य मध्ये अष्टमभा-गेन कर्णिका स्यात् कर्णिकाया बहिः परिधिस्थे द्वितीयेअष्टमभागे विन्यासे केसराणि स्यः। केसराद्वहिः परिधि-स्थिते तृतीये अष्टमभागे विन्यासे दलमध्यानि कल्प-यित्वा चतुर्थे दलकोटीं विधाय चतुरस्राद्बहिर्द्दला-ग्राणि दर्शयेत्। अत्राप्यष्टमभागेनेति सम्बध्यते। विभा-गश॰ विभागे विभागे सर्वदिग्भागेष्वित्यर्थः। भ्रामणात्,-सूत्रस्येति शेषः एतच्च पद्मदलं सर्वत्र योजनीयम्। [Page2078-b+ 38] अयमर्थः--चतुरस्रं क्षेत्रं प्रागग्राभिरुदगग्राभिश्च रेखा-भिरष्टधा विभज्य मध्यदेशे लाञ्छयित्वा क्षेत्राद्बहिश्च-तुर्द्दिक्षु समन्तादपरमष्टभागं विन्यसेत् सत्येवं लाञ्छ-नात् परितः प्रतिदिशं पञ्चपञ्चाष्टमभागावधिरेखा भवन्ति। ततः पूर्वोक्तलाञ्छनोपरि विन्यस्तादेस्तत्तद्रेखाविन्यस्त-प्रान्तस्य च सूत्रस्य परिभ्रामणात् पञ्च वृत्तानि सम्पाद्यवृत्तातिरिक्तरेखाः परिमार्ज्जयेत्। ततः प्रथमे वृत्ते कर्णि-का द्वितीये केसराणि तृतीये दलमध्यानि चतुर्थे दलको-टयः पञ्चमे दलाग्रानोति कृत्वा अष्टदल’ पूर्वाभिमुख-योनिकं पद्मकुण्डमुत्तरदिशि कुर्य्यात्। इदानीमेतदेवकुण्डं प्रकारान्तरेणोच्यते
“वृत्तकुण्डं समं चान्यद-थवान्यप्रकारतः। वृत्तकुण्डं पुरा कृत्वा चतुर्द्धामेख-लं भजेत्। उत्सेधञ्च तथा कृत्वा कर्णिका सार्द्धकाभवेत्। अवशिष्टं दलं वेददलमष्टदलन्तु वा” यथा प्रती-च्यां दिशि वृत्तकुण्डमभिहितमिहापि तथेव कृत्वा तन्मध्येयथाविभागं पद्मकुण्डं कुर्य्यादिति। अथवेत्यादिना तृतीयःप्रकार उच्यते पूर्वं वृत्तकुण्डमेव आमेखलं प्रेखलम-वधीकृत्य अन्तश्चतुर्द्धा भजेत्। वृत्तकुण्डमध्ये अन्यस्यापि समभागस्य वृत्तत्रयस्य करणाच्चतुर्थक्षेत्रविभागःकार्य्यैत्यर्थः। ततः क्षेत्रमध्ये सार्द्धभागेन विस्तृताकर्णिका विधेया। उत्सेधञ्च तथा कृत्वेति, कर्णिकायाउच्छ्रयमपि सार्द्धभागेन कृत्वेत्यर्थः। अवशिष्टेन सार्द्धभा-गद्वयेन केसरव्यतिरिक्तानि दलान्येव कुर्य्यात्। एवञ्चतुर्द्द-लमष्टदलं वा पद्मकुण्डं कुर्य्यात्।
“क्षेत्रात् द्वादशमंभागं चतुर्द्दिक्षु तदन्तरे। विन्यस्य तत्प्रमाणेन तुर्य्यां-शमपरं नयेत्। तस्य कर्णप्रमाणेन तद्भुजास्वपि लाञ्छ-येत्। तत्राष्टसूत्रसंयोगादष्टास्रं कुण्डमुच्यते”। द्वादशधाविभक्तस्य क्षेत्रस्य यावान् द्वादशो भागस्तावन्तं भागचतुर्द्दिक्षुविन्यस्य, तदन्तरे, तस्य क्षेत्रस्य अन्तरे बहिः-प्रदेशे
“अन्तरं बहिर्योगोपर्सव्यानयोरिति” ज्ञापकादन्तर-शब्दोऽत्र बहिर्वचनः। तत् प्रमाणेनेति तस्य वहिर्विन्यस्तद्वा-दशभागस्य परिमाणेन अपरं द्वितीयं तुर्य्यास्रं चतुरस्रंनयेत् प्रणयेत् कुर्य्यात इति यावत्। तुर्य्यास्रमिति,स्वार्थिकोऽत्र पूरणप्रत्ययः। तस्य कर्णप्रमाणेनेति। कोणात् कोणान्तरस्पर्शिसूत्रं शिल्पशास्त्रेषु कर्णइति प्रसिद्धम्। इह तु क्षेत्रगर्भादारभ्य चतुष्कोण-गामिनः पृथगेव चत्वारः कर्णा इत्यभिप्रायेण कर्णार्द्ध-मपि कर्णशब्देनोक्तम् तेनायमर्थः। बाह्यस्थितचतुर-[Page2079-a+ 38] स्रस्य गर्भदेशावघिर्यावान् कर्णस्तावता मानेन तद्भुजासुतस्य कर्णस्य भुजासु लाञ्छयेत्। अत्र बाह्यचतुरस्रसूत्राण्येव कर्णोभयपार्श्ववर्त्तीनि निजभुजाकारतयाभुजाशब्देनोच्यन्ते। अयमाशयः--बाह्यचतुरस्रसम्बन्धि-न्येकस्मिन् कोणे कर्णार्द्धपरिमितस्य सूत्रस्यादिं विधायतत्सूत्रं चतुरस्ररेखोपरि प्रसार्य्य सूत्रप्रान्ते लाञ्छयेत्। एवं प्रतिकोणं सूत्रादिं निधाय प्रातिलोम्यानुलोम्येन सूत्रप्रसारणात् तत्तत्प्रान्ते लाच्छयन् प्रतिदिशं लाञ्छनद्वय-करणाद्दिक्चतुष्टयेन लाञ्छनेषु सूत्राष्टकनिपातनादष्टास्र-कुण्डं कुर्य्यादिति। अयमिह निर्म्माणप्रकारः--पूर्व-वच्चतुरस्रीकृतस्य क्षेत्रस्य बहिश्चतुर्द्दिक्ष द्वादशमं भागंविन्यस्य तत्परिमाणेन अपरं चतुरस्रं कुर्य्यात्। अथतदीयकर्णार्द्धपरिमितस्य सूत्रस्य प्रतिकोणमादिं विधायचतुरस्ररेखोपरि प्रसारणात् तत्तत्प्रान्तेषु लाञ्छयन्दिक्चतुष्टयेन लाच्छनाष्टकं कृत्वा तल्लाच्छनोपरि सूत्रा-ष्टकनिपातनादैशानदिशि पूर्वाभिमुखयोनिकमष्टास्रकुण्डंकुर्य्यात्। इदानीं दिग्नियममन्तरेणैव तत्तत्कर्म्मोपयोगि-तया विज्ञानललितोपदिष्टं कुण्डमुच्यते।
“सप्तमांशं-बहिर्न्यस्य कृत्वा वृत्तमिह भ्रमात्। चतुर्थभागान्न्यूनेनपूर्वक्षेत्रेण सम्भितैः। घनुर्ज्याकृतिभिः पञ्चसूत्रैः पञ्चा-स्रकुण्डकम्। होमे प्रशस्यते भूतशाकिनीग्रहनिग्रहे”। चतुरस्रस्य क्षेत्रश्य बहिःप्रदेशे चतुर्द्दिक्षु क्षेत्रसप्तमांशं विन्यसेत्। ततः क्षेत्रगर्भविन्यस्तादेः बाह्यस्थितसप्तमांशोपरिविन्थस्तप्रान्तस्य सूत्रस्य सर्वतः परिभ्रामणात् वृत्तं निष्पा-दयेत्। पूर्वक्षेत्रेणेति, बहिस्थितवृत्तापेक्षया, पूर्वक्षेत्रश-ब्देन आन्तरञ्चतुरस्रक्षेत्रमेवोच्यते। ततश्चायमर्थः आन्त-रचतुरस्रस्य यद्दैर्घ्यं ततः स्वकीयचतुर्थभागान्न्यूनं कृत्वायन्मानं भवति तावता मानेन परिमितं सूत्रं निधायतादृशानि पञ्च सूत्राणि बाह्यवृत्तस्यान्तर्विन्यस्य सूत्र-सन्धौ कोणं कुर्य्यात्। तानि च पञ्च सूत्राणि प्रत्येकंप्रान्तद्वयसंस्पृष्टवृत्तत्वात् धनुर्ज्याकृतीनि धनुरारूढमौ-र्वीसदृशानि स्युः। ततः पञ्चसूत्रातिरिक्तं सर्वं परिमृज्यपञ्चास्रकुण्डं रचयेत्। तच्च ग्रहनिग्रहादिहोमे प्रयो-ज्यम्।
“दशमांशं बहिर्न्यस्य कृत्वा वृत्तमिह भ्रमात्। भक्त्वा क्षेत्रं चतुःषष्ठ्या तद्भागैः त्रिंशता त्रिभिः। समा-नसूत्रं तादृक्षात् सप्तास्रं सूत्रसप्तकात्। अभिचारोपशा-न्त्यर्थं होमकुण्डमिति स्मृतम्”। इहापि चतुरस्रस्यक्षेवस्य दशमभागं चतुर्द्दिक्षु वहिर्विन्यस्य पूर्ववत् वृत्तं[Page2079-b+ 38] कुर्य्यात्। अथ पूर्वक्षेत्रं चतुःषष्ट्या विभज्य तेषां चतुः-षष्टिसंख्यानां भागानां मध्ये त्रयस्त्रिंशत्संख्यैर्भागैः परि-मितं सूत्रं कृत्वा तादृशानि सप्त सूत्राणि वृत्तस्यान्ते वि-न्यस्य सप्तास्रं कुण्डं कुर्य्यात्। अत्रापि सूत्राणां धनु-र्ज्याकारत्वं सूत्रसन्धौ कोणनिर्म्माणं सप्तसूत्रातिरिक्तप-रिमार्ज्जनं चेति पूर्ववदेव वेदितव्यम्। एतच्च कुण्डमभि-चारदोषोपशमनहोमेषु प्रयोज्यम्। आह विश्वकर्म्मा
“यावन्मात्रः कुण्डविस्तार उक्तस्तावत् खातस्यापि मानंप्रदिष्टम्। यादृक् कुण्डस्याकृतिः संप्रदिष्टा तादृग्रूपं मे-खलाया विदध्यात्। स्थापने सर्वकुण्डानां ध्वंजायः सर्व-सिद्धिदः”। सर्वेषु चैतेषु प्रोक्तमानाद्वृद्धाङ्गुलयवादि न्यू-नमतिरिक्तं वा विधाय ध्वजायः साधनीयः। विस्तारेदैर्ध्यगुणिते अष्टभिर्विभक्ते यद्येकः परिशिष्यते तदा ध्व-जाय इति।
“खातेऽधिके भवेद्रोगो हीने धेनुधनक्षयः। वक्रकुण्डे तु सन्तापो मरणं भिन्नमेखले। मेखलार-हिते शोकोऽभ्यधिके वित्तसंक्षयः। भार्य्याविनाशनं प्रोक्तंकुण्डे योन्या विना कृते। अपत्यध्वंसनं प्रोक्तं कुण्डंयत् कण्ठवर्ज्जितम्”। खातहीने भवेद्रोगः इत्यादिनाखातादिलक्षणरहितस्य कुण्डस्यानिष्टफलत्वदर्शनादि-दानीं खातादीनामेव लक्षणमभिधीयते। तद्यथा मोह-चूडोत्तरशास्त्रे
“चतुर्विंशतिमं भागमङ्गुलं परिकल्प्यतु। चतुर्विंशाङ्गुलं हस्तं कुण्डानां परिकल्पयेत्। हस्तमात्रं खनेत्तिर्य्यगूर्द्धं मेखलया सह”। मुष्टिमानंशतार्द्धे त्वित्यादिना प्रसिद्धेनैव हस्ताङ्गुलव्यवहारेणहोमानुसारात् कुण्डमानमुक्तम्। इयन्तु खातादिमानकथनार्थं परिभाषा क्रियते। चिकीर्षितकुण्डक्षेत्रं चतु-र्विंशतिधा विभज्य यावान् चतुर्विंशतिमो भागस्तावत्-परिमाणमङ्गुलं परिकल्प्य चतुर्विंशत्या अङ्गुलैर्हस्तंपरिकल्पयेत्। ततस्तेन हस्तेन परिमितं सर्वकुण्डानांतिर्य्यक्खातमानं विधाय मेखलासहितस्य खातस्य तेनैवहस्तेन परिमितमूर्द्ध्वमानंविदिध्यात्। प्रथमे उक्तम्
“कु-ण्डं जिनाङ्गुलम्। तिर्य्यगूर्द्ध्वमेखलया सह” जिनाङ्गुलंचतुर्विंशत्यङ्गुलम्। प्रतिष्ठासारसंग्रहेऽपि
“पञ्च--त्रि-मेखलोच्छ्रायां ज्ञात्वा शेषमधः खनेत्”। विश्वकर्म्मणाप्युक्तम्
“व्यासात् खातः करः प्रोक्तो निम्नस्तिथ्यङ्गुलेनतु”। तिथ्यङ्गुलानि--पञ्चदशाङ्गुलानि खार्तस्य नित्य-त्वम्।
“उन्नता सा नवाङ्गुलैरिति, वक्ष्यमाणत्वान्मेखलात्र-यपक्षे नवाङ्गुलं प्रथममेखलयोत्सेध इत्युभयोश्चतुर्विं-[Page2080-a+ 38] शत्यङ्गुलत्वम्। कण्ठमानमुक्तं कालोत्तरे
“खाताद्बाह्ये-ऽङ्गुलः कण्ठः सर्व्वकुण्डेष्वयं विधिः”। खातमेखलयोरन्तराले अङ्गुलमानेन कण्ठमोष्ठापरपर्य्यायं कुर्य्यात्। सारसमुच्चये
“खाताद्बाह्याङ्गुलः कण्ठस्तद्वाह्ये मेखलाक्रमात्। मेखलालक्षणमुक्तं कामिके”
“क्षेत्रार्कांशेनतस्यौष्ठः स्यात्तद्वेदर्नुभागतः। मेखलापृथुतोच्छ्रायःकुण्डाकारा तु मेखला। सर्वेषान्तु प्रकर्त्तव्या मेख-लैकात्र लाघवात्”। क्षेत्रस्य अर्कांशेन--द्वादशांशेन कुण्ड-स्यौष्ठः कण्ठशब्दवाच्यः स्यात् तद्वेदभागतः कुण्डचतुर्थां-शतो मेखलायाः पृथुता विस्तारः। तथा ऋतुभागतःषष्ठभागेन मेखलोच्छ्रायः कार्य्यः। पिङ्गलामतेऽपि
“खातादेकाङ्गुलं त्यक्त्वा मेखलानां स्थितिर्भवेत्। मेख-लैकाथवा तिस्रो भूतसंख्याथवा प्रिये”। भूतसंख्याः--पञ्च-संख्याः। उक्तञ्च प्रथमे
“कण्ठाङ्गुलाद्बहिः कार्य्यामेखलैका पडङ्गुला। चतुस्त्रिड्यङ्गुला यद्वा तिस्नःसर्वत्र शोभनाः”। यदा एका मेखला तदा सा विस्तारो-त्सेधाभ्यां षडङ्गुला विधेया
“एका षडङ्गुलोत्-सेधविस्तारा मेखला मतेति
“पिङ्गलोक्तेः। यदा तु गे-खलात्रयपक्षस्तदा क्रमेण चतुस्त्रिद्व्यङ्गुलमानाः कर्त्त-व्याः। मोहचूडोत्तरे
“मेखलात्रितयं कार्य्यं कोण-रामयमाङ्गुलैः। कोणाः--चत्वारः। रामाः--त्रयः। यमौ--द्वौ। तत्र सर्वान्तिमा, द्व्यङ्गुला। मध्यस्था त्र्य-ङ्गुलाः। कुण्डकण्ठसन्निहिता चतुरङ्गुला इति। सत्येवंप्रथममेखलाथाः कुण्डकण्ठादारभ्य नवाङ्गुल उत्सेधःस्या-त्। लक्षणसंग्रहेऽपि
“प्रथमाष्टाङ्गुला व्यासादुन्नता सानवाङ्गुलैः। मध्या तु त्र्यङ्गुला बाह्ये तृतीया तु यमा-ङ्गुला। मेखलाः पञ्च वा कार्य्याः षट्पञ्चाब्धित्रिपक्ष-कैः” प्रथमा कुण्डसन्निहिता आन्तरोत्सेधनवाङ्गुला वाह्येतु चतुरङ्गुलैव। अब्ध्याङ्गुला--चतुरङ्गुला। अब्धयः-चत्वारः। पक्षौ--द्वौ। योनिलक्षणमुक्तं स्वायम्भुवे
“मेखलामध्यतो योनिः कुण्डार्द्धा त्र्यंशविस्तृता। अङ्गु-ष्ठमानोष्ठकण्ठा कार्य्याश्वत्थदलाकृतिः। प्रागग्नियाम्य-कुण्डानां प्रोक्ता योनिरुदङ्मुखा। पूर्वमुखाः स्मृताः-शेषा यथाशोभं समन्विताः। मेखलाया गर्भदेशे कुण्डा-र्द्धदीर्घा कुण्डष्टतीयांशविस्तृता योनिःकार्य्या। अत्रौष्ठ-शब्देन योन्यग्रमुच्यते। कण्ठशब्देन च योनिमेखलाअङ्गष्ठशब्दः, अङ्गुलपर्य्यायः। एकाङ्गुलपरिमाणेनयोनेरग्रं मेखलाञ्च कुर्य्यादित्यर्थः
“विस्तारोऽष्टाङ्गलो[Page2080-b+ 38] योनेरग्रमङ्गुलसं मितमिति” पिङ्गलोक्तेः। नारदीयेकुण्डत्र्यंशप्रविस्तारा योनिरुच्छ्रयताङ्गुलम्। कुण्डा-र्द्धेन तु दीर्घा स्यात् कुण्डोष्ठी बोधिपत्रवत्”। कुण्डो-ष्ठीति यथा कुण्डे द्वादशांशेन ओष्ठो विहित एवंयोनेरपि द्वादशभागेन ओष्ठः कार्य्य इत्यर्थः। तथाकुण्डे प्रविष्टओष्ठो यस्या इति। बोधिपत्रम्, अश्वत्थप-त्रम्। त्रैलोक्यसारे
“दीर्घात् सूर्य्याङ्गुला नाभिस्त्र्यंशो-ना विस्तरेण तु। एकाङ्गुलोच्छ्रिता सा तु प्रविष्टाभ्यन्तरेतथा। कुम्भद्वयसमायुक्ता चाश्वत्थदलवन्मता। अङ्गुष्ठ-मेखलायुक्ता मध्ये त्वाज्यधृतिस्तथा। दक्षस्था पूर्वयाम्येतु वामस्था पश्चिमोत्तरे। नवमस्यापि कुण्डस्य योनिर्द्द-क्षदलस्थिता”। सूर्य्याङ्गुला--द्वादशाङ्गुला। त्र्यंशोनेति-दैर्घ्यतृतीयांशन्यूनविस्तारा। एकेनाङ्गुलेनोच्छ्रिता तथा,एकेनाङ्गुलेन कुण्डमध्ये प्रविष्टा। कुम्भद्वयसमायुक्तेति-पूर्व्वोक्ताग्नेयकुण्डस्य तुल्याकृतेर्योनेर्तुध्नदेशस्थितं वृत्तद्वय-मेव गजकुम्भाकृतित्वात् कुम्भशब्देनोक्तम्। तेनात्र कुण्ड-स्थलाकृतिर्वटद्वयं मृत्पिण्डद्वयं वा स्थाप्यमिति तद्ग्रा-हम्। अङ्गुष्ठमेखलेति, एकाङ्गुलमानया मेखलया परिवे-ष्टितेत्यर्थः। मध्ये त्विति, यथा श्रुचि घृतधारणया बिलंक्रियते तथा योनिमध्येऽपि बिलं कर्त्तव्यमित्यभिप्रायः। दक्षस्थेति, पूर्व्वाग्नेययाप्यकुण्डेषु दक्षिणभागे उत्तराभिमुखा योनिः कार्य्या नैरृत्यादिकुण्डेषु तु पश्चिमभागे प्राङ्मुखा विधेया। नवम इति, अष्टदिक्षु कुण्डाष्टकंविधाय पूर्वोशानदिशोरन्तराले यन्नवमं कुण्डं चतुर्द्दिक्षुवा कुण्ढचतुष्टयं कृत्वा ईशानदिशि यत् पञ्चमं कुण्डंतयोरपि दक्षिणभागेऽपि योनिः कार्य्येत्यर्थः”। ( तत्र विशेषक्षेत्रफलादिकं कुण्डोद्द्योते उक्तंयथा
“शारदातिलके
“अष्टास्वाशासु रम्याणि कुण्डान्येतान्यनुक्रमात्। चतुरस्रं योनिरर्द्धचन्द्रं त्र्यस्रञ्च वर्त्तुलम्। षडस्रं पङ्कजाकारमष्टास्रन्तानि नामतः। आचार्य्यकुण्डं-मध्येस्याद्गौरीपतिमहेन्द्रयोरिति” सिद्धान्तशेखरे
“पुर-न्दरेशयोर्मध्ये वृत्तं वा चतुरस्रकम्। तदाचार्य्यं विनि-र्द्दिष्टमिति” अयमुत्तमः पक्षः। अथ पञ्चकुण्ड्येककुण्ड-निवेशनं यथा
“आशेशकुण्डैरिह पञ्चकुण्डी चैकंयदा पश्चिमसोमशैवे। वेद्याः सपादेन करेण यद्वा पादा-न्तरेणाखिलकुण्डसंस्था” आशा--दिक् तत्र कुण्डानिचतुरस्रवृत्तार्द्धवृत्तपद्मानि ईशदिशि कुण्डं चतुरस्रं वृत्तंवा तैः पञ्चकुण्डीनिवेशनं स्यात् यदा चैकमेव कुण्डं[Page2081-a+ 38] तदा पश्चिमे उत्तरे वा ऐशान्यां वा स्यात् परन्तु चतुरस्रं,वेद्याः सकाशात्तानि सर्व्वाणि कुण्डानि सपादेन करेणत्रिंशदङ्गुलान्तरेण वा पादान्तरेण द्वादशाङ्गुलान्तरेणवा वेदीपादान्तरेण वेद्याश्चतुर्थांशेन वा मण्डपे नवकोष्ठेकृतेऽष्टसु भागेषु मध्ये भवत्तीति व्याख्या” नारदीये
“यत्रो-पदिश्यते कुण्डचतुकं तत्र कर्म्मणि। वेदास्रमर्द्धचन्द्रंच वृत्तं पद्मनिभं तथा”। चतुःकुण्डपक्षे खातोनास्ती-त्युक्तं भारदीये
“पीठवद्वर्त्तयेत्कुण्डं सुप्रमाणमगर्त्तकम्कुर्य्यात् कुण्डानि चत्वारि प्राच्यादिषु विचक्षणः। पञ्चमंकारयेत् कुण्डनीशदिग्गोचरं द्विजेति” अयं मध्यमः पक्षः। कैश्चित्पूर्व्वेशयोरिति लिखितन्तदसत् सोमशम्भौ
“एवंवा शिवकाष्ठायां प्रतीच्याङ्कारयेद्बुधः
“आचार्य्या अपि
“अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच्चतुरस्रमेकमेव” इयंकनिष्टः पक्षः। नवग्रहाधिकारे वसिष्ठसंहितायाम्
“कुण्ड-न्तन्मध्यभागे तु कारयेच्चतुरस्रकम्। वितस्तिद्वयखातं तत् कु-ण्डं तु चतुरङ्गुलमिति। वेदीपादान्तरन्त्यक्त्वा कुण्डानि नव-पञ्च वेति”। नारदीये
“कुण्डपेद्यन्तरञ्चैव सपादकरसंमित-मिति” कैश्चित्त्रयोदशाङ्गुलमप्यन्तरमुक्तं तत्र मण्डपानुसा-रेण व्यपस्था। अथ वर्णविशेषस्य स्त्रीणाञ्च कुण्डविशेषमाह
“विप्राच्छ्रुत्यस्रं च वृत्तं च वृत्तांर्द्धं त्र्यस्रं स्याद्वेदकोणानिवापि। सर्वस्याहुर्वृत्तरूपाणि चान्ये योन्याकाराण्यङ्गना-नां मतानि
“विप्रादारभ्य विप्रक्षत्रियविट्शूद्राणांचतुःकोणवृत्तवृर्त्तार्द्धत्रिकोणानि भवन्ति। अथवा विप्रादिवर्णेषु चतुःकोणानि वर्त्तुलानि वा सर्व्वाणि कुण्डानिभवन्ति यदा स्त्री यजमाना तदा योन्याकाराण्येव कुण्डानिभवन्तीति व्याख्या। शारदायाम्
“विप्राणां चतुरस्रं स्या-द्राज्ञां वर्त्तुलमिष्यते। वैश्यानामर्द्धचन्द्राभं शूद्राणां त्र्यस्र-मीरितम् चतुरस्रन्तु सर्वेषां केचिदिच्छन्ति तान्त्रिकाः”। पञ्चरात्रे
“सर्वाणि तानि वृत्तानि चतुरस्राणिवा सदा” सनत्कुमारः
“स्त्रीणां कुण्डानि विप्रेन्द्र!योन्याकाराणि कारयेदिति”। अथ प्राच्यादिकुण्डेषुफलविशेषमाह
“सिद्धिः पुत्राः शुभं शत्रुनाशःशान्तिर्मृतिच्छिदे वृष्टिमारोग्यसुक्तं हि फलं प्राच्या-दिकुण्डके” प्राच्यादिकुण्डेष्वष्टस्वष्टौ फलानि स्युः। शारदायाम्
“सर्वसिद्धिकरं कुण्डंचतुरस्रमुदा-हृतम्। पुत्रप्रदं योनिकुण्डमर्द्धेन्द्वाभं शुभप्रदम्। शत्रु-क्षयकरन्त्र्यस्रं वर्त्तुलं शान्तिकर्मणिछेदमारणयोः षष्ठंषडस्रं पद्मसन्निभम्। वृष्टिदं रोगशमनं कुण्डमष्टास्रमी-[Page2081-b+ 38] रितम्”। कामिके तु फलान्तरम्
“ऐन्द्र्यां स्तम्भे चतुः-कोणमग्नौ भीगे भगाकृति। चन्द्रार्द्धं मारणे याम्ये, द्वेषेत्र्यस्रन्तु नैरृते। वारुण्यां शान्तिकेवृत्तं, षडस्न्यु च्चटि-नेऽनिले। उदीच्यां पौष्टिके पद्मं रौद्य्रामष्टास्रि भुक्तिदमिति” अथ होमसंख्यया कुण्डमानम्।
“शतार्द्धेरत्निः स्याच्छत-परिमितेऽरत्निविततः सहस्रे हस्तःस्यादयुतहवने हस्त-युगलम्। चतुर्हस्तं लक्षे प्रयुतहवने षट्करमिभैः

८ ककुबु-भिर्वा

१० कोणैर्नृपकरमपि प्राहुरपरे” शतार्द्धमिते पञ्चाश-न्मिते होमे रत्निमितं कुण्डं, शतमिते अरत्रिमितं,सहस्रमिते होमे हस्तमितं, दशसहस्रमिते द्विहस्तं, लक्ष-होमे चतुर्हस्तमित’ दशलक्षहोमे षड्ढस्तमितं, कोटि-होमेऽष्टहस्तमितं दशहस्तमितं वा। केचित् षोडश-करमपि प्रांहुरितिव्याख्या भविष्यपुराणे
“मुष्टिमानंशतार्द्धेतु शते चारत्निमात्रकम्। सहस्रे त्वथ होतव्येकुण्डङ्कुर्य्यात्करात्मकम्। द्विहस्त्रमयुते तच्च लक्षमानेचतुःकरम्। दशलक्षमिते होमे षट्करं सम्प्रचक्षते। अष्टहस्तात्मकं कुण्डं कोटिहोमेषु नाधिकम्” शार-दायाम्
“दशहस्तमितं कुण्डं कोटिहोमेऽपि शस्यते” स्कान्दे
“कोटिहोमे चतुर्हस्तं चतुर्हस्तं समन्ततःयोनिवक्त्रद्वयोपेतन्तदप्याहुस्त्रिमेखलमिति” इदं प्रायस्थूलहव्यविषयम्
“अथ केषांचिन्मते कुण्डमाना
“लक्षैकवृद्ध्यादशलक्षकान्तङ्करैकवृद्ध्यादशहस्तकञ्च। कोट्य-र्द्धदिग्विंशतिलक्षलक्षदले मुनीष्वर्तुकृशानुहस्तम्” लक्षस्यैकवृद्ध्या दशलक्षकाणामन्तं समाप्तीकृत्यादशलक्षकान्तम् एकलक्षमारभ्य लक्षवृद्ध्या दशलक्षपर्यन्त-मित्यर्थः करस्य एकवृद्ध्यादशहस्तकम्पर्यादीकृत्येत्यादश-हस्तकम् एककरमारम्य एककरवृद्ध्या दशहस्तं याव-त्कुण्डं प्राहुरिति पूर्वेणान्वयः कोटेरर्द्धे पञ्चाशल्लक्षेदशविंशतिलक्षे लक्षदले पञ्चाशत्सहस्रे क्रमात् सप्त-पञ्चषट्त्रिकरं कुण्डमिति व्याख्याः शारदायाम्
“एक-हस्तमितं कुण्डं लक्षहोमे विधीयते। लक्षाणां दशकंयावत्तावद्धस्तेन वर्द्वयेत्” सिद्धान्तशेखरे
“लक्षार्द्धे त्रिकरंकुण्डंलक्षहोमे चतुःकरम्। कुण्डं पञ्चकरम्प्रोक्तं दश-लक्षाहुतौ क्रमात्। षड्ढस्तं लक्षविंशत्यां, कोट्यर्द्धे सप्त-हस्तकमिति”। इदमेव कुण्डमानङ्कामिकादिमतं सिद्धान्तशेखरशारदाहेमाद्रिप्रमुखैः प्राचीनैः राघवभदृरामवाजपेयिकुण्डरत्नाकरकुण्डकौमुदीकारादिभिर्नवीनैश्च लिखितंकुत्रचिदन्यथापि कुण्डमानान्युक्तानि तानि तत्तत्प्रकरण-[Page2082-a+ 38] वशात्तत्कर्मविशेषे द्रष्टव्यानि। अथैकहस्ताद्दशहस्तान्तंयावत्कुण्डेषु भुजकोटिमानम्
“वेदाक्षोणि युगाग्नयःशशि-युगान्यष्टाब्धयस्त्रीषवोऽष्टाक्षावह्निरसारसाङ्गकमिता नेत्र-र्षयोऽक्षस्वराः। अङ्गुल्यो,ऽथ यवाः स्वमभ्रमिषवः खं पञ्च-षट् सागराः सप्ताभ्रं मुनयस्त्वमी निगदिता वेदास्रकेबाहवः”। एकहस्ते कुण्डे चतुर्विंशत्यङ्गुलान्यायाम-विस्तारौ, द्विहस्ते चतुस्त्रिंशदङ्गुलानि। इमानि पादोनलिक्षाचतुष्टयन्युनानि अल्पान्तरत्वात् पूर्णान्येव धृतानि। त्रिहस्ते एकचत्वारिंशदङ्गुलानि। चतुर्हस्ते अष्टचत्वा-रिंशदङ्गुलानि। पञ्चहस्ते पञ्चयवाधिकानि त्रिपञ्चाश-दङ्गुलानि। षड्ढस्ते त्रिपदोनैकोनषष्टिः, सप्तहस्ते सार्द्ध-त्रिषष्टिः। अष्टहस्ते यवोना सप्तषष्टिः। नवहस्ते द्विसप्ततिःदशहस्ते यवोना

१ षट्सप्ततिरिति षोडशहस्ते षण्णवतिःचतुर्भुजे कुण्डे मुजाउक्ता इति व्याख्या। अत्रोपपत्तिःएकहस्तस्य चतुर्विंशत्यङ्गुलात्मकस्य भुजकोटिघातःक्षेत्रफलं तच्च षट्सप्तत्यधिकपञ्चशती

५७

६ । एतत्पदमेक-हस्तक्षेत्राङ्गुलानि चतुर्विंशतिः। एवं क्षेत्रफलस्य द्व्यादिगु-णस्य मूलं चतुस्त्रिंशदाद्यङ्गुलानि भवन्ति। अथ योनिनि-वेशनम्
“कुण्डत्रयी दक्षिणयोनिरैन्द्र्याः सौम्याग्रकास्यादितराणि पञ्च। पश्चाद्भगानीन्द्रदिगग्रकाणि योनिर्नकोणे न च योनिकुण्डे” ऐन्द्र्याः प्राच्या आरभ्य कुण्डत्र-यी चतुरस्रयोनिवृत्तार्द्धरूपा दक्षिण्णयोनिः स्यात् उत्तराग्राअर्थाद्धोता उदङ्मुखः। इतराणि पञ्च कुण्डानि त्र्यस्रिवृ-त्तषडस्रिपद्माष्टास्राणि प्रत्यग्योनीनि प्रागग्राणि अर्थाद्धो-ता प्राङ्मुखः। नवममपि कुण्डं दक्षिणयोन्युदगग्रम्। योनिः कोणे योनिकुण्डे च न कार्येति व्याख्या। स्वायम्भुवे
“प्रागग्नियाम्पकुण्डानां प्रोक्ता योनिरुदङ्मुखी। पूर्व्व-मुखा स्थिताः शेषाः यथाशोभं व्यवस्थिताः” इति। त्रैलो-क्यसागरे
“नवभस्यापि कुण्डस्य योनिर्दक्षदले स्थितेति” अ-न्यत्र
“नार्पयेत् कुण्डकोणेषु योनिं तान्तन्त्रवित्तमः” इति
“योनिकुण्डे तथा यीनिं, पद्मे नाभिं विवर्जयेदिति”। अथसर्वेषां कुण्डानां प्रकृतिभूतं चतुरस्रमाह
“द्विघ्नव्यासन्तू-र्यचिह्नं मपाशं मूत्रं शङ्कौ पश्चिमे पूर्ब्बगेऽपि। दत्त्वाक-र्पेत् कोणयोः पाशतुर्य्यं स्यादेवं वा वेदकोणे समानम्”। इष्टव्यासाद् द्विगुणितं व्यासं चतुर्थांशकृतचिह्नं सपाशंमूत्रं पूर्व्वपश्चिमस्थयोः शङ्क्वोर्दत्त्वा दक्षिणोत्तरसूत्रमध्येयथामध्यचिह्नं भवति तथा कोणयोः पाशाच्चतुर्थांशेआकर्पेत् एवमन्यतोऽपि। एवं कृते समचतुरस्रं स्यात् इदमेव[Page2082-b+ 38] सर्वेषां कुण्डानां मूलमिति व्याख्या। उक्तं च
“चतुरस्रमिदंप्रोक्तं सर्वकुण्डेषु कारणमिति” अत्र
“समश्रुतौ तुल्यचतुर्भुजे च तथायते तद्भुजकोटिघातः” क्षेत्रफलं षट्-सप्तत्यधिकपञ्चशती

५७

६ एतावदेव योन्यादिकुण्डेषुएकहस्तेषु यथा क्षेत्रफलं सम्पद्यते तथा यतितव्यमिति। अथ योनिकुण्डमाह
“क्षेत्रे जिनांशे तु पुरःशरांशान्संवर्ध्य च स्वीयरदांश

३२ युक्तान्। कर्ण्णाङ्घ्रिमानेन लि-खेन्दुखण्डे प्रत्यक्पुरोऽङ्काद्गुणतोभगाभम्”। चतुरस्रे-क्षेत्रे चतुर्विंशतिधा भक्ते सति पञ्चांशान् स्वीयद्वात्रिंशदंशयुक्तान् अग्रे संवर्द्ध्य ततश्चतुर्धा विभक्तस्य क्षेत्रस्यपश्चिमचतुरस्रद्वयमध्याङ्कात् कर्ण्णसूत्रस्य चतुर्थांशेन प्रत्यक्-पश्चिमभागे इन्दुखण्डे वृत्तार्द्धद्वयं विद्वन्। लिख। ततःपूर्वाङ्काद्दक्षिणोत्तरसंलग्नं वृत्तार्द्धं याबन्नीयमानगुणद्वय-तो भगाकारं योनिकुण्डंस्यादिति व्याख्या। अथ क्षेत्रफ-लानयनम् अत्र क्षेत्र त्रयं पूर्ब्बाङ्काद्दक्षिणोत्तरसूत्राग्रं याव-न्नीयमानसूत्रद्वयं त्रिकोणमेकं, तथा दक्षिणोत्तरसूत्रा-ग्रात्पूर्वापरसूत्रान्वं यावन्नीयमानसूत्रद्वयादपरं त्रिको-णम् उभयवृत्तार्द्धे मिलित्वा एकं वृत्तमिति तृतीयं,क्षेत्रत्रयफलयोगे पूर्ण्णफलम् तत्र प्रथमस्य क्षेत्रफलं यथाअत्र लम्बः अङ्गुलानि

१७ यवः

१ यूका

२ । भूः

२४
“लम्बेन-निघ्नं कुमुखैक्यखण्डमिति”। अत्र मुखाभावाद्भूमध्यमेवलम्बेन गुणितं सज्जातं प्रथमं क्षेत्रफलम् अङ्गुलानि

२०

५ यवाः

७ । अथापरस्य लम्बः

१२ भूःसैव अत्रापि तयैवरीत्या क्षेत्रफलं

१४

४ । अथ वृत्तार्द्धयोरेकं वृत्तं तत्फलंयथा तत्र वृत्तव्यासः

१६ ,

७ ,

४ ,


“व्यासस्य वर्गे भनवाग्निनिघ्नेसूक्ष्मं फलं पञ्चसहस्रभक्ते” इति व्यासवर्गः

२८

८० । ॰।

२ । अयम्भनवाग्नि

३९

२७ निघ्नः पञ्चस--

५०

०० भक्तोजातं क्षेत्रफलंवृत्तस्य

११

६ ।

१ ।

४ ।

५ । त्रया-णां योगे क्षेत्रफलं पूर्णं

५७

६ । ॰।

४ ।

५ । अत्र लिक्षापञ्चकं यूकाचतुष्टयञ्चाधिकम् अल्पान्तरत्वाददोषः। ध्वजा-यसिद्धिश्चान्यन्नोक्ता।
“स्थापने सर्व्वकुण्डानां ध्वजायःसर्वसिद्धिदः। शतांशोवाधिकं हीनं ह्रासवृद्धी न दूष-येत्। आयदोषविशुद्ध्यर्थं क्रियते शास्त्रकोविदैरिति”। एतत्क्षेत्रस्योत्तराग्रत्वात् उदीचीप्राचीवद्व्यवहर्त्तव्याएवमन्ययोरपि। पदार्थादर्शे
“चतुर्विंशतिधा मध्यसूत्रं भक्त्वा पुरोन्यसेत्। पञ्चांशान् वैककस्य त्रीन्विंशाशान्कोणपादतः। वृत्तार्द्धेस्तो मध्यतिर्यक् सूत्रान्तञ्च ततोऽर्प-थेत्। पुरो वर्द्धितसूत्रान्तं, सूत्रे द्वे स्याद्भगाकृतिरिति” [Page2083-a+ 38]
“इमानि कुण्डानि कादिग्रथविरुद्धानीयतादरणीयानि। तानिवचनानि तु तदाकारत्वमात्रसम्पादकानि न क्षेत्रफ-लपूर्तिफराणि तत्र शिव्यक्लेशोमा भूदिति स्थूलमार्गेणयोन्याद्याकारमात्रं प्रतिपाद्यते। योगणितानभिज्ञस्तेनचतु{??}स्रकण्डं तण्डुलादिना पूरयित्वा तानेवतण्डुलान् योन्यादिकुण्डे धृत्वा तत्पूर्त्तौ तोष्टव्यमिति। अङ्गलयवयूकालिक्षाः कृत्वा गोमूत्रिकारीत्या गणयित्वाअष्टभिर्भागे गृहीते फले उपर्य्युपरि च योज्यमानेफलायुतपद्यते अंशसवर्णनादि कुण्डमात्रेष्विति ज्ञेयम्। वृत्तार्द्धकुण्डमाह
“स्वशतांशयुतेषुभागहीन स्वध-रित्रीमितकर्कटेन मध्यात्। कृतवृत्तदलेऽग्रतश्च जीवांविदधातीन्दुदलस्य साधु सिद्ध्यै”। स्वीयशतांशेन युतोयइषुभागः पञ्चमांशः अर्थात् क्षेत्रस्यैव, तेन हीनाचासौ स्वभूमिः क्षेत्रन्तन्मितेन कर्कटेन सूत्रेण वा म-ध्याङ्गात् कृतं यद्वृत्तार्द्धन्तस्मिन्पूर्वापरां रेखाञ्जीवारूपांवृत्तार्द्धस्य सिद्ध्यै साधु स्याद्यथा, तथा करोतु विद्वानि-ति व्याख्या। अत्र क्षेत्रफलम् क्षेत्रस्य पञ्चांशोऽङ्गुलाद्यः

४ ।

६ ।

३ ।

१ ।

५ । तस्य शतांशोऽङ्गुलाद्यः ॰। ॰।

३ । ॰।

४ । अनेनान्वितः पञ्चांशः

४ ।

६ ।

६ ।

२ ।

१ अनेनोना क्षेत्रभूमिः

१९ ।

१ ।

१ ।

५ ।

७ एतद्व्यासा-र्द्धंद्विगुणं व्यासः

३८ ।

२ ।

३ ।

३ ।

६ । अत्रापि व्यासस्य वर्गः

१४

४४ ।

५ ।

२ ।

५ ।

४ । भनवोग्निनिव्ने

३९

२७ । पञ्चसहस्रभक्ते इत्यादि रीत्या क्षेत्रफलम्

११

५२ ।

२ ।

२ ।

६ ।

२ । एतद्वृत्तस्य फलम् अस्यार्द्धं वृत्ता-र्द्धक्षेत्रफलम्

५७

६ ।

१ ।

३ ।

१ अत्रापि ध्वजाय-सिद्धिः। अथ त्र्यस्निवृत्तकण्डमाह
“वह्न्यशं पुरतो-निधाय च पुनः श्रोण्योश्चतुर्थांशकञ्चिह्नेषु त्रिषु सूत्र-दानतैदं स्यातत्र्यस्रि कथोज्झितम्। विश्वांशैः स्वजि-नांशकेन सहितैः क्षेत्रे जिनांशे कृते व्यासार्द्धेन मिते-न मण्डलमिदंस्याद्वृत्तसंज्ञं शुभम्” अत्र पूर्वार्त्वोक्तं कुण्डंव्याख्यायते क्षेत्रस्य तृतीयांशम्पूर्वतोनिधाय ततौभ-यश्रोण्योश्चतुर्थांशं निधाय दक्षिणत उत्तरतश्च दत्त्वा त्रि-चिह्नेषु सूत्रदानात् कष्टरहितं त्र्यस्रि जायते इतितृतीयांशोऽष्टाङ्गुलानि मध्यसूत्रे योजितानि जातोलम्बःपश्चिमभज उभतश्चतुर्थांशः षडङ्गुलानि योजितानिजातानि भूः

३६ अत्र मुखाभावात् भूमेरर्द्धं कृतम्

१८ इदं लम्बेनानेन निघ्नञ्जातं अत्र क्षेत्रफलम्

५७

६ समभुजे क्षेत्रफलञ्च सिद्ध्यतीति कष्टोज्झितमित्युक्तम्[Page2083-b+ 38] किञ्चिद्भुजवैषम्यं न दोषाय अत्रापि ध्वजाय एवेति। अथोत्तरार्द्धेन वृत्तमाह क्षेत्रे चतुर्विंशतिभक्ते सतित्रयोदशांशैः सह चतुर्विंशत्यंशयुतैः मितेन व्यासार्द्धेनमण्डलं यद्वृत्तं तत् वृत्तसंज्ञं कुण्डं सुन्दरं स्यात्। अथ क्षेत्रफलानयनम् अत्र त्रयोदशानाञ्चतुर्विंशांशोऽङ्घु-लाद्यः॰

४ ।

२ ।

५ ।

३ । अनेन युतास्त्रयोदश

१३ ।

४ ।

२ ।

५ ।

२ । इदं व्यासार्द्धभेतद्द्विगुणं व्यासः

२७ । ॰।

५ ।

२ ।

४ अत्र॰ व्यासस्य वर्गेऽस्मिन्

७३

९ । ॰।

३ ।

१ ।

२ भनवाग्निनिघ्ने॰ पञ्चसहस्रभक्ते इत्यादिना क्षेत्रफ-लम्

५७

६ । ॰।

६ । ॰। अत्रापि ध्वजाय एवेति। अथ षड-स्रमाह
“भक्ते क्षेत्रे जिनांशैर्धृतिमितलवकैः स्वाक्षिशैलां-शयुक्तैर्व्यासार्द्धं मण्डले तन्मितधृतगुणके कर्कटे सेन्दुदिक्तः। षट्चिह्नेषु प्रदद्याद्रसमितगुणकानेकमेकन्तु हित्वा नाशेसन्ध्यंशदोषामपि च धृतिकृते नेत्ररम्यं षडस्रम्”। क्षेत्रे-चतुविंशतिधा विभक्ते सति अष्टादशांशैः स्वद्वासप्ततित-मांशयुक्तैस्तावता व्यासार्द्धेन वृत्ते कृते सति तेनैव-व्यासार्द्धेन मिते गुणके सूत्रे सति कर्कटे वा उत्तरदिक्तोधृते सति परावर्त्तनेन षट्चिह्नानि भवन्ति तेषु षट्-सु चिह्नेषु षट्सूत्राणि एकान्तरेण परस्परलग्नानिदद्यात् ततः सन्धौ ये अङ्गदोषाः षड्भुजास्तेषां नाशे-धृतिकृते मण्डलस्य विनाशे षडस्नि रमणीयञ्जायतइति व्याख्या अस्मिन् षडस्रे व्यासः

३६ ।

४ । ॰अत्रोत्तराग्रं त्रिकोणमेकं महत् तद्भुजमानं त्रिद्व्यङ्काग्रिनभश्चन्द्रैर्वृत्तव्यासे समाहते। खखखाभ्रार्क

१२

००

०० संभक्तेलभ्यन्ते क्रमशोभुजाः” इति त्रयाणां भुजानां मानं

३१ ।

४ ।

३ । ॰ उत्तराग्रात् पूर्ब्बापरभुजमव्यं यावन्नीयमानं सूत्रंलब्धश्चतुर्थांशोव्यासएव

२७ ।

६ । ॰ भुजाः, एवं भूः मुखा-र्भावद्भूम्यर्द्धं

१५ ।

६ ।

३ ।

४ लम्बेन निघ्नमित्यादिना जातं क्षेत्र-फलं

४३

२ ।

५ ।

३ अथास्य महतस्यिभुजस्य त्रिष्वपि भु-जेषु त्रीणि त्र्यस्राणि समान्येव लुय्नानि भवन्ति तत्रैकस्यफलमानीय त्रिगुणं कृत्वा पूर्ब्बफले योजितं सत् पूर्ण्णंक्षेत्रफलं स्यात्। तत्र दक्षिणकोणाग्रात् पूर्वापरभुज-मध्यंनीयमानं सूत्रं लम्बः

९ ।

१ । ॰ अयं व्यासचतुर्थांशःभुजत्थंशोभूमिः

१० ।

४ ।

२ ।

३ सर्वत्रत्र्यंश एव भुजसम्पातात्अत्र मुखाभाकाद्भूमेरर्द्धं

५ ।

२ ।

१ ।

१ । इदं लम्बेन गुणितंक्षेत्रफलं

४८ । ॰।

४ ।

२ ।

१ । जातं इदं त्रियुणं त्र्यस्ताणामपिफलं

१४

४ ।

१ ।

४ ।

६ ।

३ । इदं पूर्वक्षेत्रफलेऽस्मिन्

४३

२ ।

५ ।

३ योजितं

५७

६ ।

७ ।

१ ।

४ ।

६ । इदपकिञ्चिदधिकैकयुकाधिकं[Page2084-a+ 38] सप्तयवाधिकं अल्पान्तरत्वाददोषः। अय वा व्यासोयूकयान्यूनः कार्य्यः। ध्वजायसिद्धिश्च। अथ वा किमेतावताप्रयासेन लघुत्रिकोणं कुण्डंक्षेत्रं द्वादशांशः तत्क्षेत्रफलंस्यात् द्वादशगुणितं पूर्ण्णंक्षेत्रफलम्। अथेदङ्कुण्डं स्वबुद्धिविलासमात्ररचितमिति नोपेक्षणीयं यतः षट्कोणतासमभुजताफलं च सम्पद्यते एव
“मानाधिक्ये भवेद्रोगोमानहीने दरिद्रता” इत्यादिदोषापत्तिरपि नास्ति। अथ वक्तव्यंप्राचीनकृतकुण्डविरुद्धन्तर्हि दृश्यते च प्राचीनकृतकु-ण्डेषु परस्परविरुद्धता इदमेव कुण्डं रामवाजपेयिभिर्विषमभुजं मृदङ्गाकारं कृतं राघवभट्टादिभिः समभुज-मेव कारितं लक्ष्मणाचार्यादयोऽप्यन्यथैवोचुः तस्मादस्मदुक्ते नेत्ररभणीये समभुजे क्षेत्रफलसंवादिनि षट्--कोणेविद्वद्भिर्नानादरैभाव्यमिति। अथ ये प्राचीनकृतावेवाग्र-हिणस्तेषान्तोषायापि समभुजमाह
“अथ वा जिनभ-क्तकुण्डपानात्तिथिभागैः स्वखभूपभागहीनैः। मितकर्क-टकोद्भवे तु वृत्ते विधुदिक्तः समषड्भुजैः षडस्तम्” अथ-वा चतुर्विंशतिभक्ते कुण्डमाने सति स्वीयषष्ठ्यधि-कशतभागेन हीनैः पञ्चदशभागैर्मितोयः कर्कटस्तदुद्भवेवृत्ते उत्तरदिकः सकाशात् समैः षद्भिर्मुजैर्दत्तैः परस्पर-लग्नैः षडस्रं वृत्तमार्जमेन भवतीति व्याख्या। अथ क्षेत्रफलानयनं तत्र‘ वृत्तव्यासे द्विसंभागे षडस्रे स्युर्भुजाः स्फुटा’ इति भुजमानम्

१४ ।

७ ।

२ ।

२ क्षेत्रमध्ये दक्षिणोत्तरांरेखान्दत्त्वा ऊर्ध्वं भुजसंपाततः पूर्ब्बापरं रेखाद्वयम् अ-धोभुजसंपातावधि दद्यात् एवं कृते चतुरस्रद्वयं परस्पर-लग्नं भवति पूर्ब्बापररेखयोर्दक्षिणोत्तररेखया सह-सम्पातश्चतुर्थांशे एव भवति सैवाबाधा तन्मानं

७ ।

३ ।

५ भुजः

१४ ।

७ ।


“स्वावाधाभुजकृत्योरन्तरमूलं प्रजायते लम्बः” इति साधितोलम्बः

१२ ।

७ ।

१ । अयमेव मध्यलम्बः
“लम्बेननिघ्नं कु

२९ ।

६ ।

४ मुखै

१४ ।

७ ।

५ ।

२ क्य

४४ ।

५ ।

६ खण्डम्”

२२ ।

२ ।

७ । इति जातं क्षेत्रफलं

२८

८ ।

१ ।

१ ।

६ एवमपरस्यापि खण्डस्य। उभययोगे ध्वजायसिद्धिश्चेति। अथ पद्म-कुण्डमाह
“अष्टांशाच्च युतश्च वृत्तशरके तत्रा-दिभे कर्ण्णिकायुग्मे षोडश केशराणि चरमे स्वाष्टत्रि-भागोनिते। भक्ते षोडश केशराणि च धृते स्युः कर्क-टेऽष्टौ छदाः सर्वांस्तान् खन कर्णिकां त्यज निजाया-मौच्च्यकं स्यात् कजम्”। क्षेत्रस्याष्टमांशादष्टांशवृद्ध्या चवृत्तपञ्चके कृते सति तत्र पञ्चकमध्ये प्रथमं तत्कर्णिका,द्विनीये षोडश केशराणि, द्वितीयं केशरस्थानमित्यर्थः। [Page2084-b+ 38] अन्तिमे पञ्चमे वृत्ते स्वस्य अङ्गुलत्रयात्मकस्याष्टत्रिंशदंशोनितस्य षोडशसु स्थानेषु दिक्षु विदिक्षु तदन्तराले चसमतया भाजिते तस्मिन्वृत्ते पञ्चचिह्नान्तरे दिशि विदिशिच कर्कटके धृते सति परावर्त्तनेनाष्टौ पत्राणि जायन्तेसर्वांस्त्रान् केशरादीन् केशरवृत्ततृतीयचतुर्थवृत्तानि प-त्राणि च हे विद्बन्! खन कर्णिकां त्यज मा खन। कीदृ-शींनिजः स्वकीयश्चायामो विस्तारस्तत्तुल्यमौच्च्यं यस्यास्तां,कजंपद्मकुण्डम् वहिर्वृत्तमार्जनेन स्यादिति व्याख्या। अथ क्षेत्रफलानयनम् अत्रोपान्तिमस्य चतुर्विंशत्यङ्गुलस्यपूर्ब्बवत् क्षेत्रं

४५ ।

२ ।

३ ।

१ अन्तिमवृत्तस्यास्य

२९ ।

३ ।

४ । क्षेत्र-फलं

६९

९ ।

४ ।

५ । ॰। अनयोरन्तरार्द्धम्

१२

३ ।

४ ।

६ । ॰ इदंपूर्ब्बक्षेत्रफले योजितं वा अन्तिमवृत्तक्षेत्रफलम्। प्रवर्त्तितं-सज्जातं पूर्णं फलं

५७

६ । ॰।

१ यूकोनं फलमायात्य-तोऽदोषः। अन्तिमवृत्ते लिक्षामात्रवर्द्धनेन ध्वजायसिद्धि-श्चेति। अत्रान्तिमवृत्ते पत्रान्तरार्द्धभूसंग्रहोर्द्धभूत्यागश्चबुद्धिमता प्रत्यक्षतएवोपलब्धव्यः। अथाष्टास्रिकुण्ड-माह
“क्षेत्रे जिनांशे गजचन्द्रभागैः स्वाष्टाश्वि--

२८ भागेन युतैस्तु वृत्ते। विदिग्दिशोरन्तरतोऽष्टसूत्रैस्तृतीयमुक्तैरिदगष्टकोणम्”। क्षेत्नचतुर्विंशतिभागे कृते सत्य-ष्टादशभामैः स्वीथाष्टाविंशेन युतैः कर्कटकेन वृत्ते कृतेसति विदिग्दिशोर्भध्ये कृताष्टचिह्नेभ्यः अष्टभुजेभ्यस्तृती-यांशमिलितैः चिह्नद्वयं विधाय तृतीयचिह्नेन योजितैर-ष्टकोणं वृत्तमार्जनान्मध्यस्थाष्टदोःखण्डमाजेनाच्च भवती-ति व्याख्या। अथ
“क्षेत्रफलानयनं व्यासाद्विं

१८ ।

५ ।

१ । ॰। व्यासः

३७ ।

२ ।

२ । अथ
“द्विद्विनन्देषुसागरैर्वृत्तव्यासे समा-हते। खखखाम्नार्कसंभक्ते लभ्यन्ते क्रमशो भुजाः” इति

१४ ।

२ एतद्वृहद्भुजमानं दक्षिणोत्तररेखा कोटिः आ-यते क्षेत्रेभुजकोटिघातः क्षेत्रफलम्। भुजकोटिज्ञानं तुवृहद्भुजतुल्यं मध्येऽन्तरम्

१४ ।

२ ।

२ याभ्योत्तररेखोभय-प्रान्तवर्त्तिरेखा खण्डमाने योजितं सत्कोटिः स्यात् यथादक्षिणोत्तरपूर्ब्बापररेखा खण्डयोगादूर्ध्वरेखातिर्यग्रेखेभुजकोटिरूपे तदग्रान्नीयमानो महामुजएव कर्णः

१४ ।

२ ।

२ ।

५ । ॰। अस्य वर्गार्द्धमूलं तिर्यप्र{??}पमुजकोटिमानंलघुः

१० । ॰।

६ ।

२ । यतोऽत्र भुजकोटियर्गयोगः कर्णवर्गोभवति इदं कोटिमानं द्विघ्नं सत् पूर्ब्बभुजे योजितं जाताकोटिः दक्षिणोत्तररेखारूपा

३४ ।

३ ।

५ ।

४ । एतद्वृहद्भुज-पातफले

४९



१ ।

१ ।

२ । अथ कोणक्षेलयोः फलं लघुभु-ज--वर्गेण तुल्यमेतत्

१०

१ ।

७ ।

६ । पूर्ब्बफलादस्मा

४९

२ । [Page2085-a+ 38]

१ ।

१ ।

२ । च्छोधितं सज्जातं फलम्

३९

० ।

१ ।

३ ।

२ । अस्मिन्पूर्ब्बापरकोणानां चतुर्णां फलं योजितं सत्पूर्ण्णं फलंस्यात्। तत्र पूर्ब्बकोणयोः फलं यथा वृहद्भुजोभुजः

१४ ।

२२ । पूर्व्वापररेखाखण्डं कोटिः

१० । ॰।

६ ।

२ । अनयोर्घातः

१४

४ ।

१ ।

५ ।

६२ अस्मात्कोणक्षेत्रफलमेतत्

५० ।

७ ।

७ शोधितंसज्जातं पूर्व्वकोणयोः फलम्

९३ ।

१ ।

६ । एतदेवापरकोणयोः,अतोद्विघ्नमेतत्

१८

६ ।

३ ।

४ । पूर्व्वक्षेत्रफलेऽस्मिन्

३९

० ।

१ ।

३ ।

२ । योजितं सज्जातं क्षेत्रफलं

५७

६ ।

५ । ॰। ॰। अल्पान्तरत्वा-ददोषः ध्वजायसिद्धिश्च। इदं सर्वथा नेत्ररमणीयमि-त्यङ्गीकर्त्तव्यम्। अथ प्रकारान्तरेण समाष्टभुजाष्टास्रकुण्डमाह
“माध्ये गुणे वेदयमैर्विभक्ते शक्रैर्निजा-द्र्यब्धिलवेन युक्तैः। वृत्ते कृते दिग्विदिशोऽन्तराले गजैर्भुजैःस्यादथवाष्टकोणम्”। माध्ये गुणे--सूत्रे चतुर्विंशतिभक्तेस्वसप्तचत्वारिंशदंशसहितैश्चतुर्दशभिर्व्यासार्द्धेन मण्डले कृतेतत्र दिग्विदिशोर्मध्ये कृताष्टसूत्रैः परस्परसंलग्नैरष्ट-कोणम् प्रकारान्तरेण प्राचीनकृतिरसिकाभिमतं कुण्डंवृत्तमार्जनाद्भवतीति व्याख्या। अथ क्षेत्रफलानयनम्
“चन्द्रर्त्तुनन्दाकृतिभि

२२

९६

१ र्व्यासार्द्धे तु समाहते। खखखाभ्राग्निसंभक्ते

३०

००

० लभ्यन्ते क्रमशोभुजाः” इति भुजमानं

१० ।

७ ।

४ ।

३ ।

४ ।
“ततःज्याव्यासयोगान्तर-घातमूलं व्यासस्तदूतो दलितः शरः स्यादिति”। जातःशरः

१ । ॰।

७ ।

२ ।

६ । अथ याम्यभुजस्योभयान्तात् समुखापरभुजप्रान्तद्वयं यावत् सूत्रद्वयं कुर्य्यात्। एवङ्कृते तिर्यग्दीर्घ-चतुरस्रं पार्श्वयोर्विषमभुजचतुरस्रद्वयञ्चस्यात् तत्र व्यासा-दस्मात्

२८ ।

४ ।

६ । सकाशाद्द्विगुणं शरं विहाय शेषोदीर्वच-तुरस्रस्य भुजः। अथ वा ज्याव्यासवर्गात्तरमूलं भुजः किंशरकरणप्रयासेन

२६ ।

३ । ॰। अष्टास्रिभुजएव कोटिः आयतेभुजकोटिघातः क्षेत्रफलम्

२८

८ ।

४ ।

४ । अथ विषमभुजचतु-र्भुजक्षेत्रफलम् जीवार्द्धशरोनव्यासार्द्धंविषमचतुर्भुजे लम्बः

७ ।

५ ।

५ । ॰। ज्यैव मुखं दीर्घचतुरस्रभुज एव भूः लम्बेननिय्नंकु

२६ ।

३ । ॰ मुखै

१० ।

७ ।

४ ।

३ । क्य

३७ खण्डम्

१८ ।

५ ।

२ ।

१ क्षेत्रफलम्

१४

४ ।

३ ।

६ ।

४ एवमपरस्यापि त्रयाणांयोगः

५७

६ ।

१ ।

४ ध्वजायसिद्धिश्च। अथवाष्टधनुषांफलमानीय वृत्तफलात् संशोध्यापि क्षेत्रफलं स्यादितिअस्मिन्समाष्टभुजे राघवभट्टादिभिरुक्ते शारदातिलकादिवाक्यैः सह महान्विरोधस्तस्मादस्मदुक्तमष्टास्रि नेत्ररम्यंक्षेत्रफलसंवादिसमभुजमेवादरणीयमिति”। अथ-खातलक्षणं कण्ठलक्षणञ्चाह।
“खातं क्षेत्रसमं प्राहु-[Page2085-b+ 38] रन्ये तु मेखलां विना। कण्ठोजिनांशमानः स्यादर्कांऽश इति चापरे”। कुण्डखननं क्षेत्रसम कुण्डस्य यावान्विस्तार आयामश्च तावत्खननमाद्यमेखलयासहितं कुण्डे कार्यम् योन्यादिकुण्डेषु विस्तारायामयोर्नानात्वाच्चतुरस्रस्यैवायामविस्तारौ ग्राह्यौ। अन्ये तुमेखलां वर्जयित्वा भूमावेव तावत्खननं कार्य्यमित्याहुः। कण्ठोऽपि क्षेत्रचतुविंशत्यंशमानः खाताद्बहिः कार्य्यःसमन्तादेकाङ्गुलमितः। अन्ये क्षेत्रद्वादशांशपरिमिन इतिप्राहुरिति व्याख्या। सिद्धान्तशेखरे
“खातं कुण्डप्रमाणंस्यादूर्द्धमेखलया सह” प्रतिष्ठासारसंग्रहे
“पञ्चत्रिमेखलो-च्छ्रायं ज्ञात्वाऽशेषमधः खनेत्” मोहमूलोत्तरे
“हस्तमात्रखनेत्तिर्यगूद्ध्वं मेखलया सहेति”। अथ पक्षान्तरे शारदाति-लके
“यावान् कुण्डस्य विस्तारः खननं तावदीरितमिति”। प्रयोगसारे
“चतुरस्रञ्चतुःकोष्ठे सूत्रैः कृत्वा यथा पुरा। हस्तमात्रेण तन्मध्ये तावन्निम्नायतं खनेत्”। गणेशविमर्शिन्याम्
“चतुर्विंशाङ्गुलायामं तावत्खातसमन्वितमिति” पक्षद्वैधे वयन्तु
“स्मृतिद्वैधे तु विषयः कल्यनीयःपृथक् पृथगिति” वचनात् होमाल्पत्वबहुत्वयोरन्थतरपक्षावाश्रयणीयाविति युक्तमुत्पण्यामः।
“औचित्यादर्थात्परिमाणमिति” कात्यायनोक्तिः। लोकान्तरे
“खाताद्बाह्ये-ऽङ्गुलः कण्ठः सर्वकुण्डेष्वयं विधिः। चतुर्विशतमोभागःकुण्डानामङ्गुलं स्मृतांमति”। एतत्पारिभाषिकमङ्गलंसर्वत्र बोद्धव्यम्। सीमशम्भौ
“बहिरेकाङ्गुलः कण्ठो-द्व्यङ्गुलः क्वचिदागमः” इति तेनाद्यः पक्षएव श्रेयान्बहुसंभतत्वात्। अथ मेखलानामधमतादिपक्षमाह
“अ-धमा मेखलैका स्यान्मध्यमं मेखलाद्वयम्। श्रेष्ठा स्तस्रोऽथवा द्वित्रिपञ्चस्वधमतादिकम्”। एकमेखलापक्षोऽधमोद्विमेखलो मध्यः, त्रिमेखलः श्रेष्ठः। अथ पक्षान्तरे द्विमेख-लोऽधमः त्रिमेखलोमध्यः पञ्चमेखलः श्रेयान् एकमेख-लोऽधमाधम इति व्याख्या। क्रियासारे
“नामियोनिस-मायुक्तं कुण्डं श्रेष्ठं त्रिमेखलम्। कुण्डं द्विमेखलंमध्यन्नीचं स्यादेकमेखलमिति” लक्षणसंग्रहे
“मुख्य स्तु पञ्च-ताः प्रोक्तामध्यमास्तिस्रा एव च। द्वे स्यातामवमे पक्षे-एका सा त्वधमाधमेति” सोमशम्भुना तु विशेष उक्तः
“त्रिमेखलं द्विजे कुण्डं क्षत्रियस्य द्विमेखलम्। मेखलैकातु वैश्यस्येति” अथ खातं समेखलं क्षेत्रसमनिति स्प-ष्टंवदन्मेखलालक्षणमाह
“अष्टधा विहितकुण्डशरांशैःस-ङ्खनेद्भुवमुपर्यनलांशैः। मेखलाविरचयेदपि तिखःषड्-[Page2086-a+ 38] गजार्कलवविस्तृतिपिण्डाः
“अष्टधा भक्तस्य क्षेत्रस्य यःत्र्यङ्ग लात्मकोभागस्ताडशैः पञ्चभिर्भार्गर्भुवं खनेत् उपरि-त्रिमिस्तादृशैर्भागैस्तिस्रोमेखला रचयेत् कीदृशीः षड-ष्टद्वादशांशाः चतुस्त्रिद्व्यङ्गुलमितास्तैस्तुल्यविस्तारौ-च्च्यं यासान्ता इति व्याख्या। विश्वकर्मा
“व्यासात्-खातः करः प्रोक्तोनिम्नन्तिथ्यङ्गुलेन तु। कण्ठात् परंमेखला तु उन्नता सा नवाङ्गुलैरिति”। क्रियासारे
“प्रधानमेखलोत्सेधौक्तमत्र नवाङ्गुलम्। तद्वाह्यमेखलोत्-सेवमङ्गुलद्वितयंक्रमात्। चतुस्त्रिद्ब्यङ्गुलव्यासीमेख-लात्रितयस्य तु” योगिनीहृदयेऽपि
“मेखलाः शृणु मे दे-वि! हस्तादिषु विशेषतः। षण्णागार्कांशसम्भागैर्मिताःस्युर्भोपिताः शुभाः” इति। अथ प्रकारान्तरेण मेखलालक्षणंनाभिलक्षणं चाह
“रसांशकादुन्नतविस्तृताश्च तिस्रोऽथवैकायुगभागतुल्या। पञ्चाथवा षट्शरवेदरामद्व्यंशैस्तताः स्युर्न-वभागपिण्डाः। आद्यापरास्तच्छरभागहीना जिनांशकण्ठा-द्बहिरेव सर्वाः। कुण्डानुसारा अपि मेखलाः स्युरर्काङ्ग-भागौच्च्यततिस्तु नाभिः। कुण्डाकारोनाभिरम्भोजसाम्यो-वाब्जेऽयं नेनांशहानिर्दलाग्रे। शेषक्षेत्रे वह्निवृत्तैः समेते स्युर्वै कर्ण्णैः केशराः पत्रकाणि” अथवा क्षेत्रषडं-शादुन्नताः षडंशेनैव विस्तृतास्तिस्रो मेखला भवन्तिअथैकयेखलापक्षमाह एकैवमेखला क्षेत्रचतुर्थांशोच्चातत्तृतीयांशविस्तृता च स्यात्। पञ्चमेखलापक्षमाह। अथ पञ्च मेखलाः कार्याः षट्पञ्चचतुस्त्रिद्ब्यङ्गुलैःपारिभाषिकैर्विस्तृताः। अथपञ्चमेखलानामुच्चता माहतत्रादिमा नवभागः पिण्डःऔच्च्यं यस्याः सा पा-रिभाषिकनवाङ्गुलोच्चा स्यात् अपरा मेखलास्तस्या आ-द्याया यः शरांशः पञ्चांशस्तेन हीना भवन्ति यथा एक-हस्ते कुण्डे प्रथममेखला नवाङ्गुलोच्चा अस्याः पञ्च-मांगः

१ ।

६ ।

३ ।

१ ।

५ एष एकद्वित्रिचतुर्गुणःप्रथम{??}खलामाने न्यूनः कृतः सन् तदधःस्थानां मेखला-नामौच्च्यं स्यात् यथेदं द्वितीयमेखलौच्च्यम्

७ ।

१ ।

४६ ।

३ एवमपरासामपि द्रष्टव्यम्। ताः मेखलाः सर्वाःक्षेत्रचतुर्विंशतिभागमितात् कण्ठाद्बहिरेव भवन्ति कीदृश्यःकुण्डानुकाराः योन्यादिकुण्डेषु योन्याद्याकाराएव स्वुःअपिरेवार्थे। अथ नाभिलक्षणमाह नाभिर्द्वादशांशेनोच्चःषडंशेन विस्तृतः कुण्डानुकारः याडशञ्चतुरस्राद्याकारंकुण्डं तादृशोनाभिः। अथवा नामिरम्भोजसमः कमलाकारःकार्यः अयं नाभिरव्जे पद्मकुण्डे{??}म् भवति तत्र नाभि-[Page2086-b+ 38] रूपायाः कर्णिकायाः समत्वात्। अथ पद्मावारकरणंनाभेरुच्यते दलाग्रे दलाग्रनिमित्तं द्व्यङ्गुलोच्चे चतु-रङ्गुलविस्तारायामे नाभौ इनांशहानिर्द्वादशांशत्यागःकार्यः शेषमवशिष्टं क्षेत्रं तस्मिन् वृत्तत्रयं समभागेनकार्यम्। तत्र मध्यचिह्नात् प्रथमं वृत्तं कर्णिका द्वि-तीयं वृत्तङ्केशरस्थानं तृतीयं पत्राणि तद्बहिरवशिष्टद्वादशांशेन दलाग्राणि रचयेदिति व्याख्या। वाशिष्ठ्याम्
“प्रथमं मेखला तत्र द्वादशाङ्गुलविस्तृतिः। चतुर्भिरङ्गु-लैस्तस्याश्चोन्नतिश्च समन्ततः। ततश्चोपरिवप्रः स्याच्चतु-रङ्गुलमुन्नतः। अष्टाभिरङ्गुलैः सम्यग्विस्तीर्णश्चोन्नतस्तथा”। पिङ्गलामते
“एका षडङ्गुलोत्सेधविस्तारा मेख-ला मतेति” लक्षणसंग्रहे तु विशेष उक्तः।
“चतु-रङ्गुलविस्तारोत्सेधा चैकैव मेखलेति” तन्त्रान्तरे
“षष्ठां-शेनाष्टमांशेन मेखलाद्वितयं विदुरितिः अयं पक्षोऽबहुसंमतत्वादुपेक्षित एव। सिद्वान्तशेखरे
“षड्-वाणाब्धिवह्निनेत्रमिताः स्युः पञ्च मेखलाः” इति लक्षणसंग्रहे
“पञ्च वा मेखलाः कार्याः षट्पञ्चाब्धित्रिपक्षकैः। प्रथमा कुण्डसहितोत्तरोत्सेधनवाङ्गुलेति” पिङ्गला-मते
“खातादेकाङ्गुलन्त्यक्त्वा मेखलानां स्थितिर्भवेदिति” शारदायाम्
“कुण्डानां यादृशं रूपं मेखलानाञ्च ता-दृशम्” इति तत्रैव
“कुण्डानां कल्पयेदन्तर्नाभिमम्बुज-सन्निभम्। तत्तत्कुण्डानुरूपं वा मानमस्य निगद्यते” मुष्ट्यरत्निरत्निहस्ता नाभेरुत्सेधता मता। नेत्रवेदाङ्गुलोपे-तेति” पद्मेनाभिं विवर्जयेदिति प्रागेव लिखितम्। अम्बुजा-कारकरणं तत्रैव
“पद्मकुण्डेतु क्षेत्रस्य द्वादशांशं बहिःसुधीः। तन्मध्येविभजेद् वृत्तैस्त्रिभिः समविभागतः। आद्यंस्यात् कर्णिकास्थानं केशराणां द्वितीयकम्। तृतीयन्तत्रपत्राणां मुक्त्वांशेन दलाग्रकमिति” अथ योनिलक्षणमाह
“योनिर्व्यासार्द्धदीर्घा विततगुणलवादायताब्धिद्विभागा-त्तुङ्गातावत् समन्तात् परिधिरुषरिगस्तावदग्रेणरम्यम्। निम्नं कुण्डं विशन्ती बलयदलयुगेनान्विताधोविशाला, मूलात् सच्छिद्रनालान्तरवटरुचिराश्वत्थपत्राकृतिः स्यात्” योनिर्व्यासार्द्धेन दीर्घा विस्तारतृतीयांशेन विस्तीर्णा चतुर्विशांशेनोच्चा चतुर्विंशांशेन परिधिर्मेखला यस्वाः सा तावतैवाग्रेण चतुर्विशांशे-न निम्नं यथा तथा कुण्डं प्रति विशन्ती बलयदलयुगेन वृत्तार्द्धद्वयेन युता अधो विशाला अर्थादुपरिख-ल्पसंकोचनवतीमूलात्स्थलात्सकाशात् मध्ये सच्छिद्रं बालं[Page2087-a+ 38] यस्थाःसा पद्मनालाकारत्वान्नालोक्तिः। अन्तर्मध्येअवटोगर्त्तः स्रुचि धृतधारणार्थं यद्वत्तेन रुचिरा सुन्दरासा अश्वत्थपत्राकृतिः स्य्यादिति व्याख्या। वायवीये
“मेखलां मध्यतः कुर्यात् पश्चिमे दक्षिणेऽपि वा। शोभनांमध्यतः किञ्चिन्निम्नामुन्मीलितां शनैरिति” योनि-मिति शेषः। त्रैलोक्यसारे
“दीर्घा सूर्याङ्गुला योनिस्त्र्यंशोना विस्तरेण तु। एकाङ्गुलोच्छ्रिता सा तु प्रविष्टा-ऽभ्यन्तरे तथा। कुम्भद्वयार्द्धसंयुक्ता साश्वत्थदलवन्मता। अङ्गुष्ठमेखलायुक्ता मध्ये वाज्यधृतिस्तथेति” पञ्च-रात्रे
“अर्काङ्गुलोच्छ्रितां योनिं विदध्यात्तावदायताम्” तावद्दीर्घाम् एकाङ्गुलोच्छ्रिता इत्यस्य विवरणम् अङ्गुष्ठ-मेखलायुक्तेत्यत्र अङ्गुलद्वयमुच्छ्रायः कुत्रचिदुक्तः अङ्गुलंपरिधिरिति द्वादशाङ्गुलोच्छ्रायः अयं न प्रायोबहुसंम-तपक्षः अतोऽस्मदुक्त एकाङ्गुलोच्छ्रायपक्षोबहुसंम-तःकार्यः। शारदायाम्”
“मूलादारभ्य नालं स्याद्योन्यामध्ये सरन्ध्रक मिति” द्वादशाङ्गुलमेखलापक्षेयोनिलक्षणमाह
“अथार्काङ्गुलपक्षे तु मेखलानान्दशाङ्गुलैः। विस्तृता तिथिभिर्दीर्वाङ्गुलिभिर्योनिरिष्यते” मेखलानांदशाङ्गुलैर्विस्तृता तिथ्यङ्गुलैर्दीर्घा योनिः स्यादितिव्याख्या। प्रयोगसारे
“स्थितां प्रतीच्यामायामेसम्यक् पञ्चदशाङ्गुलाम्। द्विपञ्चाङ्गुलविस्तारां षट्चतुर्द्व्यङ्गुलाः क्रमात्। त्रयोदशाङ्गुलोत्सेधां बोनिंकुण्डस्य कारयेत्”। केचित् योनिक्षेत्रस्य दीर्घचतुरस्ररूपस्य यत्फलं तस्य मूलमानीय तावत्समचतुरस्रं सं-शोध्य योनिकुण्डवद्योनिं साधयेदित्याहुः”। अधिकंकुण्डार्काटौ दृश्यम्।
“रसं पिबेत् कुमारोऽयं त्वत्प्रसादात् महाबलः। बलं नाग-सहस्रस्य यस्मिन् कुण्डेप्रतिष्ठितम्। यावत् पिबति बा-लोऽयं तावदस्मै प्रदीयताम्”।
“एकोच्छ्वासात्तत्र कुण्डेपिबति स्म महाबलः। एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः” भा॰ आ॰

१२

८ अ॰।
“साधुभिर्गर्हितंकर्म्म चण्डालस्य विधीयते। तस्मात् गोरजसा ध्वस्त-मपां कुण्डे निषिञ्चति” भा॰ आनु॰

१०

१ अ॰। कण्ड्यतेकुलमनेन कुडि--दाहे करणे घञ्। अमृते भर्तरि

५ जारजाते स्त्रियां टाष्।
“परदारेषु जायेते द्वौ सुतौकुण्डगोलकौ। पत्यौ जीवति कुण्डःस्यात् मृतेभर्त्तरि गोलकः। तौ तु जातौ परक्षेत्रे प्राणिनौप्रेत्य चे ह च। दत्तानि हव्यकव्यानि नाशयेते प्रदा-[Page2087-b+ 38] यिनाम्” मनुः।
“ब्राह्मणा एव संपूज्या पुण्यस्वर्गमभीप्सता। श्राद्धकाले तु यत्नेन भोक्तव्याह्यजुगु-प्सता। दुर्वचाः कुनखी कुष्ठी मायावी कुण्डगोलकौ। वर्ज्जनीयाः प्रयत्नेन काण्डपृष्ठाश्च देहिनः” भा॰ व॰

१९

९ अ॰।
“द्विजात् द्विजातिभार्य्यायां सवर्ण्णायामुत्पान्न-कुण्डगोलकयोः संस्कारार्हता यथाह
“प्रयोगपारिजातेब्राह्मे
“ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः सइति श्रुतिः। तस्माच्च षण्डबधिरकुब्जवामनपङ्गुषु। जडगद्गदरोगार्त्तशुष्काङ्गविकलाङ्घ्रिषु। मत्तोन्मत्तेषुमूकेषु शयनस्थे निरिन्द्रिये। ध्वस्तपुंस्त्वेषु चैतेषु सं-स्काराः स्युर्यथोचितम्। मत्तोन्मत्तौ न मंस्कार्यावितिकेचित् प्रचक्षते। कर्म्मस्वनधिकाराच्च पातित्यं नास्तिचैतयोः। तदपत्यञ्च संस्कार्य्यमपरे प्राहुरन्यथा। संस्कार-मन्त्रहोमादीन् करोत्याचार्य्यएव तु। उपनेयाश्च विधि-वदार्य्यस्य समीपतः। आनीयाग्निसमीपं वा सावित्रींस्पृश्य वाचयेत्। कन्यास्वीकरणादन्यत् सर्वं विप्रेणकारयेत्। एवमेव द्विजैर्जातौ संस्कार्य्यौ कुण्डगोलकौ” अतस्तस्य ब्राह्मणत्वेऽपि श्राद्धेऽन्नदाननिषेध इतिविशेषः। अत्रेदं बोध्यम्।
“अशुल्कोपहृतायां तुपिण्डदा वोढुरेव ते” स्मृत्युक्तेः शुल्कदानं विना उप-गतपरस्त्रियां जातस्य वोटुरेव पुत्रत्वं शुल्कदाने तु उत्-पादयितुरेवेति। अतएव
“यन्मे माता प्रलुलोभ रेतः” इत्यादि श्रुत्या क्षेत्रिणएव पिण्डदत्वं भङ्ग्योक्तम्। अस्यप्रस्थेन सह समासे आद्युदात्तता। तेन निर्वृत्ताद्यर्थेचतुरर्थ्यां अश्मा॰ र। कुण्डर तन्निर्वृत्तादौ त्रि॰कुडि--दाहे भावे अ।

६ दाहे स्त्री।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ड¦ m. (-ण्डः) A son born in adultery, the son of a woman by another man than her husband, while the husband is alive. n. (-ण्डं)
1. A hole in the ground for receiving and preserving consecrated fire.
2. A pool, a well, a spring of basin of water, especially consecrated to some holy purpose or person.
3. A measure. mf. (-ण्डः-ण्डी) A [Page187-b+ 60] pitcher. f. (-ण्डी) A student's water-pot, made of a hollow cocoanut, &c. E. कुडि to preserve, ड aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डः [kuṇḍḥ] डी [ḍī] डम् [ḍam], डी डम् [cf. Uṇ.1.112]

A bowl-shaped vessel, a basin, bowl.

A round hole in the ground for receiving and preserving water. बलं नागसहस्रस्य यस्मि- न्कुण्डे प्रतिष्ठितम् Mb.1.128.68.

A hole in general; अग्निकुण्डम्.

A pool, well; especially one consecrated to some deity or holy purpose.

The bowl of a mendicant.

A water-jar (कमण्डलु). -डः (-डा f.) A son born in adultery, the son of a woman by a man other than her husband while the husband is alive; पत्यौ जीवति कुण्डः स्यात् Ms.3.174; Y.1.22. -ण्डा An epithet of Durgā. -Comp. -आशिन् m. a pander, pimp, one who depends for his livelihood on a कुण्ड i. e. a bastard, or adulterine; अमृते जारजः कुण्डो मृते भर्तरि गोलकः । यस्तयो- रन्नमश्नाति स कुण्डाशीति कथ्यते ॥ Deval Smṛiti; Ms.3.158; Y.1.224. -ऊधस् (कुण्डोध्नी P.V.4.131)

ऊधसो$नङ् a cow with a full udder भुवं कोष्णेन कुण्डोध्नी; R.1.84.

a woman with a full bosom.

कीटः a keeper of concubines.

a follower of the Chārvāka doctrine, an atheist.

a Brāhmaṇa born in adultery. -कीलः a low or vile man.

गोलम्, गोलकम् gruel.

a group of कुण्ड and गोलक (taken together); cf. परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ । पत्यौ जीवति कुण्डः स्यात् मृते भर्तरि गोलकः ॥ Ms.3.174.

धारः N. of a cloud; Mb.12.271.2.

N. of a Nāga; Mb.2.9.9. -पाय्यः (कुण्डेन पीयते अत्र क्रतौ) क्रतौ कुण्डपाय्यस- ञ्चाय्यौ P.III.1.13; a sacrifice; कुण्डपाय्यवतां कच्चिदग्नि- चित्यावतां तथा Bk.4.67. -भेदिन् a. Clumsy.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ड n. [ अस्m. L. ] , a bowl-shaped vessel , basin , bowl , pitcher , pot , water-pot Ka1tyS3r. MBh. etc.

कुण्ड n. a vessel for coals R. v , 10 , 16 etc.

कुण्ड n. a round hole in the ground (for receiving and preserving water or fire See. अग्नि-कुण्ड) , pit , well , spring or basin of water (especially consecrated to some holy purpose or person) MBh. R. etc.

कुण्ड m. an adulterine , son of a woman by another man than her husband while the husband is alive Mn. iii , 174

कुण्ड m. (See. गोलand -गोलकbelow)

कुण्ड m. N. of शिवMBh. xii , 10358

कुण्ड m. of a नागMBh. i , 4828

कुण्ड m. of a son of धृत-राष्ट्रMBh. i , 4550

कुण्ड n. ifc. a clump( e.g. दर्भ-क्, a clump of दर्भgrass) Pa1n2. 6-2 , 136

कुण्ड n. a particular measure L.

कुण्ड n. N. of certain mystical figures

कुण्ड n. a particular appearance of the moon (surrounded by a circle) VarBr2S. iv , 15.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a chief वानर. Br. III. 7. २४१.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUṆḌA : A very erudite Brahmarṣi. He was present at the serpent yajña of Janamejaya. (Ādi Parva, Chapter 53, Verse 8).


_______________________________
*5th word in left half of page 441 (+offset) in original book.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ड न.
कटोरे की आकृति वाला पात्र, बौ.श्रौ.सू. 17.21ः2; 3 (कुण्डपायिनाम् अयनम्)।

"https://sa.wiktionary.org/w/index.php?title=कुण्ड&oldid=477990" इत्यस्माद् प्रतिप्राप्तम्