सामग्री पर जाएँ

अप्रकाशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रकाशः, पुं, (न प्रकाशः नञ्समासः ।) प्रकाशा- भावः । तत्पर्य्यायः । जनान्तिकं २ । इति त्रि- काण्डशेषः ॥ (गुप्तः । अप्रकाशितः । गूढः । “द्विविधांस्तस्करान् विद्यात् परद्रव्यापहारकान् । प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः” ॥ इति मनुः । न प्रकाशते इति अप्रकाशः, पचा- द्यच् । अन्धकारावृतः । अदृश्यः । “प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः” । इति रघुवंशे । निहितः । प्रच्छादितः । प्रोथितः । “यानि चैवंप्रकाराणि कालाद्भमिर्न भक्षयेत् । तानि सन्धिषु सीमायामप्रकाशानि कारयेत्” ॥ इति मनुः । रहसि । परोक्षं । “नाततायिबधे दोषो हन्तुर्भवति कश्चनः । प्रकाशं वा प्रकाशं वा मन्युस्तम्मन्युमृच्छति” ॥ इति मनुः ।) तद्विशिष्टे त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=अप्रकाशः&oldid=487320" इत्यस्माद् प्रतिप्राप्तम्